धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 28

  1. [व] तथैव सहदेवॊ ऽपि धर्मराजेन पूजितः महत्या सेनया सार्धं परययौ दक्षिणां दिशम ॥ 1 ॥

  2. स शूरसेनान कार्त्स्न्येन पूर्वम एवाजयत परभुः मत्स्यराजं च कौरव्यॊ वशे चक्रे बलाद बली ॥ 2 ॥

  3. अधिराजाधिपं चैव दन्तवक्रं महाहवे जिगाय करदं चैव सवराज्ये संन्यवेशयत ॥ 3 ॥

  4. सुकुमारं वशे चक्रे सुमित्रं च नराधिपम तथैवापरमत्स्यांश च वयजयत स पटच चरान ॥ 4 ॥

  5. निषादभूमिं गॊशृङ्गं पर्वत परवरं तथा तरसा वयजयद धीमाञ शरेणिमन्तं च पार्थिवम ॥ 5 ॥

  6. नव राष्ट्रं विनिर्जित्य कुन्तिभॊजम उपाद्रवत परीतिपूर्वं च तस्यासौ परतिजग्राह शासनम ॥ 6 ॥

  7. ततश चर्मण्वती कूले जम्भकस्यात्मजं नृपम ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥ 7 ॥

  8. चक्रे तत्र स संग्रामं सह भॊजेन भारत स तम आजौ विनिर्जित्य दक्षिणाभिमुखॊ ययौ ॥ 8 ॥

  9. करांस तेभ्य उपादाय रत्नानि विविधानि च ततस तैर एव सहितॊ नर्मदाम अभितॊ ययौ ॥ 9 ॥

  10. विन्दानुविन्दाव आवन्त्यौ सैन्येन महता वृतौ जिगाय समरे वीराव आश्विनेयः परतापवान ॥ 10 ॥

  11. ततॊ रत्नान्य उपादाय पुरीं माहिष्मतीं ययौ तत्र नीलेन राज्ञा सचक्रे युद्धं नरर्षभः ॥ 11 ॥

  12. पाण्डवः परवीरघ्नः सहदेवः परतापवान ततॊ ऽसय सुमहद युद्धम आसीद भीरु भयंकरम ॥ 12 ॥

  13. सैन्यक्षयकरं चैव पराणानां संशयाय च चक्रे तस्य हि साहाय्यं भगवान हव्यवाहनः ॥ 13 ॥

  14. ततॊ हया रथा नागाः पुरुषाः कवचानि च परदीप्तानि वयदृश्यन्त सहदेव बले तदा ॥ 14 ॥

  15. ततः सुसंभ्रान्त मना बभूव कुरुनन्दनः नॊत्तरं परतिवक्तुं च शक्तॊ ऽभूज जनमेजय ॥ 15 ॥

  16. [ज] किमर्थं भगवान अग्निः परत्यमित्रॊ ऽभवद युधि सहदेवस्य यज्ञार्थं घटमानस्य वै दविज ॥ 16 ॥

  17. [व] तत्र माहिष्मती वासी भगवान हव्यवाहनः शरूयते निगृहीतॊ वै पुरस्तत पारदारिकः ॥ 17 ॥

  18. नीलस्य राज्ञः पूर्वेषाम उपनीतश च सॊ ऽभवत तदा बराह्मणरूपेण चरमाणॊ यदृच्छया ॥ 18 ॥

  19. तं तु राजा यथाशास्त्रम अन्वशाद धार्मिकस तदा परजज्वाल ततः कॊपाद भगवान हव्यवाहनः ॥ 19 ॥

  20. तं दृष्ट्वा विस्मितॊ राजा जगाम शिरसा कविम चक्रे परसादं च तदा तस्य राज्ञॊ विभावसुः ॥ 20 ॥

  21. वरेण छन्दयाम आस तं नृपं सविष्टकृत्तमः अभयं च स जग्राह सवसैन्ये वै महीपतिः ॥ 21 ॥

  22. ततः परभृति ये के चिद अज्ञानात तां पुरीं नृपाः जिगीषन्ति बलाद राजंस ते दह्यन्तीह वह्निना ॥ 22 ॥

  23. तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह बभूवुर अनभिग्राह्या यॊषितश छन्दतः किल ॥ 23 ॥

  24. एवम अग्निर वरं परादात सत्रीणाम अप्रतिवारणे सवैरिण्यस तत्र नार्यॊ हि यथेष्टं परचरन्त्य उत ॥ 24 ॥

  25. वर्जयन्ति च राजानस तद राष्ट्रं पुरुषॊत्तम भयाद अग्नेर महाराज तदा परभृति सर्वदा ॥ 25 ॥

  26. सहदेवस तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम परीतम अग्निना राजन नाकम्पत यथा गिरिः ॥ 26 ॥

  27. उपस्पृश्य शुचिर भूत्वा सॊ ऽबरवीत पावकं ततः तवदर्थॊ ऽयं समारम्भः कृष्णवर्त्मन नमॊ ऽसतु ते ॥ 27 ॥

  28. मुखं तवम असि देवानां यज्ञस तवम असि पावक पावनात पावकश चासि वहनाद धव्यवाहनः ॥ 28 ॥

  29. वेदास तवदर्थं जाताश च जातवेदास ततॊ हय असि यज्ञविघ्नम इमं कर्तुं नार्हस तवं हव्यवाहन ॥ 29 ॥

  30. एवम उक्त्वा तु माद्रेयः कुशैर आस्तीर्य मेदिनीम विधिवत पुरुषव्याघ्रः पावकं परत्युपाविशत ॥ 30 ॥

  31. परमुखे सर्वसैन्यस्य भीतॊद्विग्नस्य भारत न चैनम अत्यगाद वह्निर वेलाम इव महॊदधिः ॥ 31 ॥

  32. तम अभ्येत्य शनैर वह्निर उवाच कुरुनन्दनम सहदेवं नृणां देवं सान्त्वपूर्वम इदं वचः ॥ 32 ॥

  33. उत्तिष्ठॊत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया वेद्मि सर्वम अभिप्रायं तव धर्मसुतस्य च ॥ 33 ॥

  34. मया तु रक्षितव्येयं पुरी भरतसत्तम यावद राज्ञॊ ऽसय नीलस्य कुलवंशधरा इति ईप्सितं तु करिष्यामि मनसस तव पाण्डव ॥ 34 ॥

  35. तत उत्थाय हृष्टात्मा पराञ्जलिः शिरसानतः पूजयाम आस माद्रेयः पावकं पुरुषर्षभः ॥ 35 ॥

  36. पावके विनिवृत्ते तु नीलॊ राजाभ्ययात तदा सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम ॥ 36 ॥

  37. परतिगृह्य च तां पूजां करे च विनिवेश्य तम माद्री सुतस ततः परायाद विजयी दक्षिणां दिशम ॥ 37 ॥

  38. तरैपुरं स वशे कृत्वा राजानम अमितौजसम निजग्राह महाबाहुस तरसा पॊतनेश्वरम ॥ 38 ॥

  39. आहृतिं कौशिकाचार्यं यत्नेन महता ततः वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ॥ 39 ॥

  40. सुराष्ट्र विषयस्थश च परेषयाम आस रुक्मिणे राज्ञे भॊजकटस्थाय महामात्राय धीमते ॥ 40 ॥

  41. भीष्मकाय स धर्मात्मा साक्षाद इन्द्र सखाय वै स चास्य ससुतॊ राजन परतिजग्राह शासनम ॥ 41 ॥

  42. परीतिपूर्वं महाबाहुर वासुदेवम अवेक्ष्य च ततः स रत्नान्य आदाय पुनः परायाद युधां पतिः ॥ 42 ॥

  43. ततः शूर्पारकं चैव गणं चॊपकृताह्वयम वशे चक्रे महातेजा दण्डकांश च महाबलः ॥ 43 ॥

  44. सागरद्वीपवासांश च नृपतीन मलेच्छ यॊनिजान निषादान पुरुषादांश च कर्णप्रावरणान अपि ॥ 44 ॥

  45. ये च कालमुखा नाम नरा राक्षसयॊनयः कृत्स्नं कॊल्ल गिरिं चैव मुरची पत्तनं तथा ॥ 45 ॥

  46. दवीपं ताम्राह्वयं चैव पर्वतं रामकं तथा तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः ॥ 46 ॥

  47. एकपादांश च पुरुषान केवलान वनवासिनः नगरीं संजयन्तीं च पिच्छण्डं करहाटकम दूतैर एव वशे चक्रे करं चैनान अदापयत ॥ 47 ॥

  48. पाण्ड्यांश च दरविदांश चैव सहितांश चॊद्र केरलैः अन्ध्रांस तलवनांश चैव कलिङ्गान ओष्ट्र कर्णिकान ॥ 48 ॥

  49. अन्ताखीं चैव रॊमां च यवनानां पुरं तथा दूतैर एव वशे चक्रे करं चैनान अदापयत ॥ 49 ॥

  50. भरु कच्छं गतॊ धीमान दूतान माद्रवतीसुतः परेषयाम आस राजेन्द्र पौलस्त्याय महात्मने विभीषणाय धर्मात्मा परीतिपूर्वम अरिंदमः ॥ 50 ॥

  51. स चास्य परतिजग्राह शासनं परीतिपूर्वकम तच च कालकृतं धीमान अन्वमन्यत स परभुः ॥ 51 ॥

  52. ततः संप्रेषयाम आस रत्नानि विविधानि च चन्दनागुरुमुख्यानि दिव्यान्य आभरणानि च ॥ 52 ॥

  53. वासांसि च महार्हाणि मणींश चैव महाधनान नयवर्तत ततॊ धीमान सहदेवः परतापवान ॥ 53 ॥

  54. एवं निर्जित्य तरसा सान्त्वेन विजयेन च करदान पार्थिवान कृत्वा परत्यागच्छद अरिंदमः ॥ 54 ॥

  55. धर्मराजाय तत सर्वं निवेद्य भरतर्षभ कृतकर्मा सुखं राजन्न उवास जनमेजय ॥ 55 ॥

Reach this point to mark the section finished.

Continue to अध्याय 29

Previous: अध्याय 27