धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 23

  1. [व] पार्थः पराप्य धनुःश्रेष्ठम अक्षय्यौ च महेषुधी रथं धवजं सभां चैव युधिष्ठिरम अभाषत ॥ 1 ॥

  2. धनुर अस्त्रं शरा वीर्यं पक्षॊ भूमिर यशॊबलम पराप्तम एतन मया राजन दुष्प्रापं यद अभीप्सितम ॥ 2 ॥

  3. तत्र कृत्यम अहं मन्ये कॊशस्यास्य विवर्धनम करम आहारयिष्यामि राज्ञः सर्वान नृपॊत्तम ॥ 3 ॥

  4. विजयाय परयास्यामि दिशं धनद रक्षिताम तिथाव अथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥ 4 ॥

  5. धनंजय वचॊ शरुत्वा धर्मराजॊ युधिष्ठिरः सनिग्धगम्भीर नादिन्या तं गिरा परत्यभाषत ॥ 5 ॥

  6. सवस्ति वाच्यार्हतॊ विप्रान परयाहि भरतर्षभ दुर्हृदाम अप्रहर्षाय सुहृदां नन्दनाय च विजयस ते धरुवं पार्थ परियं कामम अवाप्नुहि ॥ 6 ॥

  7. इत्य उक्तः परययौ पार्थः सैन्येन महता वृतः अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥ 7 ॥

  8. तथैव भीमसेनॊ ऽपि यमौ च पुरुषर्षभौ स सैन्याः परययुः सर्वे धर्मराजाभि पूजिताः ॥ 8 ॥

  9. दिशं धनपतेर इष्टाम अजयत पाकशासनिः भीमसेनस तथा पराचीं सहदेवस तु दक्षिणाम ॥ 9 ॥

  10. परतीचीं नकुलॊ राजन दिशं वयजयद अस्त्रवित खाण्डव परस्थम अध्यास्ते धर्मराजॊ युधिष्ठिरः ॥ 10 ॥

  11. [ज] दिशाम अभिजयं बरह्मन विस्तरेणानुकीर्तय न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत ॥ 11 ॥

  12. [वै] धनंजयस्य वक्ष्यामि विजयं पूर्वम एव ते यौगपद्येन पार्थैर हि विजितेयं वसुंधरा ॥ 12 ॥

  13. पूर्वं कुणिन्द विषये वशे चक्रे महीपतीन धनंजयॊ महाबाहुर नातितीव्रेण कर्मणा ॥ 13 ॥

  14. आनर्तान कालकूटांश च कुणिन्दांश च विजित्य सः सुमण्डलं पापजितं कृतवान अनु सैनिकम ॥ 14 ॥

  15. स तेन सहितॊ राजन सव्यसाची परंतपः विजिग्ये सकलं दवीपं परतिविन्ध्यं च पार्थिवम ॥ 15 ॥

  16. सकल दवीपवासांश च सप्त दवीपे च ये नृपाः अर्जुनस्य च सैन्यानां विग्रहस तुमुलॊ ऽभवत ॥ 16 ॥

  17. स तान अपि महेष्वासॊ विजित्य भरतर्षभ तैर एव सहितः सर्वैः पराग्ज्यॊतिषम उपाद्रवत ॥ 17 ॥

  18. तत्र राजा महान आसीद भगदत्तॊ विशां पते तेनासीत सुमहद युद्धं पाण्डवस्य महात्मनः ॥ 18 ॥

  19. स किरातैश च चीनैश च वृतः पराग्ज्यॊतिषॊ ऽभवत अन्यैश च बहुभिर यॊधैः सागरानूपवासिभिः ॥ 19 ॥

  20. ततः स दिवसान अष्टौ यॊधयित्वा धनंजयम परहसन्न अब्रवीद राजा संग्रामे विगतक्लमः ॥ 20 ॥

  21. उपपन्नं महाबाहॊ तवयि पाण्डवनन्दन पाकशासनदायादे वीर्यम आहवशॊभिनि ॥ 21 ॥

  22. अहं सखा सुरेन्द्रस्य शक्राद अनवमॊ रणे न च शक्नॊमि ते तात सथातुं परमुखतॊ युधि ॥ 22 ॥

  23. किम ईप्सितं पाण्डवेय बरूहि किं करवाणि ते यद वक्ष्यसि महाबाहॊ तत करिष्यामि पुत्रक ॥ 23 ॥

  24. [अर] कुरूणाम ऋषभॊ राजा धर्मपुत्रॊ युधिष्ठिरः तस्य पार्थिवताम ईप्से करस तस्मै परदीयताम ॥ 24 ॥

  25. भवान पितृसखा चैव परीयमाणॊ मयापि च ततॊ नाज्ञापयामि तवां परीतिपूर्वं परदीयताम ॥ 25 ॥

  26. [भ] कुन्ती मातर यथा मे तवं तथा राजा युधिष्ठिरः सर्वम एतत करिष्यामि किं चान्यत करवाणि ते ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 24

Previous: अध्याय 22