[वै] परविशन्न अर्जुनॊ राजन्न आश्रमं सत्यवादिनः ददर्शासीनम एकान्ते मुनिं सत्यवती सुतम ॥ 1 ॥
स तम आसाद्य धर्मज्ञम उपतस्थे महाव्रतम अर्जुनॊ ऽसमीति नामास्मै निवेद्याभ्यवदत ततः ॥ 2 ॥
सवागतं ते ऽसत्व इति पराह मुनिः सत्यवतीसुतः आस्यताम इति चॊवाच परसन्नात्मा महामुनिः ॥ 3 ॥
तम अप्रतीत मनसं निःश्वसन्तं पुनः पुनः निर्विण्ण मनसं दृष्ट्वा पार्थं वयासॊ ऽबरवीद इदम ॥ 4 ॥
अवीरजॊ ऽभिघातस ते बराह्मणॊ वा हतस तवया युद्धे पराजितॊ वासिगतश्रीर इव लक्ष्यसे ॥ 5 ॥
न तवा परत्यभिजानामि किम इदं भरतर्षभ शरॊतव्यं चेन मया पार्थ कषिप्रम आख्यातुम अर्हसि ॥ 6 ॥
[अर्ज] यः स मेधवपुः शरीमान बृहत पङ्कज लॊचनः स कृष्णः सह रामेण तयक्त्वा देहं दिवं गतः ॥ 7 ॥
मौसले वृष्णिवीराणां विनाशॊ बरह्मशापजः बभूव वीरान्त करः परभासे रॊमहर्षणः ॥ 8 ॥
ये ये शूरा महात्मानः सिंहदर्पा महाबलाः भॊजवृष्ण्यन्धका बरह्मन्न अन्यॊन्यं तैर हतं युधि ॥ 9 ॥
गदापरिघशक्तीनां सहाः परिघबाहवः त एरकाभिर निहताः पश्य कालस्य पर्ययम ॥ 10 ॥
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनम निधनं समनुप्राप्तं समासाद्येतरेतरम ॥ 11 ॥
पुनः पुनर न मृश्यामि विनाशम अमितौजसाम चिन्तयानॊ यदूनां च कृष्णस्य च यशस्विनः ॥ 12 ॥
शॊषणं सागरस्येव पर्वतस्येव चालनम नभसः पतनं चैव शैत्यम अग्नेस तथैव च ॥ 13 ॥
अश्रद्धेयम अहं मन्ये विनाशं शार्ङ्गधन्वनः न चेह सथातुम इच्छामि लॊके केष्ण विनाकृतः ॥ 14 ॥
इतः कष्टतरं चान्यच छृणु तद वै तपॊधन मनॊ मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ 15 ॥
पश्यतॊ वृष्णिदाराश च मम बरह्मन सहस्रशः आभीरैर अनुसृत्याजौ हृताः पञ्चनदालयैः ॥ 16 ॥
धनुर आदाय तत्राहं नाशकं तस्य पूरणे यथा पुरा च मे वीर्यं भुजयॊर न तथाभवत ॥ 17 ॥
अस्त्राणि मे परनष्टानि विविधानि महामुने शराश च कषयम आपन्नाः कषणेनैव समन्ततः ॥ 18 ॥
पुरुषश चाप्रमेयात्मा शङ्खचक्रगदाधरः चतुर्भुजः पीतवासा शयामः पद्मायतेक्षणः ॥ 19 ॥
यः स याती पुरस्तान मे रथस्य सुमहाद्युतिः परदहन रिपुसैन्यानि न पश्याम्य अहम अद्य तम ॥ 20 ॥
येन पूर्वं परदग्धानि शत्रुसैन्यानि तेजसा शरैर गाण्डीवनिर्मुक्तैर अहं पश्चाद वयनाशयम ॥ 21 ॥
तम अपश्यन विषीदामि घूर्णामीव च सत्तम परिनिर्विण्ण चेताश च शान्तिं नॊपलभे ऽपि च ॥ 22 ॥
विना जनार्दनं वीरं नाहं जीवितुम उत्सहे शरुत्वैव हि गतं विष्णुं ममापि मुमुहुर दिशः ॥ 23 ॥
परनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः उपदेष्टुं मम शरेयॊ भवान अर्हति सत्तम ॥ 24 ॥
[वयास] बरह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः विनष्टाः कुरुशार्दूल न ताञ शॊचितुम अर्हसि ॥ 25 ॥
भवितव्यं तथा तद धि दिष्टम एतन महात्मनाम उपेक्षितं च कृष्णेन शक्तेनापि वयपॊहितुम ॥ 26 ॥
तरैलॊक्यम अपि कृष्णॊ हि कृत्स्नं सथावरजङ्गमम परसहेद अन्यथा कर्तुं किम उ शापं मनीषिणाम ॥ 27 ॥
रथस्य पुरतॊ याति यः सचक्रगदाधरः तव सनेहात पुराणर्षिर वासुदेवश चतुर्भुजः ॥ 28 ॥
कृत्वा भारावतरणं पृथिव्याः पृथुलॊचनः मॊक्षयित्वा जगत सर्वं गतः सवस्थानम उत्तमम ॥ 29 ॥
तवया तव इह महत कर्म देवानां पुरुषर्षभ कृतं भीम सहायेन यमाभ्यां च महाभुज ॥ 30 ॥
कृतकृत्यांश च वॊ मन्ये संसिद्धान कुरु पुंग्गव गमनं पराप्तकालं च तद धि शरेयॊ मतं मम ॥ 31 ॥
बलं बुद्धिश च तेजश च परतिपत्तिश च भारत भवन्ति भव कालेषु विपद्यन्ते विपर्यये ॥ 32 ॥
कालमूलम इदं सर्वं जगद बीजं धनंजय काल एव समादत्ते पुनर एव यदृच्छया ॥ 33 ॥
स एव बलवान भूत्वा पुनर भवति दुर्बलः स एवेशश च भूत्वेह परैर आज्ञाप्यते पुनः ॥ 34 ॥
कृतकृत्यानि चास्त्राणि गतान्य अद्य यथागतम पुनर एष्यन्ति ते हस्तं यदा कालॊ भविष्यति ॥ 35 ॥
कालॊ गन्तुं गतिं मुख्यां भवताम अपि भारत एतच छरेयॊ हि वॊ मन्ये परमं भरतर्षभ ॥ 36 ॥
एतद वचनम आज्ञाय वयासस्यामित तेजसः अनुज्ञातॊ ययौ पार्थॊ नगरं नागसाह्वयम ॥ 37 ॥
परविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम आचष्ट तद यथावृत्तं वृष्ण्यन्धकजनं परति ॥ 38 ॥
मौसलपर्व · Mausala Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 1