[ज] एवं वृष्ण्यन्धककुले शरुत्वा मौसलम आहवम पाण्डवाः किम अकुर्वन्त तथा कृष्णे दिवं गते ॥ 1 ॥
[वै] शरुत्वैव कौरवॊ राजा वृष्णीनां कदनं महत परस्थाने मतिम आधाय वाक्यम अर्जुनम अब्रवीत ॥ 2 ॥
कालः पचति भूतानि सर्वाण्य एव महामते कर्म नयासम अहं मन्ये तवम अपि दरष्टुम अर्हसि ॥ 3 ॥
इत्य उक्तः स तु कौन्तेयः कालः काल इति बरुवन अन्वपद्यत तद वाक्यं भरातुर जयेष्ठस्य वीर्यवान ॥ 4 ॥
अर्जुनस्य मतं जञात्वा भीमसेनॊ यमौ तथा अन्वपद्यन्त तद वाक्यं यद उक्तं सव्यसाचिना ॥ 5 ॥
ततॊ युयुत्सुम आनाय्य परव्रजन धर्मकाम्यया राज्यं परिददौ सर्वं वैश्य पुत्रे युधिष्ठिरः ॥ 6 ॥
अभिषिच्य सवराज्ये तु तं राजानं परिक्षितम दुःखार्तश चाब्रवीद राजा सुभद्रां पाण्डवाग्रजः ॥ 7 ॥
एष पुत्रस्य ते पुत्रः कुरुराजॊ भविष्यति यदूनां परिशेषश च वज्रॊ राजा कृतश च ह ॥ 8 ॥
परिक्षिद धास्तिन पुरे शक्र परस्थे तु यादवः वज्रॊ राजा तवया रक्ष्यॊ मा चाधर्मे मनः कृथाः ॥ 9 ॥
इत्य उक्त्वा धर्मराजः स वासुदेवस्य धीमतः मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥ 10 ॥
मातृभिः सहधर्मात्मा कृत्वॊदकम अतन्द्रितः शराद्धान्य उद्दिश्य सर्वेषां चकार विधिवत तदा ॥ 11 ॥
ददौ रत्नानि वासांसि गरामान अश्वान रथान अपि सत्रियश च दविजमुख्येभ्यॊ गवां शतसहस्रशः ॥ 12 ॥
कृपम अभ्यर्च्य च गुरुम अर्थमानपुरस्कृतम शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ॥ 13 ॥
ततस तु परकृतीः सर्वाः समानाय्य युधिष्ठिरः सर्वम आचष्ट राजर्षिश चिकीर्षतम अथात्मनः ॥ 14 ॥
ते शरुत्वैव वचस तस्य पौरजानपदा जनाः भृशम उद्विग्नमनसॊ नाभ्यनन्दन्त तद वचः ॥ 15 ॥
नैवं कर्तव्यम इति ते तदॊचुस ते नराधिपम न च राजा तथाकार्षीत कालपर्याय धर्मवित ॥ 16 ॥
ततॊ ऽनुमान्य धर्मात्मा पौरजानपदं जनम गमनाय मतिं चक्रे भरातरश चास्य ते तदा ॥ 17 ॥
ततः स राजा कौरव्यॊ धर्मपुत्रॊ युधिष्ठिरः उत्सृज्याभरणान्य अङ्गाज जगृहे वल्कलान्य उत ॥ 18 ॥
भीमार्जुनौ यमौ चैव दरौपदी च यशस्विनी तथैव सर्वे जगृहुर वल्कलानि जनाधिप ॥ 19 ॥
विधिवत कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ समुत्सृज्याप्सु सर्वे ऽगनीन परतस्थुर नरपुंगवाः ॥ 20 ॥
ततः पररुरुदुः सर्वाः सत्रियॊ दृष्ट्वा नरर्षभान परस्थितान दरौपदी षष्ठान पुरा दयूतजितान यथा ॥ 21 ॥
हर्षॊ ऽभवच च सर्वेषां भरातॄणां गमनं परति युधिष्ठिर मतं जञात्वा वृष्णिक्षयम अवेष्क्य च ॥ 22 ॥
भरातरः पञ्च कृष्णा च षष्ठी शवा चैव सप्तमः आत्मना सप्तमॊ राजा निर्ययौ गजसाह्वयात पौरैर अनुगतॊ दूरं सर्वैर अन्तःपुरैस तथा ॥ 23 ॥
न चैनम अशकत कश्च चिन निवर्तस्वेति भाषितुम नयवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ 24 ॥
कृप परब्भृतयश चैव युयुत्सुं पर्यवारयन विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ 25 ॥
चित्राङ्गदा ययौ चापि मणिपूर पुरं परति शिष्टाः परिक्षितं तव अन्या मातरः पर्यवारयन ॥ 26 ॥
पाण्डवाश च महात्मानॊ दरौपदी च यशस्विनी कृपॊपवासाः कौरव्य परययुः पराङ्मुखास ततः ॥ 27 ॥
यॊगयुक्ता महात्मानस तयागधर्मम उपेयुषः अभिजग्मुर बहून देशान सरितः सागरांस तथा ॥ 28 ॥
युधिष्ठिरॊ ययाव अग्रे भीमस तु तदनन्तरम अर्जुनस तस्य चान्व एव यमौ चैव यथाक्रमम ॥ 29 ॥
पृष्ठतस तु वरारॊहा शयामा पद्मदलेक्षणा दरौपदी यॊषितां शरेष्ठा ययौ भरतसत्तम ॥ 30 ॥
शवा चैवानुययाव एकः पाण्डवान परस्थितान वने करमेण ते ययुर वीरा लौहित्यं सलिलार्णवम ॥ 31 ॥
गाण्डीवं च धनुर दिव्यं न मुमॊच धनंजयः रत्नलॊभान महाराज तौ चाक्षय्यौ महेषुधी ॥ 32 ॥
अग्निं ते ददृशुस तत्र सथितं शैलम इवाग्रतः मार्गम आवृत्य तिष्ठन्तं साक्षात पुरुषविग्रहम ॥ 33 ॥
ततॊ देवः स सप्तार्चिः पाण्डवान इदम अब्रवीत भॊ भॊ पाण्डुसुता वीराः पावकं मा विबॊधत ॥ 34 ॥
युधिष्ठिर महाबाहॊ भीमसेन परंतप अर्जुनाश्वसुतौ वीरौ निबॊधत वचॊ मम ॥ 35 ॥
अहम अग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम अर्जुनस्य परभावेन तथा नारायणस्य च ॥ 36 ॥
अयं वः फल्गुनॊ भराता गाण्डीवं परमायुधम परित्यज्य वनं यातु नानेनार्थॊ ऽसति कश चन ॥ 37 ॥
चक्ररत्नं तु यत कृष्णे सथितम आसीन महात्मनि गतं तच चा पुनर हस्ते कालेनैष्यति तस्य ह ॥ 38 ॥
वरुणाद आहृतं पूर्वं मयैतत पार्थ कारणात गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम ॥ 39 ॥
ततस ते भरातरः सर्वे धनंजयम अचॊदयन स जले पराक्षिपत तत तु तथाक्षय्यौ महेषुधी ॥ 40 ॥
ततॊ ऽगनिर भरतश्रेष्ठ तत्रैवान्तरधीयत ययुश च पाण्डवा वीरास ततस ते दक्षिणामुखाः ॥ 41 ॥
ततस ते तूत्तरेणैव तीरेण लवणाम्भसः जग्मुर भरतशार्दूल दिशं दक्षिणपश्चिमम ॥ 42 ॥
ततः पुनः समावृत्ताः पश्चिमां दिशम एव ते ददृशुर दवारकां चापि सागरेण परिप्लुताम ॥ 43 ॥
उदीचीं पुनर आवृत्त्य ययुर भरतसत्तमाः परादक्षिण्यं चिकीर्षन्तः पृथिव्या यॊगधर्मिणः ॥ 44 ॥
महाप्रस्थानिकपर्व · Mahaprasthanika Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2