[वै] सथिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे आजग्मुस तत्र कौरव्य देवाः शक्रपुरॊगमाः ॥ 1 ॥
सवयं विग्रहवान धर्मॊ राजानं परसमीक्षितुम तत्राजगाम यत्रासौ कुरुराजॊ युधिष्ठिरः ॥ 2 ॥
तेषु भास्वरदेहेषु पुण्याभिजन कर्मसु समागतेषु देवेषु वयगमत तत तमॊ नृप ॥ 3 ॥
नादृश्यन्त च तास तत्र यातनाः पापकर्मिणाम नदी वैतरणी चैव कूटशाल्मलिना सह ॥ 4 ॥
लॊहकुम्भ्यः शिलाश चैव नादृश्यन्त भयानकाः विकृतानि शरीराणि यानि तत्र समन्ततः ददर्श राजा कौन्तेयस तान्य अदृश्यानि चाभवन ॥ 5 ॥
ततॊ वयुः सुखस्पर्शः पुण्यगन्धवहः शिवः ववौ देवसमीपस्थः शीतलॊ ऽतीव भारत ॥ 6 ॥
मरुतः सह शक्रेण वसवश चाश्विनौ सह साध्या रुद्रास तथादित्या ये चान्ये ऽपि दिवौकसः ॥ 7 ॥
सर्वे तत्र समाजग्मुः सिद्धाश च परमर्षयः यत्र राजा महातेजा धर्मपुत्रः सथितॊ ऽभवत ॥ 8 ॥
ततः शक्रः सुरपतिः शरिया परमया युतः युधिष्ठिरम उवाचेदं सान्त्वपूर्वम इदं वचः ॥ 9 ॥
युधिष्ठिर महाबाहॊ परीता देवगणास तव एह्य एहि पुरुषव्याघ्र कृतम एतावता विभॊ सिद्धिः पराप्ता तवया राजँल लॊकाश चाप्य अक्षयास तव ॥ 10 ॥
न च मन्युस तवया कार्यः शृणु चेदं वचॊ मम अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः ॥ 11 ॥
शुभानाम अशुभानां च दवौ राशीपुरुषर्षभ यः पूर्वं सुकृतं भुङ्क्ते पश्चान निरयम एति सः पूर्वं नरकभाग्यस तु पश्चात सवगम उपैति सः ॥ 12 ॥
भूयिष्ठं पापकर्मा यः स पूर्वं सवर्गम अश्नुते तेन तवम एवं गमितॊ मया शरेयॊ ऽरथिना नृप ॥ 13 ॥
वयाजेन हि तवया दरॊण उपचीर्णः सुतं परति वयाजेनैव ततॊ राजन दर्शितॊ नरकस तव ॥ 14 ॥
यथैव तवं तथा भीमस तथा पार्थॊ यमौ तथा दरौपदी च तथा कृष्णा वयाजेन नरकं गताः ॥ 15 ॥
आगच्छ नरशार्दूल मुक्तास ते चैव किल्बिषात सवपक्षाश चैव ये तुभ्यं पार्थिवा निहता रणे सर्वे सवर्गम अनुप्राप्तास तान पश्य पुरुषर्षभ ॥ 16 ॥
कर्णश चैव महेष्वासः सर्वशस्त्रभृतां वरः स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ 17 ॥
तं पश्य पुरुषव्याघ्रम आदित्यतनयं विभॊ सवस्थानस्थं महाबाहॊ जहि शॊकं नरर्षभ ॥ 18 ॥
भरातॄंश चान्यांस तथा पश्य सवपक्षांश चैव पार्थिवान सवं सवं सथानम अनुप्राप्तान वयेतु ते मानसॊ जवरः ॥ 19 ॥
अनुभूय पूर्वं तवं कृच्छ्रम इतः परभृति कौरव विहरस्व मया सार्धं गतशॊकॊ निरामयः ॥ 20 ॥
कर्मणां तात पुण्यानां जितानां तपसा सवयम दानानां च महाबाहॊ फलं पराप्नुहि पाण्डव ॥ 21 ॥
अद्य तवां देवगन्धर्वा दिव्याश चाप्सरसॊ दिवि उपसेवन्तु कल्याणं विरजॊऽमबरवाससः ॥ 22 ॥
राजसूय जिताँल लॊकान अश्वमेधाभिवर्धितान पराप्नुहि तवं महाबाहॊ तपसश च फलं महत ॥ 23 ॥
उपर्य उपरि राज्ञां हि तव लॊका युधिष्ठिर हरिश्चन्द्र समाः पार्थ येषु तवं विहरिष्यसि ॥ 24 ॥
मान्धाता यत्र राजर्षिर यत्र राजा भगीरथः दौःषन्तिर यत्र भरतस तत्र तवं विहरिष्यसि ॥ 25 ॥
एषा देव नदी पुण्या पर्थ तरैलॊक्यपावनी आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ॥ 26 ॥
अत्र सनातस्य ते भावॊ मानुषॊ विगमिष्यति गतशॊकॊ निरायासॊ मुक्तवैरॊ भविष्यसि ॥ 27 ॥
एवं बरुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम धर्मॊ विग्रहवान साक्षाद उवाच सुतम आत्मनः ॥ 28 ॥
भॊ भॊ राजन महाप्राज्ञ परीतॊ ऽसमि तव पुत्रक मद्भक्त्या सत्यवाक्येन कषमया च दमेन च ॥ 29 ॥
एषा तृतीया जिज्ञास तव राजन कृता मया न शक्यसे चालयितुं सवभावात पार्थ हेतुभिः ॥ 30 ॥
पूर्वं परीक्षितॊ हि तवम आसीर दवैतवनं परति अरणी सहितस्यार्थे तच च निस्तीर्णवान असि ॥ 31 ॥
सॊदर्येषु विनष्टेषु दरौपद्यां तत्र भारत शवरूपधारिणा पुत्र पुनस तवं मे परीक्षितः ॥ 32 ॥
इदं तृतीयं भरातॄणाम अर्थे यत सथातुम इच्छसि विशुद्धॊ ऽसि महाभाग सुखी विगतकल्मषः ॥ 33 ॥
न च ते भरातरः पार्थ नरकस्था विशां पते मायैषा देवराजेन महेन्द्रेण परयॊजिता ॥ 34 ॥
अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः ततस तवया पराप्तम इदं मुहूर्तं दुःखम उत्तमम ॥ 35 ॥
न सव्यसाची भीमॊ वा यमौ वा पुरुषर्षभौ कर्णॊ वा सत्यवाक शूरॊ नरकार्हाश चिरं नृप ॥ 36 ॥
न कृष्णा राजपुत्री च नारकार्हा युधिष्ठिर एह्य एहि भरतश्रेष्ठ पश्य गङ्गां तरिलॊकगाम ॥ 37 ॥
एवम उक्तः स राजर्षिस तव पूर्वपितामहः जगाम सहधर्मेण सर्वैश च तरिदशालयैः ॥ 38 ॥
गङ्गां देव नदीं पुण्यां पावनीम ऋषिसंस्तुताम अवगाह्य तु तां राजा तनुं तत्याज मानुषीम ॥ 39 ॥
ततॊ दिव्यवपुर भूत्वा धर्मराजॊ युधिष्ठिरः निर्वैरॊ गतसंतापॊ जले तस्मिन समाप्लुतः ॥ 40 ॥
ततॊ ययौ वृतॊ देवैः कुरुराजॊ युधिष्ठिरः धर्मेण सहितॊ धर्मान सतूयमानॊ महर्षिभिः ॥ 41 ॥
स्वर्गारोहणपर्व · Svargarohana Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 4