[वै] काली सत्री पाण्डुरैर दन्तैः परविश्य हसती निशि सत्रियः सवप्नेषु मुष्णन्ती दवारकां परिधावति ॥ 1 ॥
अलंकाराश च छत्त्रं च धवजाश च कवचानि च हरियमाणान्य अदृश्यन्त रक्षॊभिः सुभयानकैः ॥ 2 ॥
तच चाग्ग्नि दत्तं कृष्णस्य वज्रनाभम अयॊ मयम दिवम आचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ 3 ॥
युक्तं रथं दिव्यम आदित्यवर्णं; हयाहरन पश्यतॊ दारुकस्य ते सागरस्यॊपरिष्ठाद अवर्तन; मनॊजवाश चतुरॊ वाजिमुख्याः ॥ 4 ॥
तालः सुपर्णश च महाध्वजौ तौ; सुपूजितौ राम जनार्दनाभ्याम उच्चैर जह्रुर अप्सरसॊ दिवानिशं; वाचश चॊचुर गम्यतां तीर्थयात्रा ॥ 5 ॥
ततॊ जिगमिषन्तस ते वृष्ण्यन्धकमहारथाः सान्तःपुरास तदा तीर्थयात्राम ऐच्छन नरर्षभाः ॥ 6 ॥
ततॊ भॊज्यं च भक्ष्यां च पेयं चान्धकवृष्णयः बहु नानाविधं चक्रुर मद्यं मांसम अनेकशः ॥ 7 ॥
ततः सीधुषु सक्ताश च निर्यायुर नगराद बहिः यानैर अश्वैर गजैश चैव शरीमन्तस तिग्मतेजसः ॥ 8 ॥
ततः परभासे नयवसन यथॊद्देशं यथा गृहम परभूतभक्ष्यपेयस ते सदारा यादवास तदा ॥ 9 ॥
निविष्टांस तान निशम्याथ सांदुरान्ते स यॊगवित जगामामन्त्र्य तान वीरान उद्धवॊ ऽरथविशारदः ॥ 10 ॥
तं परस्थितं महात्मानम अभिवाद्य कृताञ्जलिम जानन विनाशं वृष्णीनां नैच्छद वारयितुं हरिः ॥ 11 ॥
ततः कालपरीतास ते वृष्ण्यन्धकमहारथाः अपश्यन्न उद्धवं यान्तं तेजसावृत्य रॊदसी ॥ 12 ॥
बराह्मणार्थेषु यत सिद्धम अन्नं तेषां महात्मनाम तद वानरेभ्यः परददुः सुरा गन्धसमन्वितम ॥ 13 ॥
ततस तूर्यशताकीर्णं नटनर्तक संकुलम परावर्तत महापानं परभासे तिग्मतेजसाम ॥ 14 ॥
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा अपिबद युयुधानश च गदॊ बभ्रुस तथैव च ॥ 15 ॥
ततः परिषदॊ मध्ये युयुधानॊ मदॊत्कटः अब्रवीत कृतवर्माणम अवहस्यावमन्य च ॥ 16 ॥
कः कषत्रियॊ मन्यमानः सुप्तान हन्यान मृतान इव न तन मृष्यन्ति हार्दिक्य यादवा यत तवया कृतम ॥ 17 ॥
इत्य उक्ते युयुधानेन पूजयाम आस तद वचः परद्युम्नॊ रथिनां शरेष्ठॊ हार्दिक्यम अवमन्य च ॥ 18 ॥
ततः परमसंक्रुद्धः कृतवर्मा तम अब्रवीत निर्दिशन्न इव सावज्ञं तदा सव्येन पाणिना ॥ 19 ॥
भूरिश्रवाश छिन्नबाहुर युद्धे परायगतस तवया वधेन सुनृशंसेन कथं वीरेण पातितः ॥ 20 ॥
इति तस्या वचः शरुत्वा केशवः परवीरहा तिर्यक सरॊषया दृष्ट्या वीक्षां चक्रे स मन्युमान ॥ 21 ॥
मणिः सयमन्तकश चैव यः स सत्राजितॊ ऽभवत तां कथां समारयाम आस सात्यकिर मधुसूदनम ॥ 22 ॥
तच छरुत्वा केशवस्याङ्गम अगमद रुदती तदा सत्यभामा परकुपिता कॊपयन्ती जनार्दनम ॥ 23 ॥
तत उत्थाय सक्रॊधः सात्यकिर वाक्यम अब्रवीत पञ्चानां दरौपदेयानां धृष्टद्युम्न शिखण्डिनॊः ॥ 24 ॥
एष गच्छामि पदवीं सत्येन च तथा शपे सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥ 25 ॥
दरॊणपुत्र सहायेन पापेन कृतवर्मणा समाप्तम आयुर अस्याद्य यशश चापि सुमध्यमे ॥ 26 ॥
इतीदम उक्त्वा खड्गेन केशवस्य समीपतः अभिद्रुत्य शिरः करुद्धश चिच्छेद कृतवर्मणः ॥ 27 ॥
तथान्यान अपि निघ्नन्तं युयुधानं समन्ततः अभ्यधावद धृषीकेशॊ विनिवारयिषुस तदा ॥ 28 ॥
एकीभूतास ततः सर्वे कालपर्याय चॊदिताः भॊजान्धका महाराज शैनेयं पर्यवारयन ॥ 29 ॥
तान दृष्ट्वा पततस तूर्णम अभिक्रुद्धाञ जनार्दनः न चुक्रॊध महातेजा जानन कालस्य पर्ययम ॥ 30 ॥
ते तु पानमदाविष्टाश चॊदिताश चैव मन्युना युयुधानम अथाभ्यघ्नन्न उच्चिष्टैर भाजनैस तदा ॥ 31 ॥
हन्यमाने तु शैनेये करुद्धॊ रुक्मिणिनन्दनः तदन्तरम उपाधावन मॊक्षयिष्यञ शिनेः सुतम ॥ 32 ॥
स भॊजैः सह संयुक्तः सात्यकिश चान्धकैः सह बहुत्वान निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥ 33 ॥
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः एरकाणां तदा मुष्टिं कॊपाज जग्राह केशवः ॥ 34 ॥
तद अभून मुसलं घॊरं वज्रकल्पम अयॊ मयम जघान तेन कृष्णस तान ये ऽसय परमुखतॊ ऽभवन ॥ 35 ॥
ततॊ ऽनधकाश च भॊजाश च शैनेया वृष्णयस तथा जघ्नुर अन्यॊन्यम आक्रन्दे मुसलैः कालचॊदिताः ॥ 36 ॥
यस तेषाम एरकां कश चिज जग्राह रुषितॊ नृप वज्रभूतेव सा राजन्न अदृश्यत तदा विभॊ ॥ 37 ॥
तृणं च मुसली भूतम अपि तत्र वयदृश्यत बरह्मा दण्डकृतं सर्वम इति तद विद्धि पार्थिव ॥ 38 ॥
आविध्याविध्य ते राजन परक्षिपन्ति सम यत तृणम तद वज्रभूतं मुसलं वयदृश्यन्त तदा दृढम ॥ 39 ॥
अवधीत पितरं पुत्रः पिता पुत्रं च भारत मत्ताः परिपतन्ति सम पॊथयन्तः परस्परम ॥ 40 ॥
पतंगा इव चाग्नौ ते नयपतन कुकुरान्धकाः नासीत पलायने बुद्धिर वध्यमानस्य कस्य चित ॥ 41 ॥
तं तु पश्यन महाबाहुर जानन कालस्य पर्ययम मुसलं सामवष्टभ्य तस्थौ स मधुसूदनः ॥ 42 ॥
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः परद्युम्नं चानिरुद्धं च ततश चुक्रॊध भारत ॥ 43 ॥
गदं वीक्ष्य शयानं च भृशं कॊपसमन्वितः स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ 44 ॥
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः दारुकश चैव दाशार्हम ऊचतुर यन निबॊध तत ॥ 45 ॥
भगवन संहृतं सर्वं तवया भूयिष्ठम अच्युत रामस्य पदम अन्विच्छ तत्र गच्छाम यत्र सः ॥ 46 ॥
मौसलपर्व · Mausala Parva
अध्याय 4
Reach this point to mark the section finished.
Continue to अध्याय 5