धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 20

  1. [ज] न समरेयं कदा वैरं कृतं युष्माभिर इत्य उत चिन्तयंश च न पश्यामि भवतां परति वैकृतम ॥ 1 ॥

  2. वैकृते चासति कथं मन्यध्वं माम अनागसम अरिं विब्रूत तद विप्राः सतां समय एष हि ॥ 2 ॥

  3. अथ धर्मॊपघाताद धि मनः समुपतप्यते यॊ ऽनागसि परसृजति कषत्रियॊ ऽपि न संशयः ॥ 3 ॥

  4. अतॊ ऽनयथाचरँल लॊके धर्मज्ञः सन महाव्रतः वृजिनां गतिम आप्नॊति शरेयसॊ ऽपय उपहन्ति च ॥ 4 ॥

  5. तरैलॊक्ये कषत्रधर्माद धि शरेयांसं साधु चारिणाम अनागसं परजानानाः परमादाद इव जल्पथ ॥ 5 ॥

  6. [वासु] कुलकार्यं महाराज कश चिद एकः कुलॊद्वहः वहते तन्नियॊगाद वै वयम अभ्युत्थितास तरयः ॥ 6 ॥

  7. तवया चॊपहृता राजन कषत्रिया लॊकवासिनः तद आगॊ करूरम उत्पाद्य मन्यसे किं तव अनागसम ॥ 7 ॥

  8. राजा राज्ञः कथं साधून हिंस्यान नृपतिसत्तम तद राज्ञः संनिगृह्य तवं रुद्रायॊपजिहीर्षसि ॥ 8 ॥

  9. अस्मांस तद एनॊ गच्छेत तवया बार्हद्रथे कृतम वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥ 9 ॥

  10. मनुष्याणां समालम्भॊ न च दृष्टः कदा चन स कथं मानुषैर देवं यष्टुम इच्छसि शंकरम ॥ 10 ॥

  11. सवर्णॊ हि सवर्णानां पशुसंज्ञां करिष्यति कॊ ऽनय एवं यथा हि तवं जरासंध वृथा मतिः ॥ 11 ॥

  12. ते तवां जञातिक्षयकरं वयम आर्तानुसारिणः जञातिवृद्धि निमित्तार्थं विनियन्तुम इहागताः ॥ 12 ॥

  13. नास्ति लॊके पुमान अन्यः कषत्रियेष्व इति चैव यत मन्यसे स च ते राजन सुमहान बुद्धिविप्लवः ॥ 13 ॥

  14. कॊ हि जानन्न अभिजनम आत्मनः कषत्रियॊ नृप नाविशेत सवर्गम अतुलं रणानन्तरम अव्ययम ॥ 14 ॥

  15. सवर्गं हय एव समास्थाय रणयज्ञेषु दीक्षिताः यजन्ते कषत्रिया लॊकांस तद विद्धि मगधाधिपः ॥ 15 ॥

  16. सवर्गयॊनिर जयॊ राजन सवर्गयॊनिर महद यशः सवर्गयॊनिस तपॊ युद्धे मार्गः सॊ ऽवयभिचारवान ॥ 16 ॥

  17. एष हय ऐन्द्रॊ वैजयन्तॊ गुणॊ नित्यं समाहितः येनासुरान पराजित्य जगत पाति शतक्रतुः ॥ 17 ॥

  18. सवर्गम आस्थाय कस्य सयाद विग्रहित्वं यथा तव मागधैर विपुलैः सैन्यैर बाहुल्य बलदर्पितैः ॥ 18 ॥

  19. मावमन्स्थाः परान राजन नास्ति वीर्यं नरे नरे समं तेजस तवया चैव केवलं मनुजेश्वर ॥ 19 ॥

  20. यावद एव न संबुद्धं तावद एव भवेत तव विषह्यम एतद अस्माकम अतॊ राजन बरवीमि ते ॥ 20 ॥

  21. जहि तवं सदृशेष्व एव मानं दर्पं च मागध मा गमः ससुतामात्यः सबलश च यमक्षयम ॥ 21 ॥

  22. दम्भॊद्भवः कार्तवीर्य उत्तरश च बृहद्रथः शरेयसॊ हय अवमन्येह विनेशुः सबला नृपाः ॥ 22 ॥

  23. मुमुक्षमाणास तवत्तश च न वयं बराह्मण बरुवाः शौरिर अस्मि हृषीकेशॊ नृवीरौ पाण्डवाव इमौ ॥ 23 ॥

  24. तवाम आह्वयामहे राजन सथिरॊ युध्यस्व मागध मुञ्च वा नृपतीन सर्वान मा गमस तवं यमक्षयम ॥ 24 ॥

  25. [ज] नाजितान वै नरपतीन अहम आदद्मि कांश चन जितः कः पर्यवस्थाता कॊ ऽतर यॊ न मया जितः ॥ 25 ॥

  26. कषत्रियस्यैतद एवाहुर धर्म्यं कृष्णॊपजीवनम विक्रम्य वशम आनीय कामतॊ यत समाचरेत ॥ 26 ॥

  27. देवतार्थम उपाकृत्य राज्ञः कृष्ण कथं भयात अहम अद्य विमुञ्चेयं कषात्रं वरतम अनुस्मरन ॥ 27 ॥

  28. सैन्यं सैन्येन वयूढेन एक एकेन वा पुनः दवाभ्यां तरिभिर वा यॊत्स्ये ऽहं युगपत पृथग एव वा ॥ 28 ॥

  29. [व] एवम उक्त्वा जरासंधः सहदेवाभिषेचनम आज्ञापयत तदा राजा युयुत्सुर भीमकर्मभिः ॥ 29 ॥

  30. स तु सेनापती राजा सस्मार भरतर्षभ कौशिकं चित्रसेनं च तस्मिन युद्ध उपस्थिते ॥ 30 ॥

  31. ययॊस ते नामनी लॊके हंसेति डिभकेति च पूर्वं संकथिते पुम्भिर नृलॊके लॊकसत्कृते ॥ 31 ॥

  32. तं तु राजन विभुः शौरी राजानं बलिनां वरम समृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम ॥ 32 ॥

  33. सत्यसंधॊ जरासंधं भुवि भीमपराक्रमम भागम अन्यस्य निर्दिष्टं वध्यं भूमिभृद अच्युतः ॥ 33 ॥

  34. नात्मनात्मवतां मुख्य इयेष मधुसूदनः बरह्मण आज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19