[ज] कथं विनष्टा भगवन्न अन्धका वृष्णिभिः सह पश्यतॊ वासुदेवस्य भॊजाश चैव महारथाः ॥ 1 ॥
[वै] षट तरिंशे ऽथ ततॊ वर्षे वृष्णीनाम अनयॊ महान अन्यॊन्यं मुसलैस ते तु निजघ्नुः कालचॊदिताः ॥ 2 ॥
[ज] केनानुशप्तास ते वीराः कषयं वृष्ण्यन्धका ययुः भॊजाश च दविजवर्यत्वं विस्तरेण वदस्व मे ॥ 3 ॥
[वै] विश्वामित्रं च कण्वं च नारदं च तपॊधनम सारण परमुखा वीरा ददृशुर दवारकागतान ॥ 4 ॥
ते वै साम्बं पुरस्कृत्य भूषयित्वा सत्रियं यथा अब्रुवन्न उपसंगम्य दैवदण्डनिपीडिताः ॥ 5 ॥
इयं सत्री पुत्र कामस्य बभ्रॊर अमिततेजसः ऋषयः साधु जानीत किम इयं जनयिष्यति ॥ 6 ॥
इत्य उक्तास ते तदा राजन विप्रलम्भ परधर्षिताः परत्यब्रुवंस तान मुनयॊ यत तच छृणु नराधिप ॥ 7 ॥
वृष्ण्यन्धकविनाशाय मुसलं घॊरम आयसम वासुदेवस्य दायादाः साम्बॊ ऽयं जनयिष्यति ॥ 8 ॥
येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः उच्छेतारः कुलं कृत्स्नम ऋते राम जनार्दनौ ॥ 9 ॥
समुद्रं यास्यति शरीमांस तयक्त्वा देहं हलायुधः जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ 10 ॥
इत्य अब्रुवन्त ते राजन परलब्धास तैर दुरात्मभिः मुनयः करॊधरक्ताक्षाः समीक्ष्याथ परस्परम ॥ 11 ॥
तथॊक्ता मुनयस ते तु ततः केशवम अभ्ययुः ॥ 12 ॥
अथाब्रवीत तदा वृष्णीञ शरुत्वैवं मधुसूदनः अन्तज्ञॊ मतिमांस तस्य भवितव्यं तथेति तान ॥ 13 ॥
एवम उक्त्वा हृषीकेशः परविवेश पुनर गृहान कृतान्तम अन्यथा नैच्छत कर्तुं स जगतः परभुः ॥ 14 ॥
शवॊभूते ऽथ ततः साम्बॊ मुसालं तद असूत वै वृष्ण्यन्धाक विनाशाय किंकरप्रतिमं महत ॥ 15 ॥
परसूतं शापजं घॊरं तच च राज्ञे नयवेदयन विषण्णरूपस तद राजा सूक्ष्मं चूर्णम अकारयत ॥ 16 ॥
पराक्षिपन सागरे तच च पुरुषा राजशासनात अघॊषयंश च नगरे वचनाद आहुकस्य च ॥ 17 ॥
अद्य परभृति सर्वेषु वृष्ण्यन्धकगृहेष्व इह सुरासवॊ न कर्तव्यः सर्वैर नगरवासिभिः ॥ 18 ॥
यश च नॊ ऽविदितं कुर्यात पेयं कश चिन नरः कव चित जीवन स शूलम आरॊहेत सवयं कृत्वा सबान्धवः ॥ 19 ॥
ततॊ राजभयात सर्वे नियमं चक्रिरे तदा नराः शासनम आज्ञाय तस्य राज्ञॊ महात्मनः ॥ 20 ॥
मौसलपर्व · Mausala Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3