धर्मDharmic Data

मौसलपर्व · Mausala Parva

अध्याय 8

  1. [वै] एवम उक्तः स बीभत्सुर मातुलेन परंतपः दुर्मना दीनमनसं वसुदेवम उवाच ह ॥ 1 ॥

  2. नाहं वृष्णिप्रवीरेण मधुभिश चैव मातुल विहीनां पृथिवीं दरष्टुं शक्तश चिरम इह परभॊ ॥ 2 ॥

  3. राजा च भीमसेनश च सहदेवश च पाण्डवः नकुलॊ याज्ञसेनी च षड एकमनसॊ वयम ॥ 3 ॥

  4. राज्ञः संक्रमणे चापि कालॊ ऽयं वर्तते धरुवम तम इमं विद्धि संप्राप्तं कालं कालविदां वर ॥ 4 ॥

  5. सर्वथा वृष्णिदारांस तु बालवृद्धांस तथैव च नयिष्ये परिगृह्याहम इन्द्रप्रस्थम अरिंदम ॥ 5 ॥

  6. इत्य उक्त्वा दारुकम इदं वाक्यम आह धनंजयः अमात्यान वृष्णिवीराणां दरष्टुम इच्छामि माचिरम ॥ 6 ॥

  7. इत्य एवम उक्त्वा वचनं सुधर्मां यादवीं सभाम परविवेशार्जुनः शूरः शॊचमानॊ महारथान ॥ 7 ॥

  8. तम आसनगतं तत्र सर्वाः परकृतयस तथा बराह्मणा नैगमाश चैव परिवार्यॊपतस्थिरे ॥ 8 ॥

  9. तान दीनमनसः सर्वान निभृतान गतचेतसः उवाचेदं वचः पार्थः सवयं दीनतरस तदा ॥ 9 ॥

  10. शक्र परस्थम अहं नेष्ये वृष्ण्यन्धकजनं सवयम इदं तु नगरं सर्वं समुद्रः पलावयिष्यति ॥ 10 ॥

  11. सज्जीकुरुत यानानि रत्नानि विविधानि च वज्रॊ ऽयं भवतां राजा शक्र परस्थे भविष्यति ॥ 11 ॥

  12. सप्तमे दिवसे चैव रवौ विमल उद्गते बहिर वत्स्यामहे सर्वे सज्जीभवत माचिरम ॥ 12 ॥

  13. इत्य उक्तास तेन ते पौराः पार्थेनाक्लिष्ट कर्मणा सज्जम आशु ततश चक्रुः सवसिद्ध्यर्थसमुत्सुकाः ॥ 13 ॥

  14. तां रात्रिम अवसत पार्थः केशवस्य निवेशने महता शॊकमॊहेन सहसाभिपरिप्लुतः ॥ 14 ॥

  15. शवॊभूते ऽथ ततः शौरिर वसुदेवः परतापवान युक्त्वात्मानं महातेजा जगाम गतिम उत्तमाम ॥ 15 ॥

  16. ततः शब्दॊ महान आसीद वसुदेवस्य वेश्मनि दारुणः करॊशतीनां च रुदातीनां च यॊषिताम ॥ 16 ॥

  17. परकीर्णमूर्धजाः सर्वा विमुक्ताभरण वरजः उरांसि पाणिभिर घनन्त्यॊ वयलपन करुणं सत्रियः ॥ 17 ॥

  18. तं देवकी च भद्रा च रॊहिणी मदिरा तथा अन्वरॊढुं वयवसिता भर्तारं यॊषितां वराः ॥ 18 ॥

  19. ततः शौरिं नृयुक्तेन बहु माल्येन भारत यानेन महता पार्थॊ बहिर निष्क्रामयत तदा ॥ 19 ॥

  20. तम अन्वयुस तत्र तत्र दुःखशॊकसमाहिताः दवारकावासिनः पौराः सर्व एव नरर्षभ ॥ 20 ॥

  21. तस्याश्वमेधिकं छत्रं दीप्यमानाश च पावकाः पुरस्तात तस्य यानस्य याजकाश च ततॊ ययुः ॥ 21 ॥

  22. अनुजग्मुश च तं वीरं देव्यस ता वै सवलंकृताः सत्रीसहस्रैः परिवृता वधूभिश च सहस्रशः ॥ 22 ॥

  23. यस तु देशः परियस तस्य जीवतॊ ऽभून महात्मनः तत्रैनम उपसंकल्य पितृमेधं परचक्रिरे ॥ 23 ॥

  24. तं चिताग्निगतं वीरं शूर पुत्रं वराङ्गनाः ततॊ ऽनवारुरुहुः पत्न्यश चतस्रः पतिलॊकगाः ॥ 24 ॥

  25. तं वै चतसृभिः सत्रीभिर अन्वितं पाण्डुनन्दनः अदाहयच चन्दानैश च गन्धैर उच्चावचैर अपि ॥ 25 ॥

  26. ततः परादुरभूच छब्दः समिद्धस्य विभावसॊः समगानां च निर्घॊषॊ नराणां रुदताम अपि ॥ 26 ॥

  27. ततॊ वज्रप्रधानास ते वृष्णिवीर कुमारकाः सर्व एवॊदकं चक्रुः सत्रियश चैव महात्मनः ॥ 27 ॥

  28. अलुप्त धर्मस तं धर्मं कारयित्वा सफल्गुनः जगाम वृष्णयॊ यत्र विनष्टा भरतर्षभ ॥ 28 ॥

  29. स तान दृष्ट्वा निपतितान कदने भृशदुःखितः बब्भूवातीव कौरव्यः पराप्तकालं चकार च ॥ 29 ॥

  30. यथा परधानतश चैव चक्रे सार्वाः करियास तदा ये हता बरह्मशापेन मुसलैर एरकॊद्भवैः ॥ 30 ॥

  31. ततः शरीरे रामस्य वासुदेवस्य चॊभयॊः अन्विष्य दाहयाम आस पुरुषैर आप्तकारिभिः ॥ 31 ॥

  32. स तेषां विधिवत कृत्वा परेतकार्याणि पाण्डवः सप्तमे दिवसे परायाद रथम आरुह्य सत्वरः अश्वयुक्तै रथैश चापि गॊखरॊष्ट्र युतैर अपि ॥ 32 ॥

  33. सत्रियस ता वृष्णिवीराणां रुदत्यः शॊककर्शिताः अनुजग्मुर महात्मानं पाण्डुपुत्रं धनंजयम ॥ 33 ॥

  34. भृत्यास तव अन्धकवृष्णीनां सदिनॊ रथिनश च ये वीर हीनं वृद्धबालं पौरजानपदास तथा ययुस ते परिवर्याथ कलत्रं पार्थ शासनात ॥ 34 ॥

  35. कुञ्जरैश च गजारॊहा ययुः शैलनिभैस तथा सपाद रक्षैः संयुक्ताः सॊत्तरायुधिका ययुः ॥ 35 ॥

  36. पुत्राश चान्धकवृष्णीनां सवे पार्थम अनुव्रताः बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव महाधनाः ॥ 36 ॥

  37. दश षट च सहस्राणि वासुदेवावरॊधनम पुरस्कृत्य ययुर वज्रं पौत्रं कृष्णस्य धीमतः ॥ 37 ॥

  38. बहूनि च सहस्राणि परयुतान्य अर्बुदानि च भॊजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर ययुः ॥ 38 ॥

  39. तत सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत उवाह रथिनां शरेष्ठः पार्थः परपुरंजयः ॥ 39 ॥

  40. निर्याते तु जने तस्मिन सागरॊ मकरालयः दवारकां रत्नसंपूर्णां जलेनाप्लावयत तदा ॥ 40 ॥

  41. तद अद्भुतम अभिप्रेक्ष्य दवारकावासिनॊ जनाः तूर्णात तूर्णतरं जग्मुर अहॊ दैवम इति बरुवन ॥ 41 ॥

  42. काननेषु च रम्येषु पर्वतेषु नदीषु च निवसन्न आनयाम आस वृष्णिदारान धनंजयः ॥ 42 ॥

  43. स पञ्चनदम आसाद्य धीमान अतिसमृद्धिमत देशे गॊपशुधान्याढ्ये निवासम अकरॊत परभुः ॥ 43 ॥

  44. ततॊ लॊभः समभवद दस्यूनां निहतेश्वराः दृष्ट्वा सत्रियॊ नीयमानाः पार्थेनैकेन भारत ॥ 44 ॥

  45. ततस ते पापकर्माणॊ लॊभॊपहतचेतसः आभीरा मन्त्रयाम आसुः समेत्याशुभदर्शनाः ॥ 45 ॥

  46. अयम एकॊ ऽरजुनॊ यॊद्धा वृद्धबालं हतेश्वरम नयत्य अस्मान अतिक्रम्य यॊधाश चेमे हतौजसः ॥ 46 ॥

  47. ततॊ यष्टिप्रहरणा दस्यवस ते सहस्रशः अभ्यधावन्त वृष्णीनां तं जनं लॊप्त्र हारिणः ॥ 47 ॥

  48. महता सिंहनादेन दरावयन्तः पृथग्जनम अभिपेतुर धनार्थं ते कालपर्याय चॊदिताः ॥ 48 ॥

  49. ततॊ निवृत्तः कौन्तेयः सहसा सपदानुगः उवाच तान महाबाहुर अर्जुनः परहसन्न इव ॥ 49 ॥

  50. निवर्तध्वम अधर्मज्ञा यदि सथ न मुमूर्षवः नेदानीं शरनिर्भिन्नाः शॊचध्वं निहता मया ॥ 50 ॥

  51. तथॊक्तास तेन वीरेण कदर्थी कृत्यतद वचः अभिपेतुर जनं मूढा वार्यमाणाः पुनः पुनः ॥ 51 ॥

  52. ततॊ ऽरजुनॊ धनुर दिव्यं गाण्डीवम अजरं महत आरॊपयितुम आरेभे यत्नाद इव कथं चन ॥ 52 ॥

  53. चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति चिन्तयाम आस चास्त्राणि न च सस्मार तान्य अपि ॥ 53 ॥

  54. वैकृत्यं तन महद दृष्ट्वा भुजवीर्ये तथा युधि दिव्यानां च महास्त्राणां विनाशाद वरीडितॊ ऽभवत ॥ 54 ॥

  55. वृष्णियॊधाश च ते सर्वे गजाश्वरथयायिनः न शेकुर आवर्तयितुं हरियमाणं च तं जनम ॥ 55 ॥

  56. कलत्रस्य बहुत्वात तु संपतत्सु ततस ततः परयत्नम अकरॊत पार्थॊ जनस्य परिरक्षणे ॥ 56 ॥

  57. मिषतां सर्वयॊधानां ततस ताः परमदॊत्तमाः समन्ततॊ ऽवकृष्यन्त कामाच्च चान्याः परवव्रजुः ॥ 57 ॥

  58. ततॊ गाण्डीवनिर्मुक्तैः शरैर पार्थॊ धनंजयः जघान दस्यून सॊद्वेगॊ वृष्णिभृत्यैः सह परभुः ॥ 58 ॥

  59. कषणेन तस्य ते राजन कषयं जग्मुर अजिह्मगाः अक्षया हि पुरा भूत्वा कषीणाः कषतजभॊजनाः ॥ 59 ॥

  60. स शरक्षयम आसाद्य दुःखशॊकसमाहतः धनुष कॊट्या तदा दस्यून अवधित पाकशासनिः ॥ 60 ॥

  61. परेक्षतस तव एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः जग्मुर आदाय ते मलेच्छाः समन्ताज जनमेजय ॥ 61 ॥

  62. धनंजयस तु दैवं तन मनस्साचिन्तयत परभुः दुःखशॊकसमाविष्टॊ निःश्वासपरमॊ ऽभवत ॥ 62 ॥

  63. अस्त्राणां च परणाशेन बाहुवीर्यस्य संक्षयात धनुषश चाविधेयत्वाच छराणां संक्षयेण च ॥ 63 ॥

  64. बभूव विमनाः पार्थॊ दैवम इत्य अनुचिन्तयन नयवर्तत ततॊ राजन नेदम अस्तीति चाब्रवीत ॥ 64 ॥

  65. ततः स शेषम आदाय कलत्रस्य महामतिः हृतभूयिष्ठ रत्नस्य कुरुक्षेत्रम अवातरत ॥ 65 ॥

  66. एवं कलत्रम आनीय वृष्णीनां हृतशेषितम नयवेशयत कौरव्यस तत्र तत्र धनंजयः ॥ 66 ॥

  67. हार्दिक्य तनयं पार्थॊ नगरं मार्तिकावतम भॊजराजकलत्रं च हृतशेषं नरॊत्तमः ॥ 67 ॥

  68. ततॊ वृद्धांश च बालांश च सत्रियश चादाय पाण्डवः वीरैर विहीनान सर्वांस ताञ शक्र परस्थे नयवेशयत ॥ 68 ॥

  69. यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः परियम नयवेशयत धर्मात्मा वृद्धा बाल पुरस्कृतम ॥ 69 ॥

  70. इन्र परस्थे ददौ राज्यं वज्राय परवीरहा वज्रेणाक्रुर दारास तु वार्यमाणाः परवव्रजुः ॥ 70 ॥

  71. रुक्मिणी तव अथ गान्धारी शैब्या हैमवतीत्य अपि देवी जाम्बवती चैव विविशुर जातवेदसम ॥ 71 ॥

  72. सत्यभामा तथैवान्या देव्याः कृष्णस्य संमताः वनं परविविशू राजंस तापस्ये कृतनिश्चयाः ॥ 72 ॥

  73. दवारकावासिनॊ ये तु पुरुषाः पार्थम अन्वयुः यथार्हं संविभज्यैनान वज्रे पर्यददज जयः ॥ 73 ॥

  74. स तत कृत्वा पराप्तकालं बाष्पेणापिहितॊ ऽरजुनः कृष्णद्वैपायनं राजन ददर्शासीनम आश्रमे ॥ 74 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7