धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 21

  1. [व] ततस तं निश्चितात्मानं युद्धाय यदुनन्दनः उवाच वाग्मी राजानं जरासंधम अधॊक्षजः ॥ 1 ॥

  2. तरयाणां केन ते राजन यॊद्धुं वितरते मनः अस्मद अन्यतमेनेह सज्जीभवतु कॊ युधि ॥ 2 ॥

  3. एवम उक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः जरासंधस ततॊ राजन भीमसेनेन मागधः ॥ 3 ॥

  4. धारयन्न अगदान मुख्यान निर्वृतीर वेदनानि च उपतस्थे जरासंधं युयुत्सुं वै पुरॊहितः ॥ 4 ॥

  5. कृतस्वस्त्ययनॊ विद्वान बराह्मणेन यशस्विना समनह्यज जरासंधः कषत्रधर्मम अनुव्रतः ॥ 5 ॥

  6. अवमुच्य किरीटं स केशान समनुमृज्य च उदतिष्ठज जरासंधॊ वेलातिग इवार्णवः ॥ 6 ॥

  7. उवाच मतिमान राजा भीमं भीमपराक्रमम भीम यॊत्स्ये तवया सार्धं शरेयसा निर्जितं वरम ॥ 7 ॥

  8. एवम उक्त्वा जरासंधॊ भीमसेनम अरिंदमः परत्युद्ययौ महातेजाः शक्रं बलिर इवासुरः ॥ 8 ॥

  9. ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनॊ बली भीमसेनॊ जरासंधम आससाद युयुत्सया ॥ 9 ॥

  10. ततस तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः वीरौ परमसंहृष्टाव अन्यॊन्यजय काङ्क्षिणौ ॥ 10 ॥

  11. तयॊर अथ भुजाघातान निग्रहप्रग्रहात तथा आसीत सुभीम संह्रादॊ वज्रपर्वतयॊर इव ॥ 11 ॥

  12. उभौ परमसंहृष्टौ बलेनातिबलाव उभौ अन्यॊन्यस्यान्तरं परेप्सू परस्परजयैषिणौ ॥ 12 ॥

  13. तद भीमम उत्सार्य जनं युद्धम आसीद उपह्वरे बलिनॊः संयुगे राजन वृत्रवासवयॊर इव ॥ 13 ॥

  14. परकर्षणाकर्षणाभ्याम अभ्याकर्ष विकर्षणैः आकर्षेतां तथान्यॊन्यं जानुभिश चाभिजघ्नतुः ॥ 14 ॥

  15. ततः शब्देन महता भर्त्सयन्तौ परस्परम पाषाण संघातनिभैः परहारैर अभिजघ्नतुः ॥ 15 ॥

  16. वयूढॊरस्कौ दीर्घभुजौ नियुद्ध कुशलाव उभौ बाहुभिः समसज्जेताम आयसैः परिघैर इव ॥ 16 ॥

  17. कार्त्तिकस्य तु मासस्य परवृत्तं परथमे ऽहनि अनारतं दिवारात्रम अविश्रान्तम अवर्तत ॥ 17 ॥

  18. तद्वृत्तं तु तरयॊदश्यां समवेतं महात्मनॊः चतुर्दश्यां निशायां तु निवृत्तॊ मागधः कलमात ॥ 18 ॥

  19. तं राजानं तथा कलान्तं दृष्ट्वा राजञ जनार्दनः उवाच भीमकर्माणं भीमं संबॊधयन्न इव ॥ 19 ॥

  20. कलान्तः शत्रुर न कौन्तेय लभ्यः पीडयितुं रणे पीड्यमानॊ हि कार्त्स्न्येन जह्याज जीवितम आत्मनः ॥ 20 ॥

  21. तस्मात ते नैव कौन्तेय पीडनीयॊ नराधिपः समम एतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥ 21 ॥

  22. एवम उक्तः स कृष्णेन पाण्डवः परवीरहा जरासंधस्य तद रन्ध्रं जञात्वा चक्रे मतिं वधे ॥ 22 ॥

  23. ततस तम अजितं जेतुं जरासंधं वृकॊदरः संरभ्य बलिनां मुख्यॊ जग्राह कुरुनन्दनः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20