धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 3

  1. [वै] स राजा सुमहातेजा वृद्धः कुरुकुलॊद्वहः नापश्यत तदा किं चिद अप्रियं पाण्डुनन्दने ॥ 1 ॥

  2. वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु परीतिमान अभवद राजा धृतराष्ट्रॊ ऽमबिका सुतः ॥ 2 ॥

  3. सौबलेयी च गान्धारी पुत्रशॊकम अपास्य तम सदैव परीतिम अत्यासीत तनयेषु निजेष्व इव ॥ 3 ॥

  4. परियाण्य एव तु कौरव्यॊ नाप्रियाणि कुरूद्वह वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ॥ 4 ॥

  5. यद यद बरूते च किं चित सा धृतराष्ट्रॊ नराधिपः गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ॥ 5 ॥

  6. तत स राजा महाराज पाण्ण्डवानां धुरंधरः पूजयित्वा वचस तत तद अकार्षीत परवीरहा ॥ 6 ॥

  7. तेन तस्याभवत परीतॊ वृत्तेन स नराधिपः अन्वतप्यच च संस्मृत्य पुत्रं मन्दम अचेतसम ॥ 7 ॥

  8. सदा च परातर उत्थाय कृतजप्यः शुचिर नृपः आशास्ते पाण्डुपुत्राणां समरेष्व अपराजयम ॥ 8 ॥

  9. बराह्मणान वाचयित्वा च हुत्वा चैव हुताशनम आयुष्यं पाण्डुपुत्राणाम आशास्ते स नराधिपः ॥ 9 ॥

  10. न तां परीतिं मराम आप पुत्रेभ्यः स महीपतिः यां परीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥ 10 ॥

  11. बराह्मणानां च वृद्धानां कषत्रियाणां च भारत तथा विट शूद्र संघानाम अभवत सुप्रियस तदा ॥ 11 ॥

  12. यच च किं चित पुरा पापं धृतराष्ट्र सुतैः कृतम अकृत्वा हृदि तद राजा तं नृपं सॊ ऽनववर्तत ॥ 12 ॥

  13. यश च कश चिन नरः किं चिद अप्रियं चाम्बिका सुते कुरुते दवेष्यताम एति स कौन्तेयस्य धीमतः ॥ 13 ॥

  14. न राज्ञॊ धृतराष्ट्रस्य न च दुर्यॊधनस्य वै उवाच दुष्कृतं किं चिद युधिष्ठिर भयान नरः ॥ 14 ॥

  15. धृत्या तुष्टॊ नरेन्द्रस्य गान्धारी विदुरस तथा शौचेन चाजात शत्रॊर न तु भीमस्य शत्रुहन ॥ 15 ॥

  16. अन्ववर्तत भीमॊ ऽपि निष्टनन धर्मजं नृपम धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः ॥ 16 ॥

  17. राजानम अनुवर्तन्तं धर्मपुत्रं महामतिम अन्ववर्तत कौरव्यॊ हृदयेन पराङ्मुखः ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2