[वै] तं शयानं महात्मानं वीरम आनक दुन्दुभिम पुत्रशॊकाभिसंतप्तं ददर्श कुरुपुंगवः ॥ 1 ॥
तस्याश्रु परिपूर्णाक्षॊ वयूढॊरस्कॊ महाभुजः आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ 2 ॥
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः रुदन पुत्रान समरन सार्वान विललाप सुविह्वलः भरातॄन पुत्रांश च पौत्रांश च दौहित्रांश च सखीन अपि ॥ 3 ॥
[वासु] यैर जिता भूमिपालाश च दैत्याश च शतशॊ ऽरजुन तान दृष्ट्वा नेह पश्यामि जीवाम्य अर्जुन दुर्मरः ॥ 4 ॥
यौ ताव अर्जुन शिष्यौ ते परियौ बहुमतौ सदा तयॊर अपनयात पार्थ वृष्णयॊ निधनं गताः ॥ 5 ॥
यौ तौ वृष्णिप्रवीराणां दवाव एवातिरथौ मतौ परद्युम्नॊ युयुधानश च कथयन कत्थसे च यौ ॥ 6 ॥
नित्यं तवं कुरुशार्दूल कृष्णश च मम पुत्रकः ताव उभौ वृष्णिनाशस्य मुखम आस्तां धनंजय ॥ 7 ॥
न तु गर्हामि शैनेयं हार्दिक्यां चाहम अर्जुन अक्रूरं रौक्मिणेयं च शापॊ हय एवात्र कारणम ॥ 8 ॥
केशिनं यस तु कंसं च विक्रम्य जगतः परभुः विदेहाव अकरॊत पार्थ चैद्यं च बल गर्वितम ॥ 9 ॥
नैषादिम एकलव्यं च चक्रे कालिङ्गमागधान गान्धारान काशिराजं च मरु भूमौ च पार्थिवान ॥ 10 ॥
पराच्यांश च दाक्षिणात्यंश च पार्वतीयांस तथा नृपान सॊ ऽभयुपेक्षितवान एतम अनयं मधुसूदनः ॥ 11 ॥
ततः पुत्रांश च पौत्रांश च भरातॄन अथ सखीन अपि शयानान निहतान दृष्ट्वा ततॊ माम अब्रवीद इदम ॥ 12 ॥
संप्राप्तॊ ऽदयायम अस्यन्तः कुलस्य पुरुषर्षभ आगमिष्यति बीभत्सुर इमां दवरवतीं पुरीम ॥ 13 ॥
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत स तु शरुत्वा महातेजा यदूनाम अनयं परभॊ आगन्ता कषिप्रम एवेह न मे ऽतरास्ति विचारणा ॥ 14 ॥
यॊ ऽहं तम अर्जुनं विद्धि यॊ ऽरजुनः सॊ ऽहम एव तु यद बरूयात तत तथा कार्यम इति बुध्यस्व माधव ॥ 15 ॥
स सत्रीषु पराप्तकालं वः पाण्डवॊ बालकेषु च परतिपत्स्यति बीभत्सुर भवतश चौर्ध्व देहिकम ॥ 16 ॥
इमां च नगरीं सद्यः परतियाते धनंजये पराकाराट्टाकलॊपेतां समुद्रः पलावयिष्यति ॥ 17 ॥
अहं हि देशे कस्मिंश चित पुण्ये नियमम आस्थितः कालं कर्ता सद्य एव रामेण सह धीमता ॥ 18 ॥
एवम उक्त्वा हृषीकेशॊ माम अचिन्त्यपराक्रमः हित्वा मां बालकैः सार्धं दिशं काम अप्य अगात परभुः ॥ 19 ॥
सॊ ऽहं तौ च महात्मानौ चिन्तयन भरातरौ तव घॊरं जञातिवधं चैव न भुञ्जे शॊककर्शितः ॥ 20 ॥
न च भॊक्ष्ये न जीविष्ये दिष्ट्या पराप्तॊ ऽसि पाण्डव यद उक्तं पार्थ कृष्णेन तत सर्वम अखिलं कुरु ॥ 21 ॥
एतत ते पार्थ राज्यं च सत्रियॊ रत्नानि चैव ह इष्टान पराणान अहं हीमांस तयक्ष्यामि रिपुसूदन ॥ 22 ॥
मौसलपर्व · Mausala Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8