[कुन्ती] भगवञ शवशुरॊ मे ऽसि दैवतस्यापि दैवतम सा मे देवातिदेवस तवां शृणु सत्यां गिरं मम ॥ 1 ॥
तपस्वी कॊपनॊ विप्रॊ दुर्वासा नाम मे पितुः भिक्षाम उपागतॊ भॊक्तुं तम अहं पर्यतॊषयम ॥ 2 ॥
शौचेन तव आगसस तयागैः शुद्धेन मनसा तथा कॊपस्थानेष्व अपि महत्स्व अकुप्यं न कदा चन ॥ 3 ॥
स मे वरम अदात परीतः कृतम इत्य अहम अब्रुवम अवश्यं ते गृहीतव्यम इति मां सॊ ऽबरवीद वचः ॥ 4 ॥
ततः शापभयाद विप्रम अवॊचं पुनर एव तम एवम अस्त्व इति च पराह पुनर एव स मां दविजः ॥ 5 ॥
धर्मस्य जननी भद्रे भवित्री तवं वरानने वशे सथास्यन्ति ते देवा यांस तवम आवाहयिष्यसि ॥ 6 ॥
इत्य उक्त्वान्तर हितॊ विप्रस ततॊ ऽहं विस्मिताभवम न च सार्वास्व अवस्थासु समृतिर मे विप्रणश्यति ॥ 7 ॥
अथ हर्म्यतलस्थाहं रविम उद्यन्तम ईक्षती संस्मृत्य तद ऋषेर वाक्यं सपृहयन्ती दिवाकरम सथिताहं बालभावेन तत्र दॊषम अबुध्यती ॥ 8 ॥
अथ देवः सहस्रांशुर मत्समीप गतॊ ऽभवत दविधाकृत्वात्मनॊ देहं भूमौ च गगने ऽपि च तताप लॊकान एकेन दवितीयेनागमच च माम ॥ 9 ॥
स माम उवाच वेपन्तीं वरं मत्तॊ वृणीष्व ह गम्यताम इति तं चाहं परणम्य शिरसावदम ॥ 10 ॥
स माम उवाच तिग्मांशुर वृथाह्वानं न ते कषमम धक्ष्यामि तवां च विप्रं च येन दत्तॊ वरस तव ॥ 11 ॥
तम अहं रक्षती विप्रं शापाद अनपराधिनम पुत्रॊ मे तवत्समॊ देव भवेद इति ततॊ ऽबरुवम ॥ 12 ॥
ततॊ मां तेजसाविश्य मॊहयित्वा च भानुमान उवाच भविता पुत्रस तवेत्य अभ्यगमद दिवम ॥ 13 ॥
ततॊ ऽहम अन्तर्भवने पितुर वृत्तान्तरक्षिणी गूढॊत्पन्नं सुतं बालं जले कर्णम अवासृजम ॥ 14 ॥
नूनं तस्यैव देवस्य परसादात पुनर एव तु कन्याहम अभवं विप्र यथा पराह स माम ऋषिः ॥ 15 ॥
स मया मूढया पुत्रॊ जञायमानॊ ऽपय उपेक्षितः तन मां दहति विप्रर्षे यथा सुविदितं तव ॥ 16 ॥
यदि पापम अपापं वा तद एतद विवृतं मया तन मे भयं तवं भगवन वयपनॊतुम इहार्हसि ॥ 17 ॥
यच चास्य राज्ञॊ विदितं हृदिस्थं भवतॊ ऽनघ तं चायं लभतां कामम अद्यैव मुनिसात्तम ॥ 18 ॥
इत्य उक्तः परत्युवाचेदं वयासॊ वेदविदां वरः साधु सर्वम इदं तथ्यम एवम एव यथात्थ माम ॥ 19 ॥
अपराधश च ते नास्ति कन्या भावं गता हय असि देवाश चैश्वर्यवन्तॊ वै शरीराण्य आविशन्ति वै ॥ 20 ॥
सन्ति देव निकायाश च संकल्पाञ जनयन्ति ये वाचा दृष्ट्या तथा सपर्शात संघर्षेणेति पञ्चधा ॥ 21 ॥
मनुष्यधर्मॊ दैवेन धर्मेण न हि युज्यते इति कुन्ति वयजानीहि वयेतु ते मानसॊ जवरः ॥ 22 ॥
सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि सर्वं बलवतां धर्मः सर्वं बलवतां सवकम ॥ 23 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 38
Reach this point to mark the section finished.
Continue to अध्याय 39