धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 40

  1. [वै] ततॊ निशायां पराप्तायां कृतसायाह्निक करियाः वयासम अभ्यगमन सर्वे ये तत्रासन समागताः ॥ 1 ॥

  2. धृतराष्ट्रस तु धर्मात्मा पाण्डवैः सहितस तदा शुचिर एकमनाः सार्धम ऋषिभिस तैर उपाविशत ॥ 2 ॥

  3. गान्धार्या सह नार्यस तु सहिताः समुपाविशन पौरजानपदश चापि जनः सार्वॊ यथा वयः ॥ 3 ॥

  4. ततॊ वयासॊ महातेजाः पुण्यं भागीरथी जलम अवगाह्याजुहावाथ सर्वाँल लॊकान महामुनिः ॥ 4 ॥

  5. पाण्डवानां च ये यॊधाः कौरवाणां च सर्वशः राजानश च महाभागा नानादेशनिवासिनः ॥ 5 ॥

  6. ततः सुतुमुलः शब्दॊ जनान्तर जनमेजय परादुरासीद यथापूर्वं कुरुपाण्डवसेनयॊः ॥ 6 ॥

  7. ततस ते पार्थिवाः सर्वे भीष्मद्रॊणपुरॊगमाः ससैन्याः सलिलात तस्मात समुत्तस्थुः सहस्रशः ॥ 7 ॥

  8. विराटद्रुपदौ चॊभौ सपुत्रौ सह सैनिकौ दरौपदेयाश च सौभद्रॊ राक्षसश च घटॊत्कचः ॥ 8 ॥

  9. कर्णदुर्यॊधनौ चॊभौ शकुनिश च महारथः दुःशासनादयश चैव धार्तराष्ट्रा महारथाः ॥ 9 ॥

  10. जारासंधिर भगदत्तॊ जलसंधश च पार्थिवः भूरिश्रवाः शलः शल्यॊ वृषसेनश च सानुजः ॥ 10 ॥

  11. लक्ष्मणॊ राजपुत्रश च धृष्टद्युम्नस्य चात्मजाः शिखण्डिपुत्राः सर्वे च धृष्टकेतुश च सानुजः ॥ 11 ॥

  12. अचलॊ वृषकश चैव राक्षसश चाप्य अलायुधः बाह्लीकः सॊमदत्तश च चेकितानश च पार्थिवः ॥ 12 ॥

  13. एते चान्ये च बहवॊ बहुत्वाद ये न कीर्तिताः सर्वे भासुरदेहास ते समुत्तस्थुर जलात ततः ॥ 13 ॥

  14. यस्य वीरस्य यॊ वेषॊ यॊ धवजॊ यच च वाहनम तेन तेन वयदृश्यन्त समुपेता नराधिपाः ॥ 14 ॥

  15. दिव्याम्बर धराः सर्वे सर्वे भराजिष्णु कुण्डलाः निर्वैरा निरहंकारा विगतक्रॊधमन्यवः ॥ 15 ॥

  16. गन्धर्वैर उपगीयन्तः सतूयमानाश च बन्दिभिः दिव्यमाल्याम्बरधरा वृताश चाप्सरसां गणैः ॥ 16 ॥

  17. धृतराष्ट्रस्य च तदा दिव्यं चक्षुर नराधिप मुनिः सत्यवती पुत्रः परीतः परादात तपॊबलात ॥ 17 ॥

  18. दिव्यज्ञानबलॊपेता गान्धारी च यशस्विनी ददर्श पुत्रांस तान सर्वान ये चान्ये ऽपि रणे हताः ॥ 18 ॥

  19. तद अद्भुतम अचिन्त्यं च सुमहद रॊमहर्षणम विस्मितः सजनः सर्वॊ ददर्शानिमिषेक्षणः ॥ 19 ॥

  20. तद उत्सव मदॊदग्रं हृष्टनारी नराकुलम ददृशे बलम आयान्तं चित्रं पटगतं यथा ॥ 20 ॥

  21. धृतराष्ट्रस तु तान सर्व्वान पश्यन दिव्येन चक्षुषा मुमुदे भरतश्रेष्ठ परसादात तस्य वै मुनेः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 41

Previous: अध्याय 39