धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 18

  1. [वा] पतितौ हंसडिभकौ कंसामात्यौ निपातितौ जरासंधस्य निधने कालॊ ऽयं समुपागतः ॥ 1 ॥

  2. न स शक्यॊ रणे जेतुं सर्वैर अपि सुरासुरैः पराणयुद्धेन जेतव्यः स इत्य उपलभामहे ॥ 2 ॥

  3. मयि नीतिर बलं भीमे रक्षिता चावयॊ ऽरजुनः साधयिष्यामि तं राजन वयं तरय इवाग्नयः ॥ 3 ॥

  4. तरिभिर आसादितॊ ऽसमाभिर विजने स नराधिपः न संदेहॊ यथा युद्धम एकेनाभ्युपयास्यति ॥ 4 ॥

  5. अवमानाच च लॊकस्य वयायतत्वाच च धर्षितः भीमसेनेन युद्धाय धरुवम अभ्युपयास्यति ॥ 5 ॥

  6. अलं तस्य महाबाहुर भीमसेनॊ महाबलः लॊकस्य समुदीर्णस्य निधनायान्तकॊ यथा ॥ 6 ॥

  7. यदि ते हृदयं वेत्ति यदि ते परत्ययॊ मयि भीमसेनार्जुनौ शीघ्रं नयासभूतौ परयच्छ मे ॥ 7 ॥

  8. [वै] एवम उक्तॊ भगवता परत्युवाच युधिष्ठिरः भीम पार्थौ समालॊक्य संप्रहृष्टमुखौ सथितौ ॥ 8 ॥

  9. अच्युताच्युत मा मैवं वयाहरामित्र कर्षण पाण्डवानां भवान नाथॊ भवन्तं चाश्रिता वयम ॥ 9 ॥

  10. यथा वदसि गॊविन्द सर्वं तद उपपद्यते न हि तवम अग्रतस तेषां येषां लक्ष्मीः पराङ्मुखी ॥ 10 ॥

  11. निहतश च जरासंधॊ मॊक्षिताश च महीक्षितः राजसूयश च मे लब्धॊ निदेशे तव तिष्ठतः ॥ 11 ॥

  12. कषिप्रकारिन यथा तव एतत कार्यं समुपपद्यते मम कार्यं जगत कार्यं तथा कुरु नरॊत्तम ॥ 12 ॥

  13. तरिभिर भवद्भिर हि विना नाहं जीवितुम उत्सहे धर्मकामार्थ रहितॊ रॊगार्त इव दुर्गतः ॥ 13 ॥

  14. न शौरिणा विना पार्थॊ न शौरिः पाण्डवं विना नाजेयॊ ऽसत्य अनयॊर लॊके कृष्णयॊर इति मे मतिः ॥ 14 ॥

  15. अयं च बलिनां शरेष्ठः शरीमान अपि वृकॊदरः युवाभ्यां सहितॊ वीरः किं न कुर्यान महायशाः ॥ 15 ॥

  16. सुप्रणीतॊ बलौघॊ हि कुरुते कार्यम उत्तमम अन्धं जडं बलं पराहुः परणेतव्यं विचक्षणैः ॥ 16 ॥

  17. यतॊ हि निम्नं भवति नयन्तीह ततॊ जलम यतश छिद्रं ततश चापि नयन्ते धीधना बलम ॥ 17 ॥

  18. तस्मान नयविधानज्ञं पुरुषं लॊकविश्रुतम वयम आश्रित्य गॊविन्दं यतामः कार्यसिद्धये ॥ 18 ॥

  19. एवं परज्ञा नयबलं करियॊपाय समन्वितम पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ॥ 19 ॥

  20. एवम एव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये अर्जुनः कृष्णम अन्वेतु भीमॊ ऽनवेतु धनंजयम नयॊ जयॊ बलं चैव विक्रमे सिद्धिम एष्यति ॥ 20 ॥

  21. एवम उक्तास ततः सर्वे भरातरॊ विपुलौजसः वार्ष्णेयः पाण्डवेयौ च परतस्थुर मागधं परति ॥ 21 ॥

  22. वर्चस्विनां बराह्मणानां सनातकानां परिच्छदान आच्छाद्य सुहृदां वाक्यैर मनॊज्ञैर अभिनन्दिताः ॥ 22 ॥

  23. अमर्षाद अभितप्तानां जञात्यर्थं मुख्यवाससाम रविसॊमाग्निवपुषां भीमम आसीत तदा वपुः ॥ 23 ॥

  24. हतं मेने जरासंधं दृष्ट्वा भीम पुरॊगमौ एककार्यसमुद्युक्तौ कृष्णौ युद्धे ऽपराजितौ ॥ 24 ॥

  25. ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने धर्मार्थकामकार्याणां कार्याणाम इव निग्रहे ॥ 25 ॥

  26. कुरुभ्यः परस्थितास ते तु मध्येन कुरुजाङ्गलम रम्यं पद्मसरॊ गत्वा कालकूटम अतीत्य च ॥ 26 ॥

  27. गण्डकीयां तथा शॊणं सदा नीरां तथैव च एकपर्वतके नद्यः करमेणैत्य वरजन्ति ते ॥ 27 ॥

  28. संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश च कॊसलान अतीत्य जग्मुर मिथिलां मालां चर्मण्वतीं नदीम ॥ 28 ॥

  29. उत्तीर्य गङ्गां शॊणं च सर्वे ते पराङ्मुखास तरयः कुरवॊरश छदं जग्मुर मागधं कषेत्रम अच्युताः ॥ 29 ॥

  30. ते शश्वद गॊधनाकीर्णम अम्बुमन्तं शुभद्रुतम गॊरथं गिरिम आसाद्य ददृशुर मागधं पुरम ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 19

Previous: अध्याय 17