धर्मDharmic Data

महाप्रस्थानिकपर्व · Mahaprasthanika Parva

अध्याय 2

  1. [वै] ततस ते नियतात्मान उदीचीं दिशम आस्थिताः ददृशुर यॊगयुक्ताश च हिमवन्तं महागिरिम ॥ 1 ॥

  2. तं चाप्य अतिक्रमन्तस ते ददृशुर वालुकार्णवम अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम ॥ 2 ॥

  3. तेषां तु गच्छतां शीघ्रं सर्वेषां यॊगधर्मिणाम याज्ञसेनी भरष्टयॊगा निपपात महीतले ॥ 3 ॥

  4. तां तु परपतितां दृष्ट्वा भीमसेनॊ महाबलः उवाच धर्मराजानं याज्ञसेनीम अवेक्ष्य ह ॥ 4 ॥

  5. नाधर्मश चरितः कश चिद राजपुत्र्या परंतप कारणं किं नु तद राजन यत कृष्णा पतिता भुवि ॥ 5 ॥

  6. [य] पक्षपातॊ महान अस्या विशेषेण धनंजये तस्यैतत फलम अद्यैषा भुङ्क्ते पुरुषसत्तम ॥ 6 ॥

  7. [वै] एवम उक्त्वानवेक्ष्यैनां ययौ धर्मसुतॊ नृपः समाधाय मनॊ धीमन धर्मात्मा पुरुषर्षभः ॥ 7 ॥

  8. सहदेवस ततॊ धीमान निपपात महीतले तं चापि पतितं दृष्ट्वा भीमॊ राजानम अब्रवीत ॥ 8 ॥

  9. यॊ ऽयम अस्मासु सर्वेषु शुश्रूषुर अनहंकृतः सॊ ऽयं माद्रवती पुत्रः कस्मान निपतितॊ भुवि ॥ 9 ॥

  10. [य] आत्मनः सदृशं पराज्ञं नैषॊ ऽमन्यत कं चन तेन दॊषेण पतितस तस्माद एष नृपात्मजः ॥ 10 ॥

  11. [वै] इत्य उक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा भरातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ 11 ॥

  12. कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम आर्तॊ बन्धुप्रियः शूरॊ नकुलॊ निपपात ह ॥ 12 ॥

  13. तस्मिन निपतिते वीरे नकुले चारुदर्शने पुनर एव तदा भीमॊ राजानम इदम अब्रवीत ॥ 13 ॥

  14. यॊ ऽयम अक्षत धर्मात्मा भराता वचनकारकः रूपेणाप्रतिमॊ लॊके नकुलः पतितॊ भुवि ॥ 14 ॥

  15. इत्य उक्तॊ भीमसेनेन परत्युवाच युधिष्ठिरः नकुलं परति धर्मात्मा सर्वबुद्धिमतां वरः ॥ 15 ॥

  16. रूपेण मत्समॊ नास्ति कश चिद इत्य अस्य दर्शनम अधिकश चाहम एवैक इत्य अस्य मनसि सथितम ॥ 16 ॥

  17. नकुलः पतितस तस्माद आगच्छ तवं वृकॊदर यस्य यद विहितं वीर सॊ ऽवश्यं तद उपाश्नुते ॥ 17 ॥

  18. तांस तु परपतितान दृष्ट्वा पाण्डवः शवेतवाहनः पपात शॊकसंतप्तस ततॊ ऽनु परवीरहा ॥ 18 ॥

  19. तस्मिंस तु पुरुषव्याघ्रे पतिते शक्र तेजसि मरियमाणे दुराधर्षे भीमॊ राजानम अब्रवीत ॥ 19 ॥

  20. अनृतं न समराम्य अस्य सवैरेष्व अपि महात्मनः अथ कस्य विकारॊ ऽयं येनायं पतितॊ भुवि ॥ 20 ॥

  21. [य] एकाह्ना निर्दहेयं वै शत्रून इत्य अर्जुनॊ ऽबरवीत न च तत कृतवान एष शूरमानी ततॊ ऽपतत ॥ 21 ॥

  22. अवमेने धनुर गराहान एष सर्वांश च फल्गुनः यथा चॊक्तं तथा चैव कर्तव्यं भूतिम इच्छता ॥ 22 ॥

  23. [वै] इत्य उक्त्वा परस्थितॊ राजा भीमॊ ऽथ निपपात ह पतितश चाब्रवीद भीमॊ धर्मराजं युधिष्ठिरम ॥ 23 ॥

  24. भॊ भॊ राजन्न अवेक्षस्व पतितॊ ऽहं परियस तव किंनिमित्तं च पतितं बरूहि मे यदि वेत्थ ह ॥ 24 ॥

  25. [य] अतिभुक्तं च भवता पराणेन च विकत्थसे अनवेक्ष्य परं पार्थ तेनासि पतितः कषितौ ॥ 25 ॥

  26. [वै] इत्य उक्त्वा तं महाबाहुर जगामानवलॊकयन शवा तव एकॊ ऽनुययौ यस ते बहुशः कीर्तितॊ मया ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 3

Previous: अध्याय 1