[य] उक्तं तवया बुद्धिमता यन नान्यॊ वक्तुम अर्हति संशयानां हि निर्मॊक्ता तवन नान्यॊ विद्यते भुवि ॥ 1 ॥
गृहे गृहे हि राजानः सवस्य सवस्य परियं कराः न च साम्राज्यम आप्तास ते सम्राट शब्दॊ हि कृत्स्नभाक ॥ 2 ॥
कथं परानुभावज्ञः सवं परशंसितुम अर्हति परेण समवेतस तु यः परशस्तः स पूज्यते ॥ 3 ॥
विशाला बहुला भूमिर बहुरत्नसमाचिता दूरं गत्वा विजानाति शरेयॊ वृष्णिकुलॊद्वह ॥ 4 ॥
शमम एव परं मन्ये न तु मॊक्षाद भवेच छमः आरम्भे पारमेष्ठ्यं तु न पराप्यम इति मे मतिः ॥ 5 ॥
एवम एवाभिजानन्ति कुले जाता मनस्विनः कश चित कदा चिद एतेषां भवेच छरेयॊ जनार्दन ॥ 6 ॥
[भ] अनारम्भ परॊ राजा वल्मीक इव सीदति दुर्बलश चानुपायेन बलिनं यॊ ऽधितिष्ठति ॥ 7 ॥
अतन्द्रितस तु परायेन दुर्बलॊ बलिनं रिपुम जयेत सम्यङ नयॊ राजन नीत्यार्थान आत्मनॊ हितान ॥ 8 ॥
कृष्णे नयॊ मयि बलं जयः पार्थे धनंजये मागधं साधयिष्यामॊ वयं तरय इवाग्नयः ॥ 9 ॥
[क] आदत्ते ऽरथपरॊ बालॊ नानुबन्धम अवेक्षते तस्माद अरिं न मृष्यन्ति बालम अर्थपरायणम ॥ 10 ॥
हित्वा करान यौवनाश्वः पालनाच च भगीरथः कार्तवीर्यस तपॊयॊगाद बलात तु भरतॊ विभुः ऋद्ध्या मरुत्तस तान पञ्च सम्राज इति शुश्रुमः ॥ 11 ॥
निग्राह्य लक्षणं पराप्तॊ धर्मार्थनय लक्षणैः बार्हद्रथॊ जरासंधस तद विद्धि भरतर्षभ ॥ 12 ॥
न चैनम अनुरुध्यन्ते कुलान्य एकशतं नृपाः तस्माद एतद बलाद एव साम्राज्यं कुरुते ऽदय सः ॥ 13 ॥
रत्नभाजॊ हि राजानॊ जरासंधम उपासते न च तुष्यति तेनापि बाल्याद अनयम आस्थितः ॥ 14 ॥
मूर्धाभिषिक्तं नृपतिं परधानपुरुषं बलात आदत्ते न च नॊ दृष्टॊ ऽभागः पुरुषतः कव चित ॥ 15 ॥
एवं सर्वान वशे चक्रे जरासंधः शतावरान तं दुर्बलतरॊ राजा कथं पार्थ उपैष्यति ॥ 16 ॥
परॊक्षितानां परमृष्टानां राज्ञां पशुपतेर गृहे पशूनाम इव का परीतिर जीविते भरतर्षभ ॥ 17 ॥
कषत्रियः शस्त्रमरणॊ यदा भवति सत्कृतः ननु सम मागधं सर्वे परतिबाधेम यद वयम ॥ 18 ॥
षड अशीतिः समानीताः शेषा राजंश चतुर्दश जरासंधेन राजानस ततः करूरं परपत्स्यते ॥ 19 ॥
पराप्नुयात स यशॊ दीप्तं तत्र यॊ विघ्नम आचरेत जयेद यश च जरासंधं स सम्राण नियतं भवेत ॥ 20 ॥
सभापर्व · Sabha Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15