धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 36

  1. [ज] वनवासं गते विप्र धृतराष्ट्रे महीपतौ सभार्ये नृपशार्दूल वध्वा कुन्त्या समन्विते ॥ 1 ॥

  2. विदुरे चापि संसिद्धे धर्मराजं वयपाश्रिते वसत्सु पाण्डुपुत्रेषु सर्वेष्व आश्रममण्डले ॥ 2 ॥

  3. यत तद अश्चर्यम इति वै कारिष्यांमीत्य उवाच ह वयासः परमतेज्जस्वी महर्षिस तद वदस्व मे ॥ 3 ॥

  4. वनवासे च कौरव्यः कियन्तं कालम अच्युतः युधिष्ठिरॊ नरपतिर नयवसत साजनॊ दविज ॥ 4 ॥

  5. किमाहाराश च ते तत्र ससैन्या नयवसन परभॊ सान्तःपुरा महात्मान इति तद बरूहि मे ऽनघ ॥ 5 ॥

  6. [वै] ते ऽनुज्ञातास तदा राजन कुरुराजेन पाण्डवाः विविधान्य अन्नपानानि विश्राम्यानुभवन्ति ते ॥ 6 ॥

  7. मासम एकं विजह्रुस ते ससैन्यान्तःपुरा वने अथ तत्रागमद वयासॊ यथॊक्तं ते मयानघ ॥ 7 ॥

  8. तथा तु तेषां सर्वेषां कथाभिर नृपसंनिधौ वयासम अन्वासतां राजन्न आजग्मुर मुनयॊ ऽपरे ॥ 8 ॥

  9. नारदाः पर्वतश चैव देवलश च महातपाः विश्वावसुस तुम्बुरुश च चित्रसेनश च भारत ॥ 9 ॥

  10. तेषाम अपि यथान्यायं पूजां चक्रे महामनाः धृतराष्ट्राभ्यनुज्ञातः कुरुराजॊ युधिष्ठिरः ॥ 10 ॥

  11. निषेदुस ते ततः सर्वे पूजां पराप्य युधिष्ठिरात आसनेष्व अथ पुण्येषु बर्हिष्केषु वरेषु च ॥ 11 ॥

  12. तेषु तत्रॊपविष्टेषु स तु राजा महामतिः पाण्डुपुत्रैः परिवृतॊ निषसादा कुरूद्वहः ॥ 12 ॥

  13. गान्धारी चैव्व कुन्ती च दरौपदी सात्वती तथा सत्रियश चान्यास तथान्याभिः सहॊपविविशुस ततः ॥ 13 ॥

  14. तेषां तत्र कथा दिव्या धर्मिष्ठाश चाभवन नृप ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥ 14 ॥

  15. ततः कथान्ते वयासस तं परज्ञा चक्षुषम ईश्वरम परॊवाच वदतां शरेष्ठः पुनर एव स तद वचः परीयमाणॊ महातेजाः सर्ववेदविदां वरः ॥ 15 ॥

  16. विदितं मम राजेन्द्द्र यत ते हृदि विवक्षितम दह्यमानस्य शॊकेन तव पुत्रकृतेन वै ॥ 16 ॥

  17. गान्धार्याश चैव यद दुःखं हृदि तिष्ठति पार्थिव कुन्त्याश च यन महाराज दरौपद्याश च हृदि सथितम ॥ 17 ॥

  18. यच च धारयते तीव्रं दुःखं पुत्रा विनाशजाम सुभद्रा कृष्ण भगिनी तच चापि विदितं मम ॥ 18 ॥

  19. शरुत्वा समागमम इमं सर्वेषां वस ततॊ नृप संशय छेदनायाहं पराप्तः कौरवनन्दन ॥ 19 ॥

  20. इमे च देवगन्धर्वाः सर्वे चैव महर्षयः पश्यन्तु तपसॊ वीर्यम अद्य मे चिरसंभृतम ॥ 20 ॥

  21. तद उच्यतां महाबाहॊ कं कामं परदिशामि ते परवणॊ ऽसमि वरं दातुं पश्यं मे तपसॊ बलम ॥ 21 ॥

  22. एवम उक्तः स राजेन्द्रॊ वयासेनामित बुद्धिना मुहूर्तम इव संच्चिन्त्य वचनायॊपचक्रमे ॥ 22 ॥

  23. धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि सफलं जीवितं च मे यन मे समगमॊ ऽदयेह भवद्भिः सह साधुभि ॥ 23 ॥

  24. अद्य चाप्य अवगच्छामि गतिम इष्टाम इहात्मनः भवद्भिर बरह्मकल्पैर यत समेतॊ ऽहं तपॊधनाः ॥ 24 ॥

  25. दर्शनाद एव भवतां पूतॊऽहं नात्र संशयः विद्यते न भयं चापि परलॊकान ममानघाः ॥ 25 ॥

  26. किं तु तस्य सुदुर्बुद्धेर मन्दस्यापनयैर भृषम दूयते मे मनॊ नित्यं समरतः पुत्रगृद्धिनः ॥ 26 ॥

  27. अपापाः पाण्डवा येन निकृताः पापबुद्धिना घातिता पृथिवी चेयं सहसा सनर दविपा ॥ 27 ॥

  28. राजानश च महात्मानॊ नानाजनपदेश्वराः आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥ 28 ॥

  29. ये ते पुत्रांश च दारांश च पराणांश च मनसः परियान परित्यज्य गताः शूराः परेतराजनिवेशनम ॥ 29 ॥

  30. का नु तेषां गतिर बरह्मन मित्रार्थे ये हता मृधे तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ 30 ॥

  31. दूयते मे मनॊ ऽभीक्ष्णं घातयित्वा महाबलम भीष्मं शांतनवं वृद्धं दरॊणं च दविजसत्तमम ॥ 31 ॥

  32. मम पुत्रेण मूढेन पापेन सुहृद दविषा कषयं नीतं कुलं दीप्तं पृथिवी राज्यम इच्छता ॥ 32 ॥

  33. एतत सर्वम अनुस्मृत्य दह्यमानॊ दिवानिशम न शान्तिम अधिगच्छामि दुःखशॊकसमाहतः इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 37

Previous: अध्याय 35