[य] न मां परीणयते राज्यं तवय्य एवं दुःखिते नृप धिन माम अस्तु सुदुर्बुद्धिं राज्यसक्तं परमादिनम ॥ 1 ॥
यॊ ऽहं भवन्तं दुःखार्तम उपवासकृशं नृप यताहारं कषितिशयं नाविन्दं भरातृभिः सह ॥ 2 ॥
अहॊ ऽसमि वञ्चितॊ मूढॊ भवता गूढबुद्धिना विश्वासयित्वा पूर्वं मां यद इदं दुःखम अश्नुथाः ॥ 3 ॥
किं मे राज्येन भॊगैर वा किं यज्ञैः किं सुखेन वा यस्य मे तवं महीपाल दुःखान्य एतान्य अवाप्तवान ॥ 4 ॥
पीडितं चापि जानामि राज्यम आत्मानम एव च अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ॥ 5 ॥
भवान पिता भवान माता भवान नः परमॊ गुरुः भवता विप्रहीणा हि कव नु तिष्ठामहे वयम ॥ 6 ॥
औरसॊ भवतः पुत्रॊ युयुत्सुर नृपसत्तम अस्तु राजा महाराज यं चान्यं मन्यते भवान ॥ 7 ॥
अहं वनं गमिष्यामि भवान राज्यं परशास्त्व इदम न माम अयशसा दग्धं भूयस तवं दग्धुम अर्हसि ॥ 8 ॥
नाहं राजा भवान राजा भवता परवान अहम कथं गुरुं तवां धर्मज्ञम अनुज्ञातुम इहॊत्सहे ॥ 9 ॥
न मन्युर हृदि नः कश चिद दुर्यॊधनकृते ऽनघ भवितव्यं तथा तद धि वयं ते चैव मॊहिताः ॥ 10 ॥
वयं हि पुत्रा भवतॊ यथा दुर्यॊधनादयः गान्धारी चैव कुन्ती च निर्वेशेषे मते मम ॥ 11 ॥
स मां तवं यदि राजेन्द्र परित्यज्य गमिष्यसि पृष्ठतस तवानुयास्यामि सत्येनात्मानम आलभे ॥ 12 ॥
इयं हि वसुसंपूर्णा मही सागरमेखला भवता विप्रहीणस्य न मे परीतिकरी भवेत ॥ 13 ॥
भवदीयम इदं सर्वं शिरसा तवां परसादये तवदधीनाः सम राजेन्द्र वयेतु ते मानसॊ जवरः ॥ 14 ॥
भवितव्यम अनुप्राप्तं मन्ये तवां तज जनाधिप दिष्ट्या शुश्रूषमाणस तवां मॊक्ष्यामि मनसॊ जवरम ॥ 15 ॥
[धृ] तापस्ये मे मनस तात वर्तते कुरुनन्दन उचितं हि कुले ऽसमाकम अरण्यगमनं परभॊ ॥ 16 ॥
चिरम अस्म्य उषितः पुत्र चिरं शुश्रूषितस तवया वृद्धं माम अभ्यनुज्ञातुं तवम अर्हसि जनाधिप ॥ 17 ॥
[वै] इत्य उक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम उवाच वचनं राजा धृतराष्ट्रॊ ऽमबिका सुतः ॥ 18 ॥
संजयं च महामात्रं कृपं चापि महारथम अनुनेतुम इहेच्छामि भवद्भिः पृथिवीपतिम ॥ 19 ॥
गलायते मे मनॊ हीदं मुखं च परिशुष्यति वयसा च परकृष्टेन वाग वयायामेन चैव हि ॥ 20 ॥
इत्य उक्त्वा स तु धर्मात्मा वृद्धॊ राजा कुरूद्वहः गान्धारीं शिश्रिये धीमान सहसैव गतासुवत ॥ 21 ॥
तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरु पार्थिवम आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा ॥ 22 ॥
[य] यस्य नागसहस्रेण दश संख्येन वै बलम सॊ ऽयं नारीम उपाश्रित्य शेते राजा गतासुवत ॥ 23 ॥
आयसी परतिमा येन भीमसेनस्य वै पुरा चूर्णीकृता बलवता सबलार्थी शरितः सत्रियम ॥ 24 ॥
धिग अस्तु माम अधर्मज्ञं धिग बुद्धिं धिक च मे शरुतम यत्कृते पृथिवीपालः शेते ऽयम अतथॊचितः ॥ 25 ॥
अहम अप्य उपवत्स्यामि यथैवायं गुरुर मम यदि राजा न भुङ्क्ते ऽयं गान्धारी च यशस्विनी ॥ 26 ॥
[वै] ततॊ ऽसय पाणिना राजा जलशीतेन पाण्डवः उरॊ मुखं च शनकैः पर्यमार्जत धर्मवित ॥ 27 ॥
तेन रत्नौषधिमता पुण्येनच सुगन्धिना पाणिस्पर्शेन राज्ञस तु राजा संज्ञाम अवाप ह ॥ 28 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 6
Reach this point to mark the section finished.
Continue to अध्याय 7