[धृ] सपृश मां पाणिना भूयः परिष्वज च पाण्डव जीवामीव हि संस्पर्शात तव राजीवलॊचन ॥ 1 ॥
मूर्धानं च तवाघ्रातुम इच्छामि मनुजाधिप पाणिभ्यां च परिस्प्रष्टुं पराणा हि न जहुर मम ॥ 2 ॥
अष्टमॊ हय अद्य कालॊ ऽयम आहारस्य कृतस्य मे येनाहं कुरुशार्दूल न शक्नॊमि विचेष्टितुम ॥ 3 ॥
वयायामश चायम अत्यर्थं कृतस तवाम अभियाचता ततॊ गलान मनास तात नष्टसंज्ञ इवाभवम ॥ 4 ॥
तवामृत समस्पर्शं हस्तस्पर्शम इमं विभॊ लब्ध्वा संजीवितॊ ऽसमीति मन्ये कुरुकुलॊद्वह ॥ 5 ॥
[वै] एवम उक्तस तु कौन्तेयः पित्रा जयेष्ठेन भारत पस्पर्श सर्वगात्रेषु सौहार्दात तं शनैस तदा ॥ 6 ॥
उपलभ्य तथ पराणान धृतराष्ट्रॊ महीपतिः बाहुभ्यां संपरिष्वज्य मूर्ध्न्य आजिघ्रत पाण्डवम ॥ 7 ॥
विदुरादयश च ते सर्वे रुरुदुर दुःखिता भृशम अतिदुःखाच च राजानं नॊचुः किं चन पाण्डवाः ॥ 8 ॥
गान्धारी तव एव धर्मज्ञा मनसॊद्वहती भृशम दुःखान्य अवारयद राजन मैवम इत्य एव चाब्रवीत ॥ 9 ॥
इतरास तु सत्रियः सर्वाः कुन्त्या सह सुदुःखिताः नेत्रैर आगतविक्लेशैः परिवार्य सथिताभवन ॥ 10 ॥
अथाब्रवीत पुनर वाक्यं धृतराष्ट्रॊ युधिष्ठिरम अनुजानीहि मां राजंस तापस्ये भरतर्षभ ॥ 11 ॥
गलायते मे मनस तात भूयॊ भूयः परजल्पतः न माम अतः परं पुत्र परिक्लेष्टुम इहार्हसि ॥ 12 ॥
तस्मिंस तु कौरवेन्द्रे तं तथा बरुवति पाण्डवम सर्वेषाम अवरॊधानाम आर्तनादॊ महान अभूत ॥ 13 ॥
दृष्ट्वा कृशं विवर्णं च राजानम अतथॊचितम उपवासपरिश्रान्तं तवग अस्थि परिवारितम ॥ 14 ॥
धर्मपुत्रः स पितरं परिष्वज्य महाभुजः शॊकजं बाष्पम उत्सृज्य पुनर वचनम अब्रवीत ॥ 15 ॥
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा यथा तव परियं राजंश चिकीर्षामि परंतप ॥ 16 ॥
यदि तव अहम अनुग्राह्यॊ भवतॊ दयितॊ ऽपि वा करियतां तावद आहारस ततॊ वेत्स्यामहे वयम ॥ 17 ॥
ततॊ ऽबरवीन महातेजा धर्मपुत्रं स पार्थिवः अनुज्ञातस तवया पुत्र भुञ्जीयाम इति कामये ॥ 18 ॥
इति बरुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम ऋषिः सत्यवती पुत्रॊ वयासॊ ऽभयेत्य वचॊ ऽबरवीत ॥ 19 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8