धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 22

  1. [व] भीमसेनस ततः कृष्णम उवाच यदुनन्दनम बुद्धिम आस्थाय विपुलां जरासंध जिघांसया ॥ 1 ॥

  2. नायं पापॊ मया कृष्ण युक्तः सयाद अनुरॊधितुम पराणेन यदुशार्दूल बद्धवङ्क्षण वाससा ॥ 2 ॥

  3. एवम उक्तस ततः कृष्णः परत्युवाच वृकॊदरम तवरयन पुरुषव्याघ्रॊ जरासंध वधेप्सया ॥ 3 ॥

  4. यत ते दैवं परं सत्त्वं यच च ते मातरिश्वनः बलं भीम जरासंधे दर्शयाशु तद अद्य नः ॥ 4 ॥

  5. एवम उक्तस तदा भीमॊ जरासंधम अरिंदमः उत्क्षिप्य भरामयद राजन बलवन्तं महाबलः ॥ 5 ॥

  6. भरामयित्वा शतगुणं भुजाभ्यां भरतर्षभ बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च ॥ 6 ॥

  7. तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः अभवत तुमुलॊ नादः सर्वप्राणि भयंकरः ॥ 7 ॥

  8. वित्रेसुर मागधाः सर्वे सत्रीणां गर्भाश च सुस्रुवुः भीमसेनस्य नादेन जरासंधस्य चैव ह ॥ 8 ॥

  9. किं नु सविद धिमवान भिन्नः किं नु सविद दीर्यते मही इति सम मागधा जज्ञुर भीमसेनस्य निस्वनात ॥ 9 ॥

  10. ततॊ राजकुलद्वारि परसुप्तम इव तं नृपम रात्रौ परासुम उत्सृज्य निश्चक्रमुर अरिंदमाः ॥ 10 ॥

  11. जरासंध रथं कृष्णॊ यॊजयित्वा पताकिनम आरॊप्य भरातरौ चैव मॊक्षयाम आस बान्धवान ॥ 11 ॥

  12. ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः राजानश चक्रुर आसाद्य मॊक्षिता महतॊ भयात ॥ 12 ॥

  13. अक्षतः शस्त्रसंपन्नॊ जितारिः सह राजभिः रथम आस्थाय तं दिव्यं निर्जगाम गिरिव्रजात ॥ 13 ॥

  14. यः ससॊदर्यवान नाम दवियॊधः कृष्णसारथिः अभ्यासघाती संदृश्यॊ दुर्जयः सर्वराजभिः ॥ 14 ॥

  15. भीमार्जुनाभ्यां यॊधाभ्याम आस्थितः कृष्णसारथिः शुशुभे रथवर्यॊ ऽसौ दुर्जयः सर्वधन्विभिः ॥ 15 ॥

  16. शक्र विष्णू हि संग्रामे चेरतुस तारका मये रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ॥ 16 ॥

  17. तप्तचामीकराभेण किङ्किणीजालमालिना मेघनिर्घॊषनादेन जैत्रेणामित्र घातिना ॥ 17 ॥

  18. येन शक्रॊ दानवानां जघान नवतीर नव तं पराप्य समहृष्यन्त रथं ते पुरुषर्षभाः ॥ 18 ॥

  19. ततः कृष्णं महाबाहुं भरातृभ्यां सहितं तदा रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥ 19 ॥

  20. हयैर दिव्यैः समायुक्तॊ रथॊ वायुसमॊ जवे अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥ 20 ॥

  21. असङ्गी देव विहितस तस्मिन रथवरे धवजः यॊजनाद ददृशे शरीमान इन्द्रायुधसमप्रभः ॥ 21 ॥

  22. चिन्तयाम आस कृष्णॊ ऽथ गरुत्मन्तं स चाभ्ययात कषणे तस्मिन स तेनासीच चैत्ययूप इवॊच्छ्रितः ॥ 22 ॥

  23. वयादितास्यैर महानादैः सह भूतैर धवजालयैः तस्थौ रथवरे तस्मिन गरुत्मान पन्नगाशनः ॥ 23 ॥

  24. दुर्निरीक्ष्यॊ हि भूतानां तेजसाभ्यधिकं बभौ आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥ 24 ॥

  25. न स सज्जति वृक्षेषु शस्त्रैश चापि न रिष्यते दिव्यॊ धवजवरॊ राजन दृश्यते देव मानुषैः ॥ 25 ॥

  26. तम आस्थाय रथं दिव्यं पर्जन्यसमनिस्वनम निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥ 26 ॥

  27. यं लेभे वासवाद राजा वसुस तस्माद बृहद्रथः बृहद्रथात करमेणैव पराप्तॊ बार्हद्रथं नृपम ॥ 27 ॥

  28. स निर्ययौ महाबाहुः पुण्डरीकेक्षणस ततः गिरिव्रजाद बहिस तस्थौ समे देशे महायशाः ॥ 28 ॥

  29. तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस तदा बराह्मण परमुखा राजन विधिदृष्टेण कर्मणा ॥ 29 ॥

  30. बन्धनाद विप्रमुक्ताश च राजानॊ मधुसूदनम पूजयाम आसुर ऊचुश च सान्त्वपूर्वम इदं वचः ॥ 30 ॥

  31. नैतच चित्रं महाबाहॊ तवयि देवकिनन्दन भीमार्जुनबलॊपेते धर्मस्य परिपालनम ॥ 31 ॥

  32. जरासंध हरदे घॊरे दुःखपङ्के निमज्जताम राज्ञां समभ्युद्धरणं यद इदं कृतम अद्य ते ॥ 32 ॥

  33. विष्णॊ समवसन्नानां गिरिदुर्गे सुदारुणे दिष्ट्या मॊक्षाद यशॊ दीप्तम आप्तं ते पुरुषॊत्तम ॥ 33 ॥

  34. किं कुर्मः पुरुषव्याघ्र बरवीहि पुरुषर्षभ कृतम इत्य एव तज जञेयं नृपैर यद्य अपि दुष्करम ॥ 34 ॥

  35. तान उवाच हृषीकेशः समाश्वास्य महामनाः युधिष्ठिरॊ राजसूयं करतुम आहर्तुम इच्छति ॥ 35 ॥

  36. तस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः सर्वैर भवद्भिर यज्ञार्थे साहाय्यं दीयताम इति ॥ 36 ॥

  37. ततः परतीतमनसस ते नृपा भरतर्षभ तथेत्य एवाब्रुवन सर्वे परतिजज्ञुश च तां गिरम ॥ 37 ॥

  38. रत्नभाजं च दाशार्हं चक्रुस ते पृथिवीश्वराः कृच्छ्राज जग्राह गॊविन्दस तेषां तद अनुकम्पया ॥ 38 ॥

  39. जरासंधात्मजश चैव सहदेवॊ महारथः निर्ययौ सजनामात्यः पुरस्कृत्य पुरॊहितम ॥ 39 ॥

  40. स नीचैः परश्रितॊ भूत्वा बहुरत्नपुरॊगमः सहदेवॊ नृणां देवं वासुदेवम उपस्थितः ॥ 40 ॥

  41. भयार्ताय ततस तस्मै कृष्णॊ दत्त्वाभयं तदा अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा ॥ 41 ॥

  42. गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः विवेश राजा मतिमान पुनर बार्हद्रथं पुरम ॥ 42 ॥

  43. कृष्णस तु सह पार्थाभ्यां शरिया परमया जवलन रत्नान्य आदाय भूरीणि परययौ पुष्करेक्षणः ॥ 43 ॥

  44. इन्द्रप्रस्थम उपागम्य पाण्डवाभ्यां सहाच्युतः समेत्य धर्मराजानं परीयमाणॊ ऽभयभाषत ॥ 44 ॥

  45. दिष्ट्या भीमेन बलवाञ जरासंधॊ निपातितः राजानॊ मॊक्षिताश चेमे बन्धनान नृपसत्तम ॥ 45 ॥

  46. दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ पुनः सवनगरं पराप्ताव अक्षताव इति भारत ॥ 46 ॥

  47. ततॊ युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः भीमसेनार्जुनौ चैव परहृष्टः परिषस्वजे ॥ 47 ॥

  48. ततः कषीणे जरासंधे भरातृभ्यां विहितं जयम अजातशत्रुर आसाद्य मुमुदे भरातृभिः सह ॥ 48 ॥

  49. यथा वयः समागम्य राजभिस तैश च पाण्डवः सत्कृत्य पूजयित्वा च विससर्ज नराधिपान ॥ 49 ॥

  50. युधिष्ठिराभ्यनुज्ञातास ते नृपा हृष्टमानसाः जग्मुः सवदेशांस तवरिता यानैर उच्चावचैस ततः ॥ 50 ॥

  51. एवं पुरुषशार्दूलॊ महाबुद्धिर जनार्दनः पाण्डवैर घातयाम आस जरासंधम अरिं तदा ॥ 51 ॥

  52. घातयित्वा जरासंधं बुद्धिपूर्वम अरिंदमः धर्मराजम अनुज्ञाप्य पृथां कृष्णां च भारत ॥ 52 ॥

  53. सुभद्रां भीमसेनं च फाल्गुणं यमजौ तथा धौम्यम आमन्त्रयित्वा च परययौ सवां पुरीं परति ॥ 53 ॥

  54. तेनैव रथमुख्येन तरुणादित्यवर्चसा धर्मराज विसृष्टेन दिव्येनानादयन दिशः ॥ 54 ॥

  55. ततॊ युधिष्ठिर मुखाः पाण्डवा भरतर्षभ परदक्षिणम अकुर्वन्त कृष्णम अक्लिष्टकारिणम ॥ 55 ॥

  56. ततॊ गते भगवति कृष्णे देवकिनन्दने जयं लब्ध्वा सुविपुलं राज्ञाम अभयदास तदा ॥ 56 ॥

  57. संवर्धितौजसॊ भूयॊ कर्मणा तेन भारत दरौपद्याः पाण्डवा राजन परां परीतिम अवर्धयन ॥ 57 ॥

  58. तस्मिन काले तु यद युक्तं धर्मकामार्थ संहितम तद राजा धर्मतश चक्रे राज्यपालन कीर्तिमान ॥ 58 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21