[ज] सवर्गं तरिविष्टपं पराप्य मम पूर्वपितामहाः पाण्डवा धार्तराष्ट्राश च कानि सथानानि भेजिरे ॥ 1 ॥
एतद इच्छाम्य अहं शरॊतुं सर्वविच चासि मे मतः महर्षिणाभ्यनुज्ञातॊ वयासेनाद्भुत कर्मणा ॥ 2 ॥
[वै] सवर्गं तरिविष्टपं पराप्य तव पूर्वपितामहाः युधिष्ठिरप्रभृतयॊ यद अकुर्वत तच छृणु ॥ 3 ॥
सवर्गं तरिविष्टपं पराप्य धर्मराजॊ युधिष्ठिरः दुर्यॊधनं शरिया जुष्टं ददर्शासीनम आसने ॥ 4 ॥
भराजमानाम इवादित्यं वीर लक्ष्म्याभिसंवृतम देवैर भराजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ 5 ॥
ततॊ युधिष्ठिरॊ दृष्ट्व दुर्यॊधनम अमर्षितः सहसा संनिवृत्तॊ ऽभूच छरियं दृष्ट्वा सुयॊधने ॥ 6 ॥
बरुवन्न उच्चैर वचस तान वै नाहं दुर्यॊधनेन वै सहितः कामये लॊकाँल लुब्धेनादीर्घ दर्शिना ॥ 7 ॥
यत्कृते पृथिवी सर्वा सुहृदॊ बान्धवास तथा हतास्माभिः परसह्याजौ कलिष्टैः पूर्वं महावने ॥ 8 ॥
दरौपदी च सभामध्ये पाञ्चाली धर्मचारिणी परिक्लिष्टानवद्याङ्गी पत्नी नॊ गुरुसंनिधौ ॥ 9 ॥
सवस्ति देवा न मे कामः सुयॊधनम उदीक्षितुम तत्राहं गन्तुम इच्छामि यत्र ते भरातरॊ मम ॥ 10 ॥
मैवम इत्य अब्रवीत तं तु नारदः परहसन्न इव सवर्गे निवासॊ राजेन्द्र विरुद्धं चापि नश्यति ॥ 11 ॥
युधिष्ठिर महाबाहॊ मैवं वॊचः कथं चन दुर्यॊधनं परति नृपं शृणु चेदं वचॊ मम ॥ 12 ॥
एष दुर्यॊधनॊ राजा पूज्यते तरिदशैः सह सद्भिश च राजप्रवरैर य इमे सवर्गवासिनः ॥ 13 ॥
वीरलॊकगतिं पराप्तॊ युद्धे हुत्वात्मनस तनुम यूयं सवर्गे सुरसमा येना युद्धे समासिताः ॥ 14 ॥
स एष कषत्रधर्मेण सथानम एतद अवाप्तवान भये महति यॊ ऽभीतॊ बभूव पृथिवीपतिः ॥ 15 ॥
न तन मनसि कर्तव्यं पुत्र यद दयूतकारितम दरौपद्याश च परिक्लेशं न चिन्तयतुम अर्हसि ॥ 16 ॥
ये चान्ये ऽपि परिक्लेशा युष्माकं दयूतकारिताः संग्रामेष्व अथ वान्यात्र न तान संस्मर्तुम अर्हसि ॥ 17 ॥
समागच्छ यथान्यायं राज्ञा दुर्यॊधनेन वै सवर्गॊ ऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ 18 ॥
नारदेनैवम उक्तस तु कुरुराजॊ युधिष्ठिरः भरातॄन पप्रच्छ मेधावी वाक्यम एतद उवाच ह ॥ 19 ॥
यदि दुर्यॊधनस्यैते वीरलॊकः सनातनाः अधर्मज्ञस्य पापस्य पृथिवी सुहृद अद्रुहः ॥ 20 ॥
यत्कृते पृथिवी नष्टा सहया सरथ दविपा वयं च मन्युना दग्धा वैरं परतिचिकीर्षवः ॥ 21 ॥
ये ते वीरा महात्मानॊ भरातरॊ मे महाव्रताः सत्यप्रतिज्ञा लॊकस्य शूरा वै सत्यवादिनः ॥ 22 ॥
तेषाम इदानीं के लॊका दरष्टुम इच्छामि तान अहम कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम ॥ 23 ॥
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान ये च शस्त्रैर वधं पराप्ताः कषत्रधर्मेण पार्थिवाः ॥ 24 ॥
कव नु ते पार्थिवा बरह्मन्न एतान पश्यामि नारद विराटद्रुपदौ चैव धृष्टकेतुमुखांश च तान ॥ 25 ॥
शिखण्डिनं च पाञ्चाल्यं दरौपदेयांश च सर्वशः अभिमन्युं च दुर्धर्षं दरष्टुम इच्छामि नारद ॥ 26 ॥
स्वर्गारोहणपर्व · Svargarohana Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2