[क] सर्वैर गुणैर महाराज राजसूयं तवम अर्हसि जानतस तव एव ते सर्वं किं चिद वक्ष्यामि भारत ॥ 1 ॥
जामदग्न्येन रामेण कषत्रं यद अवशेषितम तस्माद अवरजं लॊके यद इदं कषत्रसंज्ञितम ॥ 2 ॥
कृतॊ ऽयं कुलसंकल्पः कषत्रियैर वसुधाधिप निदेशवाग्भिस तत ते ह विदितं भरतर्षभ ॥ 3 ॥
ऐलस्येक्ष्वाकु वंशस्य परकृतिं परिचक्षते राजानः शरेणि बद्धाश च ततॊ ऽनये कषत्रिया भुवि ॥ 4 ॥
ऐल वंश्यास तु ये राजंस तथैवेक्ष्वाकवॊ नृपाः तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥ 5 ॥
ययातेस तव एव भॊजानां विस्तरॊ ऽतिगुणॊ महान भजते च महाराज विस्तरः स चतुर्दशम ॥ 6 ॥
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रम उपासते सॊ ऽवनीं मध्यमां भुक्त्वा मिथॊ भेदेष्व अमन्यत ॥ 7 ॥
चतुर्युस तव अपरॊ राजा यस्मिन्न एकशतॊ ऽभवत स साम्राज्यं जरासंधः पराप्तॊ भवति यॊनितः ॥ 8 ॥
तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः राजन सेनापतिर जातः शिशुपालः परतापवान ॥ 9 ॥
तम एव च महाराज शिष्यवत समुपस्थितः वक्रः करूषाधिपतिर माया यॊधी महाबलः ॥ 10 ॥
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ जरासंधं महावीर्यं तौ हंसडिभकाव उभौ ॥ 11 ॥
दन्तवक्रः करूषश च कलभॊ मेघवाहनः मूर्ध्ना दिव्यं मणिं बिभ्रद यं तं भूतमणिं विदुः ॥ 12 ॥
मुरं च नरकं चैव शास्ति यॊ यवनाधिपौ अपर्यन्त बलॊ राजा परतीच्यां वरुणॊ यथा ॥ 13 ॥
भगदत्तॊ महाराज वृद्धस तव पितुः सखा स वाचा परणतस तस्य कर्मणा चैव भारत ॥ 14 ॥
सनेहबद्धस तु पितृवन मनसा भक्तिमांस तवयि परतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यॊ नृपः ॥ 15 ॥
मातुलॊ भवतः शूरः पुरुजित कुन्तिवर्धनः स ते संनतिमान एकः सनेहतः शत्रुतापनः ॥ 16 ॥
जरासंधं गतस तव एवं पुरा यॊ न मया हतः पुरुषॊत्तम विज्ञातॊ यॊ ऽसौ चेदिषु दुर्मतिः ॥ 17 ॥
आत्मानं परतिजानाति लॊके ऽसमिन पुरुषॊत्तमम आदत्ते सततं मॊहाद यः स चिह्नं च मामकम ॥ 18 ॥
वङ्ग पुण्ड्र किरातेषु राजा बलसमन्वितः पौण्ड्रकॊ वासुदेवेति यॊ ऽसौ लॊकेषु विश्रुतः ॥ 19 ॥
चतुर्युः स महाराज भॊज इन्द्र सखॊ बली विद्या बलाद यॊ वयजयत पाण्ड्य करथक कैशिकान ॥ 20 ॥
भराता यस्याहृतिः शूरॊ जामदग्न्य समॊ युधि स भक्तॊ मागधं राजा भीष्मकः परवीरहा ॥ 21 ॥
परियाण्य आचरतः परह्वान सदा संबन्धिनः सतः भजतॊ न भजत्य अस्मान अप्रियेषु वयवस्थितः ॥ 22 ॥
न कुलं न बलं राजन्न अभिजानंस तथात्मनः पश्यमानॊ यशॊ दीप्तं जरासंधम उपाश्रितः ॥ 23 ॥
उदीच्यभॊजाश च तथा कुलान्य अष्टा दशाभिभॊ जरासंध भयाद एव परतीचीं दिशम आश्रिताः ॥ 24 ॥
शूरसेना भद्र कारा बॊधाः शाल्वाः पतच चराः सुस्थराश च सुकुट्टाश च कुणिन्दाः कुन्तिभिः सह ॥ 25 ॥
शाल्वेयानां च राजानः सॊदर्यानुचरैः सह दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कॊशलाः ॥ 26 ॥
तथॊत्तरां दिशं चापि परित्यज्य भयार्दिताः मत्स्याः संन्यस्तपादाश च दक्षिणां दिशम आश्रिताः ॥ 27 ॥
तथैव सर्वपाञ्चाला जरासंध भयार्दिताः सवराष्ट्रं संपरित्यज्य विद्रुताः सर्वतॊदिशम ॥ 28 ॥
कस्य चित तव अथ कालस्य कंसॊ निर्मथ्य बान्धवान बार्हद्रथ सुते देव्याव उपागच्छद वृथा मतिः ॥ 29 ॥
अस्तिः पराप्तिश च नाम्ना ते सहदेवानुजे ऽबले बलेन तेन स जञातीन अभिभूय वृथा मतिः ॥ 30 ॥
शरैष्ठ्यं पराप्तः स तस्यासीद अतीवापनयॊ महान भॊजराजन्य वृद्धैस तु पीड्यमानैर दुरात्मना ॥ 31 ॥
जञातित्राणम अभीप्सद्भिर अस्मत संभावना कृता दत्त्वाक्रूराय सुतनुं ताम आहुक सुतां तदा ॥ 32 ॥
संकर्षण दवितीयेन जञातिकार्यं मया कृतम हतौ कंस सुनामानौ मया रामेण चाप्य उत ॥ 33 ॥
भये तु समुपक्रान्ते जरासंधे समुद्यते मन्त्रॊ ऽयं मन्त्रितॊ राजन कुलैर अष्टा दशावरैः ॥ 34 ॥
अनारमन्तॊ निघ्नन्तॊ महास्त्रैः शतघातिभिः न हन्याम वयं तस्य तरिभिर वर्षशतैर बलम ॥ 35 ॥
तस्य हय अमरसंकाशौ बलेण बलिनां वरौ नामभ्यां हंसडिभकाव इत्य आस्तां यॊधसत्तमौ ॥ 36 ॥
ताव उभौ सहितौ वीरौ जरासंधश च वीर्यवान तरयस तरयाणां लॊकानां पर्याप्ता इति मे मतिः ॥ 37 ॥
न हि केवलम अस्माकं यावन्तॊ ऽनये च पार्थिवाः तथैव तेषाम आसीच च बुद्धिर बुद्धिमतां वर ॥ 38 ॥
अथ हंस इति खयातः कश चिद आसीन महान नृपः स चान्यैः सहितॊ राजन संग्रामे ऽषटा दशावरैः ॥ 39 ॥
हतॊ हंस इति परॊक्तम अथ केनापि भारत तच छरुत्वा डिभकॊ राजन यमुनाम्भस्य अमज्जत ॥ 40 ॥
विना हंसेन लॊके ऽसमिन नाहं जीवितुम उत्सहे इत्य एतां मतिम आस्थाय डिभकॊ निधनं गतः ॥ 41 ॥
तथा तु डिभकं शरुत्वा हंसः परपुरंजयः परपेदे यमुनाम एव सॊ ऽपि तस्यां नयमज्जत ॥ 42 ॥
तौ स राजा जरासंधः शरुत्वाप्सु निधनं गतौ सवपुरं शूरसेनानां परययौ भरतर्षभ ॥ 43 ॥
ततॊ वयम अमित्रघ्न तस्मिन परतिगते नृपे पुनर आनन्दिताः सर्वे मथुरायां वसामहे ॥ 44 ॥
यदा तव अभ्येत्य पितरं सा वै राजीवलॊचना कंस भार्या जरासंधं दुहिता मागधं नृपम ॥ 45 ॥
चॊदयत्य एव राजेन्द्र पतिव्यसनदुःखिता पतिघ्नं मे जहीत्य एवं पुनः पुनर अरिन दम ॥ 46 ॥
ततॊ वयं महाराज तं मन्त्रं पूर्वमन्त्रितम संस्मरन्तॊ विमनसॊ वयपयाता नराधिप ॥ 47 ॥
पृथक्त्वेन दरुता राजन संक्षिप्य महतीं शरियम परपतामॊ भयात तस्य सधन जञातिबान्धवाः ॥ 48 ॥
इति संचिन्त्य सर्वे सम परतीचीं दिशम आश्रिताः कुश सथलीं पुरीं रम्यां रैवतेनॊपशॊभिताम ॥ 49 ॥
पुनर निवेशनं तस्यां कृतवन्तॊ वयं नृप तथैव दुर्ग संस्कारं देवैर अपि दुरासदम ॥ 50 ॥
सत्रियॊ ऽपि यस्यां युध्येयुः किं पुनर वृष्णिपुंगवाः तस्यां वयम अमित्रघ्न निवसामॊ ऽकुतॊभयाः ॥ 51 ॥
आलॊक्य गिरिमुख्यं तं माधवी तीर्थम एव च माधवाः कुरुशार्दूल परां मुदम अवाप्नुवन ॥ 52 ॥
एवं वयं जरासंधाद आदितः कृतकिल्बिषाः सामर्थ्यवन्तः संबन्धाद भवन्तं समुपाश्रिताः ॥ 53 ॥
तरियॊजनायतं सद्म तरिस्कन्धं यॊजनाद अधि यॊजनान्ते शतद्वारं विक्रमक्रमतॊरणम अष्टा दशावरैर नद्धं कषत्रियैर युद्धदुर्मदैः ॥ 54 ॥
अष्टा दशसहस्राणि वरतानां सन्ति नः कुले आहुकस्य शतं पुत्रा एकैकस तरिशतावरः ॥ 55 ॥
चारु देष्णः सह भरात्रा चक्रदेवॊ ऽथ सात्यकिः अहं च रौहिणेयश च साम्बः शौरि समॊ युधि ॥ 56 ॥
एवम एते रथा सप्त राजन्न अन्यान निबॊध मे कृतवर्मा अनाधृष्टिः समीकः समितिंजयः ॥ 57 ॥
कह्वः शङ्कुर निदान्तश च सप्तैवैते महारथाः पुत्रौ चान्धकभॊजस्य वृद्धॊ राजा च ते दश ॥ 58 ॥
लॊकसंहनना वीरा वीर्यवन्तॊ महाबलाः समरन्तॊ मध्यमं देशं वृष्णिमध्ये गतव्यथाः ॥ 59 ॥
स तवं सम्राड गुणैर युक्तः सदा भरतसत्तम कषत्रे सम्राजम आत्मानं कर्तुम अर्हसि भारत ॥ 60 ॥
न तु शक्यं जरासंधे जीवमाने महाबले राजसूयस तवया पराप्तुम एषा राजन मतिर मम ॥ 61 ॥
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ॥ 62 ॥
सॊ ऽपि राजा जरासंधॊ यियक्षुर वसुधाधिपैः आराध्य हि महादेवं निर्जितास तेन पार्थिवाः ॥ 63 ॥
स हि निर्जित्य निर्जित्य पार्थिवान पृतना गतान पुरम आनीय बद्ध्वा च चकार पुरुषव्रजम ॥ 64 ॥
वयं चैव महाराज जरासंध भयात तदा मथुरां संपरित्यज्य गता दवारवतीं पुरीम ॥ 65 ॥
यदि तव एनं महाराज यज्ञं पराप्तुम इहेच्छसि यतस्व तेषां मॊक्षाय जरासंध वधाय च ॥ 66 ॥
समारम्भॊ हि शक्यॊ ऽयं नान्यथा कुरुनन्दन राजसूयस्य कार्त्स्न्येन कत्रुं मतिमतां वर ॥ 67 ॥
इत्य एषा मे मती राजन यथा वा मन्यसे ऽनघ एवंगते ममाचक्ष्व सवयं निश्चित्य हेतुभिः ॥ 68 ॥
सभापर्व · Sabha Parva
अध्याय 13
Reach this point to mark the section finished.
Continue to अध्याय 14