धर्मDharmic Data

मौसलपर्व · Mausala Parva

अध्याय 3

  1. [वै] एवं परयतमानानां वृष्णीनाम अन्धकैः सह कालॊ गृहाणि सार्वेणां परिचक्राम नित्यशः ॥ 1 ॥

  2. करालॊ विकटॊ मुण्डः पुरुषः कृष्णपिङ्गलः गृहाण्य अवेक्ष्य वृष्णीनां नादृश्यत पुनः कव चित ॥ 2 ॥

  3. उत्पेदिरे महावाता दारुणाश चा दिने दिने वृष्ण्यन्धकविनाशाय बहवॊ रॊमहर्षणाः ॥ 3 ॥

  4. विवृद्धमूषका रथ्या विभिन्नमणिकास तथा चीची कूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु नॊपशाम्यति शब्दश च स दिवारात्रम एव हि ॥ 4 ॥

  5. अनुकुर्वन्न उलूकानां सारसा विरुतं तथा अजाः शिवानां च रुतम अन्वकुर्वत भारत ॥ 5 ॥

  6. पाण्डुरा रक्तपादाश च विहगाः कालचॊदिताः वृष्ण्यन्धकानां गेहेषु कपॊता वयचरंस तदा ॥ 6 ॥

  7. वयजायन्त खरा गॊषु करभाश्वतरीषु च शुनीष्व अपि बिडालाश च मूषका नकुलीषु च ॥ 7 ॥

  8. नापत्रपन्त पापानि कुर्वन्तॊ वृष्णयस तदा पराद्विषन बराह्मणांश चापि पितॄन देवांस तथैव च ॥ 8 ॥

  9. गुरूंश चाप्य अवमन्यन्त न तु राम जनार्दनौ पत्न्यः पतीन वयुच्चरन्त पत्नीश च पतयस तथा ॥ 9 ॥

  10. विभावसुः परज्वलितॊ वामं विपरिवर्तते नीललॊहित माञ्जिष्ठा विसृजन्न अर्चिषः पृथक ॥ 10 ॥

  11. उदयास्त मने नित्यं पुर्यां तस्यां दिवाकरः वयदृश्यतासकृत पुम्भिः कबन्धैः परिवारितः ॥ 11 ॥

  12. महानसेषु सिद्धे ऽनने संस्कृते ऽतीव भारत आहार्यमाणे कृमयॊ वयदृश्यन्त नराधिप ॥ 12 ॥

  13. पुण्याहे वाच्यमाने च जपत्सु च महात्मसु अभिधावन्तः शरूयन्ते न चादृश्यत कश चन ॥ 13 ॥

  14. परस्परं च नाक्षत्रं हन्यमानं पुनः पुनः गरहैर अपश्यन सार्वे ते नात्मानस तु कथं चन ॥ 14 ॥

  15. नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने समन्तत परत्यवाश्यन्त रासभा दारुणस्वराः ॥ 15 ॥

  16. एवं पश्यन हृषीकेशः संप्राप्तं कालपर्ययम तरयॊदश्याम अमावास्यां तान दृष्ट्वा पराब्रवीद इदम ॥ 16 ॥

  17. चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः तदा च भरते युद्धे पराप्ता चाद्य कषयाय नः ॥ 17 ॥

  18. विमृशन्न एव कालं तं परिचिन्त्य जनार्दनः मेने पराप्तं स षट्त्रिंशं वर्वं वै केशि सूदनः ॥ 18 ॥

  19. पुत्रशॊकाभिसंतप्ता गान्धारी हतबान्धवा यद अनुव्याजहारार्ता तद इदं समुपागतम ॥ 19 ॥

  20. इदं च तद अनुप्राप्तम अब्रवीद यद युधिष्ठिरः पुरा वयूठेष्व अनीकेषु दृष्ट्वॊत्पातान सुदारुणान ॥ 20 ॥

  21. इत्य उक्त्वा वासुदेवस तु चिकीर्षन सत्यम एव तत आज्ञापयाम आस तदा तीर्थयात्रम अरिंदम ॥ 21 ॥

  22. अघॊषयन्त पुरुषास तत्र केशव शासनात तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2