धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 12

  1. [व] ऋषेस तद वचनं शरुत्वा निशश्वास युधिष्ठिरः चिन्तयन राजसूयाप्तिं न लेभे शर्म भारत ॥ 1 ॥

  2. राजर्षीणां हि तं शरुत्वा महिमानं महात्मनाम यज्वनां कर्मभिः पुण्यैर लॊकप्राप्तिं समीक्ष्य च ॥ 2 ॥

  3. हरिश चन्द्रं च राजर्षिं रॊचमानं विशेषतः यज्वानं यज्ञम आहर्तुं राजसूयम इयेष सः ॥ 3 ॥

  4. युधिष्ठिरस ततः सर्वान अर्चयित्वा सभा सदः परत्यर्चितश च तैः सर्वैर यज्ञायैव मनॊ दधे ॥ 4 ॥

  5. स राजसूयं राजेन्द्र कुरूणाम ऋषभः करतुम आहर्तुं परवणं चक्रे मनॊ संचिन्त्य सॊ ऽसकृत ॥ 5 ॥

  6. भूयॊ चाद्भुतवीर्यौजा धर्मम एवानुपालयन किं हितं सर्वलॊकानां भवेद इति मनॊ दधे ॥ 6 ॥

  7. अनुगृह्णन परजाः सर्वाः सर्वधर्मविदां वरः अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥ 7 ॥

  8. एवंगते ततस तस्मिन पितरीवाश्वसञ जनाः न तस्य विद्यते दवेष्टा ततॊ ऽसयाजात शत्रुता ॥ 8 ॥

  9. स मन्त्रिणः समानाय्य भरातॄंश च वदतां वरः राजसूयं परति तदा पुनः पुनर अपृच्छत ॥ 9 ॥

  10. ते पृच्छ्यमानाः सहिता वचॊ ऽरथ्यं मन्त्रिणस तदा युधिष्ठिरं महाप्राज्ञं यियक्षुम इदम अब्रुवन ॥ 10 ॥

  11. येनाभिषिक्तॊ नृपतिर वारुणं गुणम ऋच्छति तेन राजापि सन कृत्स्नं सम्राड गुणम अभीप्सति ॥ 11 ॥

  12. तस्य सम्राड गुणार्हस्य भवतः कुरुनन्दन राजसूयस्य समयं मन्यन्ते सुहृदस तव ॥ 12 ॥

  13. तस्य यज्ञस्य समयः सवाधीनः कषत्रसंपदा साम्ना षड अग्नयॊ यस्मिंश चीयन्ते संशितव्रतैः ॥ 13 ॥

  14. दर्वी हॊमान उपादाय सर्वान यः पराप्नुते करतून अभिषेकं च यज्ञान्ते सर्वजित तेन चॊच्यते ॥ 14 ॥

  15. समर्थॊ ऽसि महाबाहॊ सर्वे ते वशगा वयम अविचार्य महाराज राजसूये मनॊ कुरु ॥ 15 ॥

  16. इत्य एवं सुहृदः सर्वे पृथक च सह चाब्रुवन स धर्म्यं पाण्डवस तेषां वचॊ शरुत्वा विशां पते धृष्टम इष्टं वरिष्ठं च जग्राह मनसारिहा ॥ 16 ॥

  17. शरुत्वा सुहृद वचस तच च जानंश चाप्य आत्मनः कषमम पुनः पुनर मनॊ दध्रे राजसूयाय भारत ॥ 17 ॥

  18. स भरातृभिः पुनर धीमान ऋत्विग्भिश च महात्मभिः धौम्य दवैपायनाद्यैश च मन्त्रयाम आस मन्त्रिभिः ॥ 18 ॥

  19. [य] इयं या राजसूयस्य सम्राड अर्हस्य सुक्रतॊः शरद्दधानस्य वदतः सपृहा मे सा कथं भवेत ॥ 19 ॥

  20. [व] एवम उक्तास तु ते तेन राज्ञा राजीवलॊचन इदम ऊचुर वचॊ काले धर्मात्मानं युधिष्ठिरम अर्हस तवम असि धर्मज्ञ राजसूयं महाक्रतुम ॥ 20 ॥

  21. अथैवम उक्ते नृपताव ऋत्विग्भिर ऋषिभिस तथा मन्त्रिणॊ भरातरश चास्य तद वचॊ परत्यपूजयन ॥ 21 ॥

  22. स तु राजा महाप्राज्ञः पुनर एवात्मनात्मवान भूयॊ विममृशे पार्थॊ लॊकानां हितकाम्यया ॥ 22 ॥

  23. सामर्थ्य यॊगं संप्रेक्ष्य देशकालौ वययागमौ विमृश्य सम्यक च धिया कुर्वन पराज्ञॊ न सीदति ॥ 23 ॥

  24. न हि यज्ञसमारम्भः केवलात्म विपत्तये भवतीति समाज्ञाय यत्नतः कार्यम उद्वहन ॥ 24 ॥

  25. स निश्चयार्थं कार्यस्य कृष्णम एव जनार्दनम सर्वलॊकात परं मत्वा जगाम मनसा हरिम ॥ 25 ॥

  26. अप्रमेयं महाबाहुं कामाज जातम अजं नृषु पाण्डवस तर्कयाम आस कर्मभिर देव संमितैः ॥ 26 ॥

  27. नास्य किं चिद अविज्ञातं नास्य किं चिद अकर्मजम न स किं चिन न विषहेद इति कृष्णम अमन्यत ॥ 27 ॥

  28. स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थॊ युधिष्ठिरः गुरुवद भूतगुरवे पराहिणॊद दूतम अञ्जसा ॥ 28 ॥

  29. शीघ्रगेन रथेनाशु स दूतः पराप्य यादवान दवारकावासिनं कृष्णं दवारवत्यां समासदत ॥ 29 ॥

  30. दर्शनाकाङ्क्षिणं पार्थं दर्शनाकांक्षयाच्युतः इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ॥ 30 ॥

  31. वयतीत्य विविधान देशांस तवरावान कषिप्रवाहनः इन्द्रप्रस्थगतं पार्थम अभ्यगच्छज जनार्दनः ॥ 31 ॥

  32. स गृहे भरातृवद भरात्रा धर्मराजेन पूजितः भीमेन च ततॊ ऽपश्यत सवसारं परीतिमान पितुः ॥ 32 ॥

  33. परीतः परियेण सुहृदा रेमे स सहितस तदा अर्जुनेन यमाभ्यां च गुरुवत पर्युपस्थितः ॥ 33 ॥

  34. तं विश्रान्तं शुभे देशे कषणिनं कल्यम अच्युतम धर्मराजः समागम्य जञापयत सवं परयॊजनम ॥ 34 ॥

  35. [य] परार्थितॊ राजसूयॊ मे न चासौ केवलेप्सया पराप्यते येन तत ते ह विदितं कृष्ण सर्वशः ॥ 35 ॥

  36. यस्मिन सर्वं संभवति यश च सर्वत्र पूज्यते यश च सर्वेश्वरॊ राजा राजसूयं स विन्दति ॥ 36 ॥

  37. तं राजसूयं सुहृदः कार्यम आहुः समेत्य मे तत्र मे निश्चिततमं तव कृष्णगिरा भवेत ॥ 37 ॥

  38. केचिद धि सौहृदाद एव दॊषं न परिचक्षते अर्थहेतॊस तथैवान्ये परियम एव वदन्त्य उत ॥ 38 ॥

  39. परियम एव परीप्सन्ते के चिद आत्मणि यद धितम एवं परायाश च दृश्यन्ते जनवादाः परयॊजने ॥ 39 ॥

  40. तवं तु हेतून अतीत्यैतान कामक्रॊधौ वयतीत्य च परमं नः कषमं लॊके यथावद वक्तुम अर्हसि ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 13

Previous: अध्याय 11