धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 37

  1. [वै] तच छरुत्वा विविधं तस्य राजर्षेः परिदेवितम पुनर नवीकृतः शॊकॊ गान्धार्या जनमेजय ॥ 1 ॥

  2. कुन्त्या दरुपदपुत्र्याश च सुभद्रायास तथैव च तासां च वर नारीणां वधूनां कौरवस्य ह ॥ 2 ॥

  3. पुत्रशॊकसमाविष्टा गान्धारी तव इदम अब्रवीत शवशुरं बद्धनयना देवी पराञ्जलिर उत्थिता ॥ 3 ॥

  4. षॊडषेमानि वर्षाणि गतानि मुनिपुंगव अस्य राज्ञॊ हतान पुत्राञ शॊचतॊ न शमॊ विभॊ ॥ 4 ॥

  5. पुत्रशॊकसमाविष्टॊ निःश्वसन हय एष भूमिपः न शेते वसतीः सर्वा धृतराष्ट्रॊ महामुने ॥ 5 ॥

  6. लॊकान अन्यान समर्थॊ ऽसि सरष्टुं सर्वांस तपॊबलात किम उ लॊकान्तर गतान राज्ञॊ दर्शयितुं सुतान ॥ 6 ॥

  7. इयं च दरौपदी कृष्णा हतज्ञाति सुता भृशम शॊचात्य अतीव साध्वी ते सनुषाणां दयिता सनुषा ॥ 7 ॥

  8. तथा कृष्णस्य भगिनी सुभद्रा भद्र भाषिणी सौभद्र वधसंतप्ता भृशं शॊचति भामिनी ॥ 8 ॥

  9. इयं च भूरि शवरसॊ भार्या परमदुःखिता भर्तृव्यसनशॊकार्ता न शेते वसतीः परभॊ ॥ 9 ॥

  10. यस्यास तु शवशुरॊ धीमान बाह्लीकः स कुरूद्वहः निहतः सॊमदत्तश च पित्रा सह महारणे ॥ 10 ॥

  11. शरीमच चास्य महाबुद्धेः संग्ग्रामेष्व अपलायिनः पुत्रस्य ते पुत्रशतं निहातं यद रणाजिरे ॥ 11 ॥

  12. तस्य भार्या शतम इदं पुत्रशॊकसमाहतम पुनः पुनर वर्धयानं शॊकं राज्ञॊ ममैव च तेनारम्भेण महता माम उपास्ते महामुने ॥ 12 ॥

  13. ये च शूरा महात्मानः शवशुरा मे महारथाः सॊमदत्तप्रभृतयः का नु तेषां गतिः परभॊ ॥ 13 ॥

  14. तव परसादाद भगवान विशॊकॊ ऽयं महीपतिः कुर्यात कालम अहं चैव कुन्ती चेयं वधूस तव ॥ 14 ॥

  15. इत्य उक्तवत्यां गान्धार्यां कुन्ती वरतकृषानना परच्छन्नजातं पुत्रं तं सस्मारादित्य संभवम ॥ 15 ॥

  16. ताम ऋषिर वरदॊ वयासॊ दूरश्रवण दर्शनः अपश्यद दुःखितां देवीं मातरं सव्यसाचिनः ॥ 16 ॥

  17. ताम उवाच ततॊ वयासॊ यत ते कार्यं विवक्षितम तद बरूहि तवं महाप्राज्ञे यत ते मनसि वर्तते ॥ 17 ॥

  18. ततः कुन्ती शवशुरयॊः परणम्य शिरसा तदा उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 38

Previous: अध्याय 36