[वै] षट तरिंशे तव अथ संप्राप्ते वर्षे कौरवनन्दन ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ 1 ॥
ववुर वाताः सनिर्घाता रूक्षाः शर्कर वर्षिणः अपसव्यानि शकुना मण्डलानि परचक्रिरे ॥ 2 ॥
परत्यगूहुर महानद्यॊ दिशॊ नीहारसंवृताः उल्काश चाङ्गार वर्षिण्यः परपेतुर गगनाद भुवि ॥ 3 ॥
आदित्यॊ रजसा राजन समवच्छन्न मण्डलः विरश्मिर उदये नित्यं कबन्धैः समदृश्यत ॥ 4 ॥
परिवेषाश च दृश्यन्ते दारुणाश चन्द्रसूर्ययॊः तरिवर्णाः शयाम रूक्षान्तास तथा भस्मारुण परभाः ॥ 5 ॥
एते चान्ये च बहव उत्पाता भयसंसिनः देश्यन्ते ऽहर अहॊ राजन हृदयॊद्वेग कारकाः ॥ 6 ॥
कस्य चित तव अथ कालस्य कुरुराजॊ युधिष्ठिरः शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम ॥ 7 ॥
विमुक्तं वासुदेवं च शरुत्वा रामं च पाण्डवः समानीयाब्रवीद भरातॄन किं करिष्याम इत्य उत ॥ 8 ॥
परस्परं समासाद्य बरह्मदण्डबलत कृतान वृष्णीन विनष्टांस ते शरुत्वा वयथिताः पाण्डवाभवन ॥ 9 ॥
निधनं वासुदेवस्य समुद्रस्येव शॊषणम वीरा न शरद्दधुस तस्य विनाशं शार्ङ्गधन्वनः ॥ 10 ॥
मौसलं ते परिश्रुत्य दुःखशॊकसमन्विताः विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन ॥ 11 ॥
मौसलपर्व · Mausala Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2