[वै] ततॊ युधिष्ठिरॊ राजा देवैः सर्पि मरुद्गणैः पूज्यमानॊ ययौ ततत्र यत्र ते कुरुपुंगवाः ॥ 1 ॥
ददर्श तत्र गॊविन्दं बराह्मेण वपुषान्वितम तेनैव दृष्टपूर्वेण सादृश्येनॊपसूचितम ॥ 2 ॥
दीप्यमानं सववपुषा दिव्यैर अस्त्रैर उपस्थितम चक्रप्रभृतिभिर घॊरैर दिव्यैः पुरुषविग्रहैः उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ॥ 3 ॥
अपरस्मिन्न अथॊद्देशे कर्णं शस्त्रभृतां वरम दवादशादित्य सहितं ददर्श कुरुनन्दनः ॥ 4 ॥
अथापरस्मिन्न उद्देशे मरुद्गणवृतं परभुम भीमसेनम अथापश्यत तेनैव वपुषान्वितम ॥ 5 ॥
अश्विनॊस तु तथा सथाने दीप्यमानौ सवतेजसा नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ 6 ॥
तथा ददर्श पाञ्चालीं कमलॊत्पलमालिनीम वपुषा सवर्गम आक्रम्य तिष्ठन्तीम अर्कवर्चसम ॥ 7 ॥
अथैनां सहसा राजा परष्टुम ऐच्छद युधिष्ठिरः ततॊ ऽसय भगवान इन्द्रः कथयाम आस देवराट ॥ 8 ॥
शरीर एषा दरौपदी रूपा तवदर्थे मानुषं गता अयॊनिजा लॊककान्ता पुण्यगन्धा युधिष्ठिर ॥ 9 ॥
दरुपदस्य कुले जाता भवद्भिश चॊपजीविता रत्यर्थं भवतां हय एषा निमिता शूलपाणिना ॥ 10 ॥
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः दरौपद्यास तनया राजन युष्माकम अमितौजसः ॥ 11 ॥
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम एनं च तवं विजानीहि भरातरं पूर्वजं पितुः ॥ 12 ॥
अयं ते पूर्वजॊ भराता कौन्तेयः पावकद्युतिः सूर्यपुत्रॊ ऽगरजः शरेष्ठॊ राधेय इति विश्रुतः आदित्यसहितॊ याति पश्यैनं पुरुषर्षभ ॥ 13 ॥
साध्यानाम अथ देवानां वसूनां मरुताम अपि गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान सात्यकिप्रमुखान वीरान भॊजांश चैव महारथान ॥ 14 ॥
सॊमेन सहितं पश्य सौभद्रम अपराजितम अभिमन्युं महेष्वासं निशाकरसमद्युतिम ॥ 15 ॥
एष पाण्डुर महेष्वासः कुन्त्या माद्र्या च संगतः विमानेन सदाभ्येति पिता तव ममान्तिकम ॥ 16 ॥
वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम दरॊणं बृहस्पतेः पार्श्वे गुरुम एनं निशामय ॥ 17 ॥
एते चान्ये महीपाला यॊधास तव च पाण्डव गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस तथा ॥ 18 ॥
गुह्यकानां गतिं चापि के चित पराप्ता नृसत्तमाः तयक्त्वा देहं जितस्वर्गाः पुण्यवाग बुद्धिकर्मभिः ॥ 19 ॥
स्वर्गारोहणपर्व · Svargarohana Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5