[नारद] नासौ वृथाग्निना दग्धॊ यथा तत्र शरुतं मया वैचित्रवीर्यॊ नृपतिस तत ते वक्ष्यामि भारत ॥ 1 ॥
वनं परविशता तेन वायुभक्षेण धीमता अग्नयः कारयित्वेष्टिम उत्सृष्टा इति नः शरुतम ॥ 2 ॥
याजकास तु ततस तस्य तान अग्नीन निर्जने वने समुत्सृज्य यथाकामं जग्मुर भरतसत्तम ॥ 3 ॥
स विवृद्धस तदा वह्निर वने तस्मिन्न अभूत किल तेन तद वनम आदीप्तम इति मे तापसाब्रुवन ॥ 4 ॥
स राजा जाह्नवी कच्छे यथा ते कथितं मया तेनाङ्गिना समायुक्तः सवेनैव भरतर्षभ ॥ 5 ॥
एवम आवेदयाम आसुर मुनयस ते ममानघ ये ते भागीरथी तीरे मया दृष्टा युधिष्ठिर ॥ 6 ॥
एवं सवेनाग्निना राजा समायुक्तॊ महीपते मा शॊचिथास तवं नृपतिं गतः स परमां गतिम ॥ 7 ॥
गुरुशुश्रूषया चैव जननी तव पाण्डव पराप्ता सुमहतीं सिद्धिम इति मे नात्र संशयः ॥ 8 ॥
कर्तुम अर्हसि कौरव्य तेषां तवम उदकक्रियाम भरातृभिः सहितः सर्वैर एतद अत्र विधीयताम ॥ 9 ॥
[वै] तथा स पृथिवीपालः पाण्डवानां धुरंधरः निर्ययौ सह सॊदर्यैः सदारॊ भरतर्षभ ॥ 10 ॥
पौरजान पदाश चैव राजभक्तिपुरस्कृताः गङ्गां परजग्मुर अभितॊ वाससैकेन संवृताः ॥ 11 ॥
ततॊ ऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः युयुत्सुम अग्रतः कृत्वा ददुस तॊयं महात्मने ॥ 12 ॥
गान्धार्याश च पृथायाश च विधिवन नामगॊत्रतः शौचं निवर्तयन्तस ते तत्रॊषुर नगराद बहिः ॥ 13 ॥
परेषयाम आस स नरान विधिज्ञानाप्त कारिणः गङ्गा दवारं कुरुश्रेष्ठॊ यत्र दग्धॊ ऽभवन नृपः ॥ 14 ॥
तत्रैव तेषां कुल्यानि गङ्गा दवारे ऽनवशात तदा कर्तव्यानीति पुरुषान दत्तदेयान महीपतिः ॥ 15 ॥
दवादशे ऽहनि तेभ्यः स कृतशौचॊ नराधिपः ददौ शराद्धानि विधिवद दक्षिणावन्ति पाण्डवः ॥ 16 ॥
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः सुवर्णं रजतं गाश च शय्याश च सुमहाधनाः ॥ 17 ॥
गान्धार्याश चैव तेजस्वी पृथायाश च पृथक पृथक संकीर्त्य नामनी राजा ददौ दानम अनुत्तमम ॥ 18 ॥
यॊ यद इच्छति यावच च तावत स लभते दविजः शयनं भॊजनं यानं मणिरत्नम अथॊ धनम ॥ 19 ॥
यानम आच्छादनं भॊगान दासीश च परिचारिकाः ददौ राजा समुद्दिश्य तयॊर मात्रॊर महीपतिः ॥ 20 ॥
ततः स पृथिवीपालॊ दत्त्वा शराद्धान्य अनेकशः परविवेश पुनर धीमान नगरं वारणाह्वयम ॥ 21 ॥
ते चापि राजवचनात पुरुषा ये गताभवन संकल्प्य तेषां कुल्यानि पुनः परत्यागमंस ततः ॥ 22 ॥
माल्यैर गन्धैश च विविधैः पूजयित्वा यथाविधि कुल्यानि तेषां संयॊज्य तदाचख्युर महीपतेः ॥ 23 ॥
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम नारदॊ ऽपय अगमद राजन परमर्षिर यथेप्सितम ॥ 24 ॥
एवं वर्षाण्य अतीतानि धृतराष्ट्रस्य धीमतः वनवासे तदा तरीणि नगरे दश पञ्च च ॥ 25 ॥
हतपुत्रस्य संग्रामे दानानि ददतः सदा जञातिसंबन्धिमित्राणां भरातॄणां सवजनस्य च ॥ 26 ॥
युधिष्ठिरस तु नृपतिर नातिप्रीत मनास तदा धारयाम आस तद राज्यं निहतज्ञातिबान्धवः ॥ 27 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 47
Reach this point to mark the section finished.
Continue to अध्याय 1