धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 17

  1. [र] जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी तव वेश्मनि राजेन्द्र पूजिता नयवसं सुखम ॥ 1 ॥

  2. साहं परत्युपकारार्थं चिन्तयन्त्य अनिशं नृप तवेमे पुत्र शकले दृष्टवत्य अस्मि धार्मिक ॥ 2 ॥

  3. संश्लेषिते मया दैवात कुमारः समपद्यत तव भाग्यैर महाराज हेतुमात्रम अहं तव इह ॥ 3 ॥

  4. [क] एवम उक्त्वा तु सा राजंस तत्रैवान्तरधीयत स गृह्य च कुमारं तं पराविशत सवगृहं नृपः ॥ 4 ॥

  5. तस्य बालस्य यत्कृत्यं तच चकार नृपस तदा आज्ञापयच च राक्षस्या मागधेषु महॊत्सवम ॥ 5 ॥

  6. तस्य नामाकरॊत तत्र परजापतिसमः पिता जरया संधितॊ यस्माज जरासंधस ततॊ ऽभवत ॥ 6 ॥

  7. सॊ ऽवर्धत महातेजा मगधाधिपतेः सुतः परमाण बलसंपन्नॊ हुताहुतिर इवानलः ॥ 7 ॥

  8. कस्य चित तव अथ कालस्य पुनर एव महातपाः मगधान उपचक्राम भगवांश चण्डकौशिकः ॥ 8 ॥

  9. तस्यागमनसंहृष्टः सामात्यः सपुरःसरः सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥ 9 ॥

  10. पाद्यार्घ्याचमनीयैस तम अर्चयाम आस भारत स नृपॊ राज्यसहितं पुत्रं चास्मै नयवेदयत ॥ 10 ॥

  11. परतिगृह्य तु तां पूजां पार्थिवाद भगवान ऋषिः उवाच मागधं राजन परहृष्टेनान्तरात्मना ॥ 11 ॥

  12. सर्वम एतन मया राजन विज्ञातं जञानचक्षुषा पुत्रस तु शृणु राजेन्द्र यादृशॊ ऽयं भविष्यति ॥ 12 ॥

  13. अस्य वीर्यवतॊ वीर्यं नानुयास्यन्ति पार्थिवाः देवैर अपि विसृष्टानि शस्त्राण्य अस्य महीपते न रुजं जनयिष्यन्ति गिरेर इव नदीरयाः ॥ 13 ॥

  14. सर्वमूर्धाभिषिक्तानाम एष मूर्ध्नि जवलिष्यति सर्वेषां निष्प्रभ करॊ जयॊतिषाम इव भास्करः ॥ 14 ॥

  15. एनम आसाद्य राजानः समृद्धबलवाहनाः विनाशम उपयास्यन्ति शलभा इव पावकम ॥ 15 ॥

  16. एष शरियं समुदितां सर्वराज्ञां गरहीष्यति वर्षास्व इवॊद्धत जला नदीर नदनदीपतिः ॥ 16 ॥

  17. एष धारयिता सम्यक चातुर्वर्ण्यं महाबलः शुभाशुभम इव सफीता सर्वसस्य धराधरा ॥ 17 ॥

  18. अस्याज्ञा वशगाः सर्वे भविष्यन्ति नराधिपाः सर्वभूतात्मभूतस्य वायॊर इव शरीरिणः ॥ 18 ॥

  19. एष रुद्रं महादेवं तरिपुरान्त करं हरम सर्वलॊकेष्व अति बलः सवयं दरक्ष्यति मागधः ॥ 19 ॥

  20. एवं बरुवन्न एव मुनिः सवकार्यार्थं विचिन्तयन विसर्जयाम आस नृपं बृहद्रथम अथारिहन ॥ 20 ॥

  21. परविश्य नगरं चैव जञातिसंबन्धिभिर वृतः अभिषिच्य जरासंधं मगधाधिपतिस तदा बृहद्रथॊ नरपतिः परां निर्वृतिम आययौ ॥ 21 ॥

  22. अभिषिक्ते जरासंधे तदा राजा बृहद्रथः पत्नी दवयेनानुगतस तपॊवनरतॊ ऽभवत ॥ 22 ॥

  23. तपॊवनस्थे पितरि मातृभ्यां सह भारत जरासंधः सववीर्येण पाथिवान अकरॊद वशे ॥ 23 ॥

  24. अथ दीर्घस्य कालस्य तपॊवनगतॊ नृपः सभार्यः सवर्गम अगमत तपस तप्त्वा बृहद्रथः ॥ 24 ॥

  25. तस्यास्तां हंसडिभकाव अशस्त्रनिधनाव उभौ मन्त्रे मतिमतां शरेष्ठौ युद्धशास्त्रविशारदौ ॥ 25 ॥

  26. यौ तौ मया ते कथितौ पूर्वम एव महाबलौ तरयस तरयाणां लॊकानां पर्याप्ता इति मे मतिः ॥ 26 ॥

  27. एवम एष तदा वीर बलिभिः कुकुरान्धकैः वृष्णिभिश च महाराज नीतिहेतॊर उपेक्षितः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 18

Previous: अध्याय 16