[ज] भीष्मद्रॊणौ महात्मानौ धृतराष्ट्रश च पार्थिवः विराटद्रुपदौ चॊभौ शङ्खश चैवॊत्तरस तथा ॥ 1 ॥
धृष्टकेतुर जयत्सेनॊ राजा चैव स सत्यजित दुर्यॊधन सुताश चैव शकुनिश चैव सौबलः ॥ 2 ॥
कर्ण पुत्राश च विक्रान्ता राजा चैव जयद्रथः घटॊत्चकादयश चैव ये चान्ये नानुकीर्तिताः ॥ 3 ॥
ये चान्ये कीर्तितास तत्र राजानॊ दीप्तमूर्तयः सवर्गे कालं कियन्तं ते तस्थुस तद अपि शंस मे ॥ 4 ॥
आहॊस्विच छाश्वतं सथानं तेषां तत्र दविजॊत्तम अन्ये वा कर्मणः कां ते गतिं पराप्ता नरर्षभाः एतद इच्छाम्य अहं शरॊतुं परॊच्यमानं तवया दविज ॥ 5 ॥
[सूत] इत्य उक्तः स तु विप्रर्षिर अनुज्ञातॊ महात्मना वयासेन तस्य नृपतेर आख्यातुम उपचक्रमे ॥ 6 ॥
[वै] गन्तव्यं कर्मणाम अन्ते सर्वेण मनुजाधिप शृणु गुह्यम इदं राजन देवानां भरतर्षभ यद उवाच महातेजा दिव्यचक्षुः परतापवान ॥ 7 ॥
मुनिः पुराणः कौरव्य पाराशर्यॊ महाव्रतः अगाध बुद्धिः सर्वज्ञॊ गतिज्ञः सर्वकर्मणाम ॥ 8 ॥
वसून एव महातेजा भीष्मः पराप महाद्युतिः अष्टाव एव हि दृश्यन्ते वसवॊ भरतर्षभ ॥ 9 ॥
बृहस्पतिं विवेशाथ दरॊणॊ हय अङ्गिरसां वरम कृतवर्मा तु हार्दिक्यः परविवेश मरुद्गणम ॥ 10 ॥
सनत कुमारं परद्युम्नः परविवेश यथागतम धृतराष्ट्रॊ धनेशस्य लॊकान पराप दुरासदान ॥ 11 ॥
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी पत्नीभ्यां सहितः पाण्डुर महेन्द्र सदनं ययौ ॥ 12 ॥
विराटद्रुपदौ चॊभौ धृष्टकेतुश च पार्थिव निशठाक्रूर साम्बाश च भानुः कम्पॊ विडूरथः ॥ 13 ॥
भूरिश्रवाः शलश चैव भूरिश च पृथिवीपतिः उग्रसेनस तथा कंसॊ वसुदेवश च वीर्यवान ॥ 14 ॥
उत्तरश च सह भरात्रा शङ्खेन नरपुंगवः विश्वेषां देवतानां ते विविशुर नरसत्तमाः ॥ 15 ॥
वर्चा नाम महातेजाः सॊमपुत्रः परतापवान सॊ ऽभिमन्युर नृसिंहस्य फल्गुनस्य सुतॊ ऽभवत ॥ 16 ॥
स युद्ध्वा कषत्रधर्मेण यथा नान्यः पुमान कव चित विवेश सॊमं धर्मात्मा कर्मणॊ ऽनते महारथः ॥ 17 ॥
आविवेश रविं कर्णः पितरं पुरुषर्षभ दवापरं शकुनिः पराप धृष्टद्युम्नस तु पावकम ॥ 18 ॥
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलॊत्कटाः ऋद्धिमन्तॊ महात्मानः शस्त्रपूता दिवं गताः धर्मम एवाविशत कषत्ता राजा चैव युधिष्ठिरः ॥ 19 ॥
अनन्तॊ भगवान देवः परविवेश रसातलम पितामह नियॊगाद धि यॊ यॊगाद गाम अधारयत ॥ 20 ॥
षॊडश सत्रीसहस्राणि वासुदेव परिग्रहः नयमज्जन्त सरस्वत्यां कालेन जनमेजय ताश चाप्य अप्सरसॊ भूत्वा वासुदेवम उपागमन ॥ 21 ॥
हतास तस्मिन महायुद्धे ये वीरास तु महारथाः घटॊत्कचादयः सर्वे देवान यक्षांश च भेजिरे ॥ 22 ॥
दुर्यॊधन सहायाश च राक्षसाः परिकीर्तिताः पराप्तास ते करमशॊ राजन सर्वलॊकान अनुत्तमान ॥ 23 ॥
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः वरुणस्य तथा लॊकान विविशुः पुरुषर्षभाः ॥ 24 ॥
एतत ते सर्वम आख्यातं विस्तरेण महाद्युते कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ 25 ॥
[सूत] एतच छरुत्वा दविजश्रेष्ठात स राजा जनमेजयः विस्मितॊ ऽभवद अत्यर्थं यज्ञकर्मान्तरेष्व अथ ॥ 26 ॥
ततः समापयाम आसुः कर्म तत तस्य याजकाः आस्तीकश चाभवत परीतः परिमॊक्ष्य भुजंगमान ॥ 27 ॥
ततॊ दविजातीन सर्वांस तान दक्षिणाभिर अतॊषयत पूजिताश चापि ते राज्ञा ततॊ जग्मुर यथागतम ॥ 28 ॥
विसर्जयित्वा विप्रांस तान राजापि जनमेजयः ततस तक्षशिलायाः स पुनर आयाद गजाह्वयम ॥ 29 ॥
एतत ते सर्वम आख्यातं वैशम्पायन कीर्तितम वयासाज्ञया समाख्यातं सर्पसत्त्रे नृपस्य ह ॥ 30 ॥
पुण्यॊ ऽयम इतिहासाख्यः पवित्रं चेदम उत्तमम कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥ 31 ॥
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ 32 ॥
ऐश्वर्ये वर्तता चैव सांख्ययॊगविदा तथा नैकतन्त्र विबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ 33 ॥
कीर्तिं परथयता लॊके पाण्डवानां महात्मनाम अन्येषां कषत्रियाणां च भूरि दरविण तेजसाम ॥ 34 ॥
य इदं शरावयेद विद्वान सदा पर्वणि पर्वणि धूतपाप्मा जितस्वर्गॊ बरह्मभूयाय गच्छति ॥ 35 ॥
यश चेदं शरावयेच छराद्धे बराह्मणान पादम अन्ततः अक्षय्यम अन्नपानं वै पितॄंस तस्यॊपतिष्ठते ॥ 36 ॥
अह्ना यद एनः कुरुते इन्द्रियैर मनसापि वा महाभारतम आख्याय पश्चात संध्यां परमुच्यते ॥ 37 ॥
धर्मे चार्थे च कामे च मॊक्षे च भरतर्षभ यद इहास्ति तद अन्यत्र यन नेहास्ति न तत कव चित ॥ 38 ॥
यजॊ नामेतिहासॊ ऽयं शरॊतव्यॊ भूतिम इच्छता रज्ञा राजसुतैश चापि गर्भिण्या चैव यॊषिता ॥ 39 ॥
सवर्गकामॊ लभेत सवर्गं जय कामॊ लभेज जयम गर्भिणी लभते पुत्रं कन्यां वा बहु भागिनीम ॥ 40 ॥
अनागतं तरिभिर वर्षैः कृष्णद्वैपायनः परभुः संदर्भं भारतस्यास्य कृतवान धर्मकाम्यया ॥ 41 ॥
नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन रक्षॊयक्षाञ शुकॊ मर्त्यान वैशम्पायन एव तु ॥ 42 ॥
इतिहासम इमं पुण्यं महार्थं वेद संमितम शरावयेद यस तु वर्णांस तरीन कृत्वा बराह्मणम अग्रतः ॥ 43 ॥
स नरः पापनिर्मुक्तः कीरितं पराप्येह शौनक गच्छेत परमिकां सिद्धिम अत्र मे नास्ति संशयः ॥ 44 ॥
भारताध्ययनात पुण्याद अपि पादम अधीयतः शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः ॥ 45 ॥
महर्षिर भगवान वयासः कृत्वेमां संहितां पुरा शलॊकैश चतुर्भिर भगवान पुत्रम अध्यापयच छुकम ॥ 46 ॥
माता पितृसहस्राणि पुत्रदारशतानि च संसारेष्व अनुभूतानि यान्ति यास्यन्ति चापरे ॥ 47 ॥
हर्षस्थान सहस्राणि भयस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम ॥ 48 ॥
ऊर्ध्वबाहुर विरौम्य एष न च कश चिच छृणॊति मे धर्माद अर्थश च कामश च स किमर्थं न सेव्यते ॥ 49 ॥
न जातु कामान न भयान न लॊभाद; धर्मं तयजेज जीवितस्यापि हेतॊः नित्यॊ धर्मः सुखदुःखे तव अनित्ये; जीवॊ नित्यॊ हेतुर अस्य तव अनित्यः ॥ 50 ॥
इमां भारत सावित्रीं परातर उत्थाय यः पठेत स भारत फलं पराप्य परं बरह्माधिगच्छति ॥ 51 ॥
यथा समुद्रॊ भगवान यथा च हिमवान गिरिः खयाताव उभौ रत्ननिधी तथा भारतम उच्यते ॥ 52 ॥
महाभारतम आख्यानं यः पठेत सुसमाहितः स गच्छेत परमां सिद्धिम इति मे नास्ति संशयः ॥ 53 ॥
दवैपायनॊष्ठपुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैर अभिषेचनेन ॥ 54 ॥
स्वर्गारोहणपर्व · Svargarohana Parva
अध्याय 5
Reach this point to mark the section finished.
Back to contents