धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 39

  1. [वयास] भद्रे दरक्ष्यसि गान्धारि पुत्रान भरातॄन सखींस तथा वधूश च पतिभिः सार्धं निशि सुप्तॊत्थिता इव ॥ 1 ॥

  2. कर्णं दरक्ष्यति कुन्ती च सौभद्रं चापि यादवी दरौपदी पञ्च पुत्रांश च पितॄन भरातॄंस तथैव च ॥ 2 ॥

  3. पूर्वम एवैष हृदये वयवसायॊ ऽभवन मम यथास्मि चॊदितॊ राज्ञा भवत्या पृथयैव च ॥ 3 ॥

  4. न ते शॊच्या महात्मानः सर्व एव नरर्षभाः कषत्रधर्मपराः सन्तस तथा हि निधनं गताः ॥ 4 ॥

  5. भवितव्यम अवश्यं तत सुरकार्यम अनिन्दिते अवतेरुर ततः सर्वे देव भागैर महीतलम ॥ 5 ॥

  6. गन्धर्वाप्सरसश चैव पिशाचा गुह्य राक्षसाः तथा पुण्यजनाश चैव सिद्धा देवर्षयॊ ऽपि च ॥ 6 ॥

  7. देवाश च दानवाश चैव तथा बरह्मर्षयॊ ऽमलाः त एते निधनं पराप्ताः कुरुक्षेत्रे रणाजिरे ॥ 7 ॥

  8. गन्धर्वराजॊ यॊ धीमान धृतराष्ट्र इति शरुतः स एव मानुषे लॊके धृतराष्ट्रः पतिस तव ॥ 8 ॥

  9. पाण्डुं मरुद्गणं विद्धि विशिष्टतमम अच्युतम धर्मस्यांशॊ ऽभवत कषत्ता राजा चायं युधिष्ठिरः ॥ 9 ॥

  10. कलिं दुर्यॊधनं विद्धि शकुनिं दवापरं तथा दुःशासनादीन विद्धि तवं राक्षसाञ शुभदर्शने ॥ 10 ॥

  11. मरुद्गणाद भीमसेनं बलवन्तम अरिंदमम विद्धि च तव्वं नरम ऋषिम इमं पार्थं धनंजयम नारायणं हृषीकेशम अश्विनौ यमजाव उभौ ॥ 11 ॥

  12. दविधाकृत्वात्मनॊ देहम आदित्यं तपसा वरम लॊकांश च तापयानं वै विद्धि कर्णं च शॊभने यश च वैरार्थम उद्भूतः संघर्षजननस तथा ॥ 12 ॥

  13. यश च पाण्डव दायादॊ हतः षड्भिर महारथैः स सॊम इह सौभद्रॊ यॊगाद एवाभवद दविधा ॥ 13 ॥

  14. दरौपद्या सह संभूतं धृष्टद्युम्नं च पावकात अग्नेर भागं शुभं विद्धि राक्षसं तु शिखण्डिनम ॥ 14 ॥

  15. दरॊणं बृहस्पतेर भागं विद्धि दरौणिं च रुद्रजम भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम ॥ 15 ॥

  16. एवम एते महाप्राज्ञे देवा मानुष्यम एत्य हि ततः पुनर गताः सवर्गं कृते कर्मणि शॊभने ॥ 16 ॥

  17. यच च वॊ हृदि सर्वेषां दुःखम एनच चिरं सथितम तद अद्य वयपनेष्यामि परलॊककृताद भयात ॥ 17 ॥

  18. सर्वे भवन्तॊ गच्छन्तु नदीं भागीरथीं परथि तत्र दरक्ष्यथ तान सर्वान ये हतास्मिन रणाजिरे ॥ 18 ॥

  19. [वै] इति वयासस्य वचनं शरुत्वा सर्वे जनस तदा महता सिंहनादेन गङ्गाम अभिमुखॊ ययौ ॥ 19 ॥

  20. धृतराष्ट्रश च सामात्यः परययौ सह पाण्डवैः सहितॊ मुनिशार्दूलैर गन्धर्वैश च समागतैः ॥ 20 ॥

  21. ततॊ गङ्गां समासाद्य करमेण सजनार्णवः निवासम अकरॊत सार्वॊ यथाप्रीति यथासुखम ॥ 21 ॥

  22. राजा च पाण्डवैः सार्धम इष्टे देशे सहानुगः निवासम अकरॊद धीमान सस्त्री वृद्धपुरःसरः ॥ 22 ॥

  23. जगाम तद अहश चापि तेषां वर्षशतं यथा निशां परतीक्षमाणानां दिदृक्षूणां मृतान नृपान ॥ 23 ॥

  24. अथ पुण्यं गिरिवरम अस्तम अभ्यगमद रविः ततः कृताभिषेकास ते नैशं कर्म समाचरन ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 40

Previous: अध्याय 38