[वै] दारुकॊ ऽपि कुरून गत्वा दृष्ट्वा पार्थान महारथान आचष्ट मौसाले वृष्णीन अन्यॊन्येनॊपसंहृतान ॥ 1 ॥
शरुत्वा विनष्टान वार्ष्णेयान सभॊजकुकुरान्धकान पाण्डवाः शॊकसंतप्ता वित्रस्तमनसॊ ऽभवन ॥ 2 ॥
ततॊ ऽरजुनस तान आमन्त्र्य केशवस्य परियः सखा परययौ मातुलं दरष्टुं नेदम अस्तीति चाब्रवीत ॥ 3 ॥
सा वृष्णिनिलयं गत्वा दारुकेण सह परभॊ ददर्श दवारकां वीरॊ मृतनाथाम इव सत्रियम ॥ 4 ॥
याः सम ता लॊकनाथेन नाथवत्यः पुराभवन तास तव अनाथास तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ 5 ॥
षॊडशस्त्रीसहस्राणि वासुदेव परिग्रहः तासाम आसीन महान नादॊ दृष्ट्वैवार्जुनम आगतम ॥ 6 ॥
तास तु दृष्ट्वैव कौरव्यॊ बाष्पेण पिहितॊ ऽरजुनः हीनाः कृष्णेन पुत्रैश च नाशकात सॊ ऽभिवीक्षितुम ॥ 7 ॥
तां स वृष्ण्यन्धकजलां हयमीनां रथॊडुपाम वादित्ररथघॊषौघां वेश्म तीर्थमहाग्रहाम ॥ 8 ॥
रत्नशैवल संघाटां वज्रप्राकारमालिनीम रथ्या सरॊतॊ जलावर्तां चत्वरस्तिमितह्रदाम ॥ 9 ॥
राम कृष्ण महाग्राहां दवारका सरितं तदा कालपाशग्रहां घॊरां नदीं वैतरणीम इव ॥ 10 ॥
तां ददर्शार्जुनॊ धीमान विहीनां वृष्णिपुंगवैः गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥ 11 ॥
तां दृष्ट्वा दवारकां पार्थस ताश च कृष्णस्य यॊषितः सस्वनं बाष्पम उत्सृज्य निपपात महीतले ॥ 12 ॥
सत्राजिती ततः सत्या रुक्मिणी च विशां पते अभिपत्य पररुरुदुः परिवार्य धनंजयम ॥ 13 ॥
ततस ताः काञ्चने पीठे समुत्थायॊपवेश्य च अब्रुवन्त्यॊ महात्मानं परिवार्यॊपतस्थिरे ॥ 14 ॥
ततः संस्तूय गॊविन्दं कथयित्वा च पाण्डवः आश्वास्य ताः सत्रियश चापि मातुलं दरष्टुम अभ्यगात ॥ 15 ॥
मौसलपर्व · Mausala Parva
अध्याय 6
Reach this point to mark the section finished.
Continue to अध्याय 7