धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 46

  1. [य] तथा महात्मनस तस्य तपस्य उग्रे च वर्ततः अनाथस्येव निधनं तिष्ठत्स्व अस्मासु बन्धुषु ॥ 1 ॥

  2. दुर्विज्ञेया हि गतयः पुरुषाणां मता मम यत्र वैचित्रवीर्यॊ ऽसौ दग्ध एवं दवाग्निना ॥ 2 ॥

  3. यस्य पुत्रशतं शरीमद अभवद बाहुशालिनः नागायुत बलॊ राजा स दग्धॊ हि दवाग्निना ॥ 3 ॥

  4. यं पुरा पर्यवीजन्त तालवृन्तैर वरस्त्रियः तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम ॥ 4 ॥

  5. सूतमागध संघैश च शयानॊ यः परबॊध्यते धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥ 5 ॥

  6. न तु शॊचामि गान्धारीं हतपुत्रां यशस्विनीम पतिलॊकम अनुप्राप्तां तथा भर्तृव्रते सथिताम ॥ 6 ॥

  7. पृथाम एव तु शॊचामि या पुत्रैश्वर्यम ऋद्धिमत उत्सृज्य सुमहद दीप्तं वनवासम अरॊचयत ॥ 7 ॥

  8. धिग राज्यम इदम अस्माकं धिग बलं धिक पराक्रमम कषत्रधर्मच धिग यस्मान मृता जीवामहे वयम ॥ 8 ॥

  9. सुसूक्ष्मा किल कालस्य गतिर दविज वरॊत्तम यत समुत्सृज्य राज्यं सा वनवासम अरॊचयत ॥ 9 ॥

  10. युधिष्ठिरस्य जननी भीमस्य विजयस्य च अनाथवत कथं दग्धा इति मुह्यामि चिन्तयन ॥ 10 ॥

  11. वृथा संतॊषितॊ वह्निः खाण्डवे सव्यसाचिना उपकारम अजानन स कृतघ्न इति मे मतिः ॥ 11 ॥

  12. यत्रादहत स भगवान मातरं सव्यसाचिनः कृत्वा यॊ बराह्मणच छद्म भिक्षार्थी समुपागतः धिग अग्निं धिक च पार्थस्य विश्रुतां सत्यसंधताम ॥ 12 ॥

  13. इदं कष्टतरं चान्यद भगवन परतिभाति मे वृथाग्निना समायॊगॊ यद अभूत पृथिवीपतेः ॥ 13 ॥

  14. तथा तपस्विनस तस्य राजर्षेः कौरवस्य ह कथम एवंविधॊ मृत्युः परशास्य पृथिवीम इमाम ॥ 14 ॥

  15. तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने वृथाग्निना समायुक्तॊ निष्ठां पराप्तः पिता मम ॥ 15 ॥

  16. मन्ये पृथा वेपमाना कृषा धमनि संतता हा तात धर्मराजेति समाक्रन्दन महाभये ॥ 16 ॥

  17. भीम पर्याप्नुहि भयाद इति चैवाभिवाशती समन्ततः परिक्षिप्ता माता मे ऽभूद दवाग्निना ॥ 17 ॥

  18. सहदेवः परियस तस्याः पुत्रेभ्यॊ ऽधिक एव तु न चैनां मॊक्षयाम आस वीरॊ माद्रवतीसुतः ॥ 18 ॥

  19. तच छरुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥ 19 ॥

  20. तेषां तु पुरुषेन्द्राणां रुदतां रुधित सवनः परासादाभॊग संरुद्धॊ अन्वरौत्सीत स रॊदसी ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 47

Previous: अध्याय 45