धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 4

  1. [वै] युधिष्ठिरस्य नृपतेर दुर्यॊधन पितुस तथा नान्तरं ददृशू राजन पुरुषाः परणयं परति ॥ 1 ॥

  2. यदा तु कौरवॊ राजा पुत्रं सस्मार बालिशम तदा भीमं हृदा राजन्न अपध्याति स पार्थिवः ॥ 2 ॥

  3. तथैव भीमसेनॊ ऽपि धृतराष्ट्रं जनाधिपम नामर्षयत राजेन्द्र सदैवातुष्टवद धृदा ॥ 3 ॥

  4. अप्रकाशान्य अप्रियाणि चकारास्य वृकॊदरः आज्ञां परत्यहरच चापि कृतकैः पुरुषैः सदा ॥ 4 ॥

  5. अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरॊत संश्रवे धृतराष्ट्रस्य गान्धार्याश चाप्य अमर्षणः ॥ 5 ॥

  6. समृत्वा दुर्यॊधनं शत्रुं कर्ण दुःशासनाव अपि परॊवाचाथ सुसंरब्धॊ भीमः स परुषं वचः ॥ 6 ॥

  7. अन्धस्य नृपतेः पुत्रा मया परिघबाहुना नीता लॊकम अमुं सर्वे नानाशस्त्रात्त जीविताः ॥ 7 ॥

  8. इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ ययॊर अन्तरम आसाद्य धार्तराष्ट्राः कषयं गताः ॥ 8 ॥

  9. ताव इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ याभ्यां दुर्यॊधनॊ नीतः कषयं ससुत बान्धवः ॥ 9 ॥

  10. एताश चान्याश च विविधाः शल्य भूता जनाधिपः वृकॊदरस्य ता वाचः शरुत्वा निर्वेदम आगमत ॥ 10 ॥

  11. सा च बुद्धिमती देवी कालपर्याय वेदिनी गान्धारी सर्वधर्मज्ञा तान्य अलीकानि शुश्रुवे ॥ 11 ॥

  12. ततः पञ्चदशे वर्षे समतीते नराधिपः राजा निर्वेदम आपेदे भीम वाग बाणपीडितः ॥ 12 ॥

  13. नान्वबुध्यत तद राजा कुन्तीपुत्रॊ युधिष्ठिरः शवेताश्वॊ वाथ कुन्ती वा दरौपदी व यशस्विनी ॥ 13 ॥

  14. माद्रीपुत्रौ च भीमस्य चित्तज्ञाव अन्वमॊदताम राज्ञस तु चित्तं रक्षन्तौ नॊचतुः किं चिद अप्रियम ॥ 14 ॥

  15. ततः समानयाम आस धृतराष्ट्रः सुहृज्जनम बाष्पसंदिग्धम अत्यर्थम इदम आह वचॊ भृशम ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3