[वा] जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च या वै युक्ता मतिः सेयम अर्जुनेन परदर्शिता ॥ 1 ॥
न मृत्यॊः समयं विद्म रात्रौ वा यदि वा दिवा न चापि कं चिद अमरम अयुद्धेनापि शुश्रुमः ॥ 2 ॥
एतावद एव पुरुषैः कार्यं हृदयतॊषणम नयेन विधिदृष्टेन यद उपक्रमते परान ॥ 3 ॥
सुनयस्यानपायस्य संयुगे परमः करमः संशयॊ जायते साम्ये साम्यं च न भवेद दवयॊः ॥ 4 ॥
ते वयं नयम आस्थाय शत्रुदेहसमीपगाः कथम अन्तं न गच्छेम वृक्षस्येव नदीरयाः पररन्ध्रे पराक्रान्ताः सवरन्ध्रावरणे सथिताः ॥ 5 ॥
वयूढानीकैर अनुबलैर नॊपेयाद बलवत्तरम इति बुद्धिमतां नीतिस तन ममापीह रॊचते ॥ 6 ॥
अनवद्या हय असंबुद्धाः परविष्टाः शत्रुसद्म तत शत्रुदेहम उपाक्रम्य तं कामं पराप्नुयामहे ॥ 7 ॥
एकॊ हय एव शरियं नित्यं बिभर्ति पुरुषर्षभ अन्तरात्मेव भूतानां तत कषये वै बलक्षयः ॥ 8 ॥
अथ चेत तं निहत्याजौ शेषेणाभिसमागताः पराप्नुयाम ततः सवर्गं जञातित्राण परायनाः ॥ 9 ॥
[य] कृष्ण कॊ ऽयं जरासंधः किं वीर्यः किं पराक्रमः यस तवां सपृष्ट्वाग्निसदृशं न दग्धः शलभॊ यथा ॥ 10 ॥
[क] शृणु राजञ जरासंधॊ यद वीर्यॊ यत पराक्रमः यथा चॊपेक्षितॊ ऽसमाभिर बहुशः कृतविप्रियः ॥ 11 ॥
अक्षौहिणीनां तिसृणाम आसीत समरदर्पितः राजा बृहद्रथॊ नाम मगधाधिपतिः पतिः ॥ 12 ॥
रूपवान वीर्यसंपन्नः शरीमान अतुलविक्रमः नित्यं दीक्षा कृश तनुः शतक्रतुर इवापरः ॥ 13 ॥
तेजसा सूर्यसदृशः कषमया पृथिवीसमः यमान्तकसमः कॊपे शरिया वैश्रवणॊपमः ॥ 14 ॥
तस्याभिजन संयुक्तैर गुणैर भरतसत्तम वयाप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ 15 ॥
स काशिराजस्य सुते यमजे भरतर्षभ उपयेमे महावीर्यॊ रूपद्रविण संमते ॥ 16 ॥
तयॊश चकार समयं मिथः स पुरुषर्षभः नातिवर्तिष्य इत्य एवं पत्नीभ्यां संनिधौ तदा ॥ 17 ॥
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप परियाभ्याम अनुरूपाभ्यां करेणुभ्याम इव दविपः ॥ 18 ॥
तयॊर मध्यगतश चापि रराज वसुधाधिपः गङ्गायमुनयॊर मध्ये मूर्तिमान इव सागरः ॥ 19 ॥
विषयेषु निमग्नस्य तस्य यौवनम अत्यगात न च वंशकरः पुत्रस तस्याजायत कश चन ॥ 20 ॥
मङ्गलैर बहुभिर हॊमैः पुत्र कामाभिर इष्टिभिः नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम ॥ 21 ॥
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः शुश्राव तपसि शरान्तम उदारं चण्डकौशिकम ॥ 22 ॥
यदृच्छयागतं तं तु वृक्षमूलम उपाश्रितम पत्नीभ्यां सहितॊ राजा सर्वरत्नैर अतॊषयत ॥ 23 ॥
तम अब्रवीत सत्यधृतिः सत्यवाग ऋषिसत्तमः परितुष्टॊ ऽसमि ते राजन वरं वरय सुव्रत ॥ 24 ॥
ततः सभार्यः परनटस तम उवाच बृहद्रथः पुत्रदर्शननैराश्याद बाष्पगद्गदया गिरा ॥ 25 ॥
[ब] भगवन राज्यम उत्सृज्य परस्थितस्य तपॊवनम किं वरेणाल्प भाग्यस्य किं राज्येनाप्रजस्य मे ॥ 26 ॥
[क] एतच छरुत्वा मुनिर धयानम अगमत कषुभितेन्द्रियः तस्यैव चाम्र वृक्षस्य छायायां समुपाविशत ॥ 27 ॥
तस्यॊपविष्टस्य मुनेर उत्सङ्गे निपपात ह अवातम अशुकादष्टम एकम आम्रफलं किल ॥ 28 ॥
तत परगृह्य मुनिश्रेष्ठॊ हृदयेनाभिमन्त्र्य च राज्ञे ददाव अप्रतिमं पुत्रसंप्राप्ति कारकम ॥ 29 ॥
उवाच च महाप्राज्ञस तं राजानं महामुनिः गच्छ राजन कृतार्थॊ ऽसि निवर्त मनुजाधिप ॥ 30 ॥
यथा समयम आज्ञाय तदा स नृपसत्तमः दवाभ्याम एकं फलं परादात पत्नीभ्यां भरतर्षभ ॥ 31 ॥
ते तद आम्रं दविधाकृत्वा भक्षयाम आसतुः शुभे भावित्वाद अपि चार्थस्य सत्यवाक्यात तथा मुनेः ॥ 32 ॥
तयॊः समभवद गर्भः फलप्राशन संभवः ते च दृष्ट्वा नरपतिः परां मुदम अवाप ह ॥ 33 ॥
अथ काले महाप्राज्ञ यथा समयम आगते परजायेताम उभे राजञ शरीरशकले तदा ॥ 34 ॥
एकाक्षिबाहुचरणे अर्धॊदर मुखस्फिजे दृष्ट्वा शरीरशकले परवेपाते उभे भृशम ॥ 35 ॥
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले सजीवे पराणिशकले तत्यजाते सुदुःखिते ॥ 36 ॥
तयॊर धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे निर्गम्यान्तः पुरद्वारात समुत्सृज्याशु जग्मतुः ॥ 37 ॥
ते चतुष्पथ निक्षिप्ते जरा नामाथ राक्षसी जग्राह मनुजव्याघ्रमांसशॊणितभॊजना ॥ 38 ॥
कर्तुकामा सुखवहे शकले सा तु राक्षसी संघट्टयाम आस तदा विधानबलचॊदिता ॥ 39 ॥
ते समानीत मात्रे तु शकले पुरुषर्षभ एकमूर्ति कृते वीरः कुमारः समपद्यत ॥ 40 ॥
ततः सा राक्षसी राजन विस्मयॊत्फुल्ललॊचना न शशाक समुद्वॊधुं वज्रसार मयं शिशुम ॥ 41 ॥
बालस ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः पराक्रॊशद अतिसंरम्भात सतॊय इव तॊयदः ॥ 42 ॥
तेन शब्देन संभ्रान्तः सहसान्तः पुरे जनः निर्जगाम नरव्याघ्र राज्ञा सह परंतप ॥ 43 ॥
ते चाबले परिग्लाने पयः पूर्णपयॊधरे निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम ॥ 44 ॥
अथ दृष्ट्वा तथा भूते राजानं चेष्ट संततिम तं च बालं सुबलिनं चिन्तयाम आस राक्षसी ॥ 45 ॥
नार्हामि विषये राज्ञॊ वसन्ती पुत्रगृद्धिनः बालं पुत्रम उपादातुं मेघलेखेव भास्करम ॥ 46 ॥
सा कृत्वा मानुषं रूपम उवाच मनुजाधिपम बृहद्रथसुतस ते ऽयं मद्दत्तः परतिगृह्यताम ॥ 47 ॥
तव पत्नी दवये जातॊ दविजातिवरशासनात धात्री जनपरित्यक्तॊ ममायं परिरक्षितः ॥ 48 ॥
ततस ते भरतश्रेष्ठ काशिराजसुते शुभे तं बालम अभिपत्याशु परस्नवैर अभिषिञ्चताम ॥ 49 ॥
ततः स राजा संहृष्टः सर्वं तद उपलभ्य च अपृच्छन नवहेमाभां राक्षसीं ताम अराक्षसीम ॥ 50 ॥
का तवं कमलगर्भाभे मम पुत्र परदायिनी कामया बरूहि कल्याणि देवता परतिभासि मे ॥ 51 ॥
सभापर्व · Sabha Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17