धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 5

  1. [धृ] विदितं भवताम एतद यथावृत्तः कुरु कषयः ममापराधात तत सर्वम इति जञेयं तु कौरवाः ॥ 1 ॥

  2. यॊ ऽहं दुष्टमतिं मूढं जञातीनां भयवर्धनम दुर्यॊधनं कौरवाणाम आधिपत्ये ऽभयषेचयम ॥ 2 ॥

  3. यच चाहं वासुदेवस्य वाक्यं नाश्रौषम अर्थवत वध्यतां साध्व अयं पापः सामात्य इति दुर्मतिः ॥ 3 ॥

  4. पुत्रस्नेहाभिभूतश च हितमुक्तॊ मनीषिभिः विदुरेणाथ भीष्मेण दरॊणेन च कृपेण च ॥ 4 ॥

  5. पदे पदे भगवता वयासेन च महात्मना संजयेनाथ गान्धार्या तद इदं तप्यते ऽदय माम ॥ 5 ॥

  6. यच चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु न दत्तवाञ शरियं दीप्तां पितृपैतामहीम इमाम ॥ 6 ॥

  7. विनाशं पश्यमानॊ हि सर्वराज्ञां गदाग्रजः एतच छरेयः स परमम अमन्यत जनार्दनः ॥ 7 ॥

  8. सॊ ऽहम एतान्य अलीकानि निवृत्तान्य आत्मनः सदा हृदये शल्य भूतानि धारयामि सहस्रशः ॥ 8 ॥

  9. विशेषतस तु दह्यामि वर्षं पञ्चदशं हि वै अस्य पापस्य शुद्ध्य अर्थं नियतॊ ऽसमि सुदुर्मतिः ॥ 9 ॥

  10. चतुर्थे नियते काले कदा चिद अपि चाष्टमे तृष्णा विनयनं भुञ्जे गान्धारी वेद तन मम ॥ 10 ॥

  11. करॊत्य आहारम इति मां सर्वः परिजनः सदा युधिष्ठिर भयाद वेत्ति भृशं तप्यति पाण्डवः ॥ 11 ॥

  12. भूमौ शये जप्यपरॊ दर्भेष्व अजिन संवृतः नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ 12 ॥

  13. हतं पुत्रशतं शूरं संग्रामेष्व अपलायिनम नानुतप्यामि तच चाहं कषत्रधर्मं हि तं विदुः इत्य उक्त्वा धर्मराजानम अभ्यभाषत कौरवः ॥ 13 ॥

  14. भद्रं ते यादवी मातर वाक्यं चेदं निबॊध मे सुखम अस्म्य उषितः पुत्र तवया सुपरिपालितः ॥ 14 ॥

  15. महादानानि दत्तानि शराद्धानि च पुनः पुनः परकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम गान्धारी हतपुत्रेयं धैर्येणॊदीक्षते च माम ॥ 15 ॥

  16. दरौपद्या हय अपकर्तारस तव चैश्वर्यहारिणः समतीता नृशंसास ते धर्मेण निहता युधि ॥ 16 ॥

  17. न तेषु परतिकर्तव्यं पश्यामि कुरुनन्दन सर्वे शस्त्रजिताँल लॊकान गतास ते ऽभिमुखं हताः ॥ 17 ॥

  18. आत्मनस तु हितं मुख्यं परतिकर्तव्यम अद्य मे गान्धार्याश चैव राजेन्द्र तदनुज्ञातुम अर्हसि ॥ 18 ॥

  19. तवं हि धर्मभृतां शरेष्ठः सततं धर्मवत्सलः राजा गुरुः पराणभृतां तस्माद एतद बरवीम्य अहम ॥ 19 ॥

  20. अनुज्ञातस तवया वीर संश्रयेयं वनान्य अहम चीरवल्कल भृद राजन गान्धार्या सहितॊ ऽनया तवाशिषः परयुञ्जानॊ भविष्यामि वनेचरः ॥ 20 ॥

  21. उचितं नः कुले तात सर्वेषां भरतर्षभ पुत्रेष्व ऐश्वर्यम आधाय वयसॊ ऽनते वनं नृप ॥ 21 ॥

  22. तत्राहं वायुभक्षॊ वा निराहारॊ ऽपि वा वसन पत्न्या सहानया वीर चरिष्यामि तपः परम ॥ 22 ॥

  23. तवं चापि फलभाक तात तपसः पार्थिवॊ हय असि फलभाजॊ हि राजानः कल्याणस्येतरस्य वा ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4