[वा] एष पार्थ महान सवादुः पशुमान नित्यम अम्बुमान निरामयः सुवेश्माढ्यॊ निवेशॊ मागधः शुभः ॥ 1 ॥
वैहारॊ विपुलः शैलॊ वराहॊ वृषभस तथा तथैवर्षिगिरिस तात शुभाश चैत्यक पञ्चमाः ॥ 2 ॥
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम ॥ 3 ॥
पुष्पवेष्टित शाखाग्रैर गन्धवद्भिर मनॊरमैः निगूढा इव लॊध्राणां वनैः कामि जनप्रियैः ॥ 4 ॥
शूद्रायां गौतमॊ यत्र महात्मा संशितव्रतः औशीनर्याम अजनयत काक्षीवादीन सुतान ऋषिः ॥ 5 ॥
गौतमः कषयणाद अस्माद अथासौ तत्र वेश्मनि भजते मागधं वंशं स नृपाणाम अनुग्रहात ॥ 6 ॥
अङ्गवङ्गादयश चैव राजानः सुमहाबलाः गौतम कषयम अभ्येत्य रमन्ते सम पुरार्जुन ॥ 7 ॥
वनराजीस तु पश्येमाः परियालानां मनॊरमाः लॊध्राणां च शुभाः पार्थ गौतमौकः समीपजाः ॥ 8 ॥
अर्बुदः शक्र वापी च पन्नगौ शत्रुतापनौ सवस्तिकस्यालयश चात्र मणिनागस्य चॊत्तमः ॥ 9 ॥
अपरिहार्या मेघानां मागधेयं मणेः कृते कौशिकॊ मणिमांश चैव ववृधाते हय अनुग्रहम ॥ 10 ॥
अर्थसिद्धिं तव अनपगां जरासंधॊ ऽभिमन्यते वयम आसादने तस्य दर्पम अद्य निहन्मि हि ॥ 11 ॥
[व] एवम उक्त्वा ततः सर्वे भरातरॊ विपुलौजसः वार्ष्णेयः पाण्डवेयौ च परतस्थुर मागधं पुरम ॥ 12 ॥
तुष्टपुष्टजनॊपेतं चातुर्वर्ण्यजनाकुलम सफीतॊत्सवम अनाधृष्यम आसेदुश च गिरिव्रजम ॥ 13 ॥
ते ऽथ दवारम अनासाद्य पुरस्य गिरिम उच्छ्रितम बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ॥ 14 ॥
यत्र माषादम ऋषभम आससाद बृहद्रथः तं हत्वा माषनालाश च तिस्रॊ भेरीर अकारयत ॥ 15 ॥
आनह्य चर्मणा तेन सथापयाम आस सवे पुरे यत्र ताः पराणदन भेर्यॊ दिव्यपुष्पावचूर्णिताः ॥ 16 ॥
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन शिरसीव जिघांसन्तॊ जरासंध जिघान्सवः ॥ 17 ॥
सथिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम अर्चितं माल्यदामैश च सततं सुप्रतिष्ठितम ॥ 18 ॥
विपुलैर बाहुभिर वीरास ते ऽभिहत्याभ्यपातयन ततस ते मागधं दृष्ट्वा पुरं परविविशुस तदा ॥ 19 ॥
एतस्मिन्न एव काले तु जरासंधं समर्चयन पर्य अग्निकुर्वंश च नृपं दविरदस्थं पुरॊहिताः ॥ 20 ॥
सनातक वरतिनस ते तु बाहुशस्त्रा निरायुधाः युयुत्सवः परविविशुर जरासंधेन भारत ॥ 21 ॥
भक्ष्यमाल्यापणानां च ददृशुः शरियम उत्तमाम सफीतां सर्वगुणॊपेतां सर्वकामसमृद्धिनीम ॥ 22 ॥
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरॊत्तमाः राजमार्गेण गच्छन्तः कृष्ण भीम धनंजयाः ॥ 23 ॥
बलाद गृहीत्वा माल्यानि मालाकारान महाबलाः विराग वसनाः सर्वे सरग्विणॊ मृष्टकुण्डलाः ॥ 24 ॥
निवेशनम अथाजग्मुर जरासंधस्य धीमतः गॊवासम इव वीक्षन्तः सिंहा हैमवता यथा ॥ 25 ॥
शैलस्तम्भनिभास तेषां चन्दनागुरुभूषिताः अशॊभन्त महाराज बाहवॊ बाहुशालिनाम ॥ 26 ॥
तान दृष्ट्वा दविरदप्रख्याञ शालस्कन्धान इवॊद्गतान वयूढॊरस्कान मागधानां विस्मयः समजायत ॥ 27 ॥
ते तव अतीत्य जनाकीर्णास तिस्रः कक्ष्या नरर्षभाः अहं कारेण राजानम उपतस्थुर महाबलाः ॥ 28 ॥
तान पाद्य मधुपर्कार्हान मानार्हान सत्कृतिं गतान परत्युत्थाय जरासंध उपतस्थे यथाविधि ॥ 29 ॥
उवाच चैतान राजासौ सवागतं वॊ ऽसत्व इति परभुः तस्य हय एतद वरतं राजन बभूव भुवि विश्रुतम ॥ 30 ॥
सनातकान बराह्मणान पराप्ताञ शरुत्वा स समितिंजयः अप्य अर्धरात्रे नृपतिः परत्युद्गच्छति भारत ॥ 31 ॥
तांस तव अपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः उपतस्थे जरासंधॊ विस्मितश चाभवत तदा ॥ 32 ॥
ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः इदम ऊचुर अमित्रघ्नाः सर्वे भरतसत्तम ॥ 33 ॥
सवस्त्य अस्तु कुशलं राजन्न इति सर्वे वयवस्थिताः तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम ॥ 34 ॥
तान अब्रवीज जरासंधस तदा यादव पाण्डवान आस्यताम इति राजेन्द्र बराह्मणच छद्म संवृतान ॥ 35 ॥
अथॊपविविशुः सर्वे तरयस ते पुरुषर्षभाः संप्रदीप्तास तरयॊ लक्ष्म्या महाध्वर इवाग्नयः ॥ 36 ॥
तान उवाच जरासंधः सत्यसंधॊ नराधिपः विगर्हमाणः कौरव्य वेषग्रहणकारणात ॥ 37 ॥
न सनातक वरता विप्रा बहिर माल्यानुलेपनाः भवन्तीति नृलॊके ऽसमिन विदितं मम सर्वशः ॥ 38 ॥
ते यूयं पुष्पवन्तश च भुजैर जयाघात लक्षणैः बिभ्रतः कषात्रम ओजॊ च बराह्मण्यं परतिजानथ ॥ 39 ॥
एवं विराग वसना बहिर माल्यानुलेपनाः सत्यं वदत के यूयं सत्यं राजसु शॊभते ॥ 40 ॥
चैत्यकं च गिरेः शृङ्गं भित्त्वा किम इव सद्म नः अद्वारेण परविष्टाः सथ निर्भया राजकिल्बिषात ॥ 41 ॥
कर्म चैतद विलिङ्गस्य किं वाद्य परसमीक्षितम वदध्वं वाचि वीर्यं च बराह्मणस्य विशेषतः ॥ 42 ॥
एवं च माम उपस्थाय कस्माच च विधिनार्हणाम परणीतां नॊ न गृह्णीत कार्यं किं चास्मद आगमे ॥ 43 ॥
एवम उक्तस ततः कृष्णः परत्युवाच महामनाः सनिग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ॥ 44 ॥
सनातक वरतिनॊ राजन बराह्मणाः कषत्रिया विशः विशेषनियमाश चैषाम अविशेषाश च सन्त्य उत ॥ 45 ॥
विशेषवांश च सततं कषत्रियः शरियम अर्छति पुष्पवत्सु धरुवा शरीश च पुष्पवन्तस ततॊ वयम ॥ 46 ॥
कषत्रियॊ बाहुवीर्यस तु न तथा वाक्यवीर्यवान अप्रगल्भं वचस तस्य तस्माद बार्हद्रथे समृतम ॥ 47 ॥
सववीर्यं कषत्रियाणां च बाह्वॊर धाता नयवेशयत तद दिदृक्षसि चेद राजन दरष्टास्य अद्य न संशयः ॥ 48 ॥
अद्वारेण रिपॊर गेहं दवारेण सुहृदॊ गृहम परविशन्ति सदा सन्तॊ दवारं नॊ वर्जितं ततः ॥ 49 ॥
कार्यवन्तॊ गृहान एत्य शत्रुतॊ नार्हणां वयम परतिगृह्णीम तद विद्धि एतन नः शाश्वतं वरतम ॥ 50 ॥
सभापर्व · Sabha Parva
अध्याय 19
Reach this point to mark the section finished.
Continue to अध्याय 20