[वै] ततः संनादयञ शक्रॊ दिवं भूमिं च सर्वशः रथेनॊपययौ पार्थम आरॊहेत्य अब्रवीच च तम ॥ 1 ॥
स भरातॄन पतितान दृष्ट्वा धर्मराजॊ युधिष्ठिरः अब्रवीच छॊकसंतप्तः सहस्राक्षम इदं वचः ॥ 2 ॥
भरातरः पतिता मे ऽतर आगच्छेयुर मया सह न विना भरातृभिः सवर्गम इच्छे गन्तुं सुरेश्वर ॥ 3 ॥
सुकुमारी सुखार्हा च राजपुत्री पुरंदर सास्माभिः सह गच्छेत तद भवान अनुमन्यताम ॥ 4 ॥
[इन्द्र] भरातॄन दरक्ष्यसि पुत्रांस तवम अग्रतस तरिदिवं गतान कृष्णया सहितान सर्वान मा शुचॊ भरतर्षभ ॥ 5 ॥
निक्षिप्य मानुषं देहं गतास ते भरतर्षभ अनेन तवं शरीरेण सवर्गं गन्ता न संशयः ॥ 6 ॥
[य] अथ शवा भूतभाव्येश भक्तॊ मां नित्यम एव ह स गच्छेत मया सार्धम आनृशंस्या हि मे मतिः ॥ 7 ॥
[इन्द्र] अमर्त्यत्वं मत सामत्वं च राजञ; शरियं कृत्स्नां महतीं चैव कीर्तिम संप्राप्तॊ ऽदय सवर्गसुखानि च तवं; तयज शवानं नात्र नृशंसम अस्ति ॥ 8 ॥
[य] अनार्यम आर्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करम एतद आर्य मा मे शरिया संगमनं तयास्तु; यस्याः कृते भक्त जनं तयजेयम ॥ 9 ॥
[इन्द्र] सवर्गे लॊके शववतां नास्ति धिष्ण्यम; इष्टापूर्तं करॊधवशा हरन्ति ततॊ विचार्य करियतां धर्मराज; तयज शवानं नात्र नृशंसम अस्ति ॥ 10 ॥
[य] भक्त तयागं पराहुर अत्यन्तपापं; तुल्यं लॊके बरह्म वध्या कृतेन तस्मान नाहं जातु कथं चनाद्य; तयक्ष्याम्य एनं सवसुखार्थी महेन्द्र ॥ 11 ॥
[इन्द्र] शुना दृष्टं करॊधवशा हरन्ति; यद दत्तम इष्टं विवृतम अथॊ हुतं च तस्माच छुनस तयागम इमं कुरुष्व; शुनस तयागात पराप्यसे देवलॊकम ॥ 12 ॥
तयक्त्वा भरातॄन दयितां चापि कृष्णां; पराप्तॊ लॊकः कर्मणा सवेन वीर शवानं चैनं न तयजसे कथं नु; तयागं कृत्स्नं चास्थितॊ मुह्यसे ऽदय ॥ 13 ॥
[य] न विद्यते संधिर अथापि विग्रहॊ; मृतैर मर्त्यैर इति लॊकेषु निष्ठा न ते मया जीवयितुं हि शक्या; तस्मात तयागस तेषु कृतॊ न जीवताम ॥ 14 ॥
परतिप्रदानं शरणागतस्य; सत्रिया वधॊ बराह्मणस्व आपहारः मित्रद्रॊहस तानि चत्वारि शक्र; भक्त तयागश चैव समॊ मतॊ मे ॥ 15 ॥
[वै] तद धर्मराजस्य वचॊ निशम्य; धर्मस्वरूपी भगवान उवाच युधिष्ठिरं परति युक्तॊ नरेन्द्रं; शलक्ष्णैर वाक्यैः संस्तव संप्रयुक्तैः ॥ 16 ॥
अभिजातॊ ऽसि राजेन्द्र पितुर वृत्तेन मेधया अनुक्रॊशेन चानेन सर्वभूतेषु भारत ॥ 17 ॥
पुरा दवैतवने चासि मया पुत्र परीक्षितः पानीयार्थे पराक्रान्ता यत्र ते भरातरॊ हताः ॥ 18 ॥
भीमार्जुनौ परित्यज्य यत्र तवं भरातराव उभौ मात्रॊः साम्यम अभीप्सन वै नकुलं जीवम इच्छसि ॥ 19 ॥
अयं शवा भक्त इत्य एव तयक्तॊ देव रथस तवया तस्मात सवर्गे न ते तुल्यः कश चिद अस्ति नराधिप ॥ 20 ॥
अतस तवाक्षया लॊकाः सवशरीरेण भारत पराप्तॊ ऽसि भरतश्रेष्ठ दिव्यां गतिम अनुत्तमाम ॥ 21 ॥
ततॊ धर्मश च शक्रश च मरुतश चाश्विनाव अपि देवा देवर्षयश चैव रथम आरॊप्य पाण्डवम ॥ 22 ॥
परययुः सवैर विमानैस ते सिद्धाः कामविहारिणः सर्वे विरजसः पुण्याः पुण्यवाग बुद्धिकर्मिणः ॥ 23 ॥
स तं रथं समास्थाय राजा कुरुकुलॊद्वहः ऊर्ध्वम आचक्रमे शीघ्रं तेजसावृत्य रॊदसी ॥ 24 ॥
ततॊ देव निकायस्थॊ नारदः सर्वलॊकवित उवाचॊच्चैस तदा वाक्यं बृहद वादी बृहत तपाः ॥ 25 ॥
ये ऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः कीर्तिं परच्छाद्य तेषां वै कुरुराजॊ ऽधितिष्ठति ॥ 26 ॥
लॊकान आवृत्य यशसा तेजसा वृत्तसंपदा सवशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात ॥ 27 ॥
नारदस्य वचः शरुत्वा राजा वचनम अब्रवीत देवान आमन्त्र्य धर्मात्मा सवपक्षांश चैव पार्थिवान ॥ 28 ॥
शुभं वा यदि वा पापं भरातॄणां सथानम अद्य मे तद एव पराप्तुम इच्छामि लॊकान अन्यान न कामये ॥ 29 ॥
राज्ञस तु वचनं शरुत्वा देवराजः पुरंदरः आनृशंस्य समायुक्तं परत्युवाच युधिष्ठिरम ॥ 30 ॥
सथाने ऽसमिन वस राजेन्द्र कर्मभिर निर्जिते शुभैः किं तवं मानुष्यकं सनेहम अद्यापि परिकर्षसि ॥ 31 ॥
सिद्धिं पराप्तॊ ऽसि परमां यथा नान्यः पुमान कव चित नैव ते भरातरः सथानं संप्राप्ताः कुरुनन्दन ॥ 32 ॥
अद्यापि मानुषॊ भावः सपृशते तवां नराधिप सवर्गॊ ऽयं पश्य देवर्षीन सिद्धांश च तरिदिवालयान ॥ 33 ॥
युधिष्ठिरस तु देवेन्द्रम एवं वादिनम ईश्वरम पुनर एवाब्रवीद धीमान इदं वचनम अर्थवत ॥ 34 ॥
तैर विना नॊत्सहे वस्तुम इह दैत्य निबर्हण गन्तुम इच्छामि तत्राहं यत्र मे भरातरॊ गताः ॥ 35 ॥
यत्र सा बृहती शयामा बुद्धिसत्त्वगुणान्विता दरौपदी यॊषितां शरेष्ठा यत्र चैव परिया मम ॥ 36 ॥
महाप्रस्थानिकपर्व · Mahaprasthanika Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 1