[वै] तथा समुपविष्टेषु पाण्डवेषु महात्मसु वयासः सत्यवती पुत्रः परॊवाचामन्त्र्य पार्थिवम ॥ 1 ॥
धृतराष्ट्र महाबाहॊ कच चित ते वर्धते तपः कच चिन मनस ते परीणानि वनवासे नराधिप ॥ 2 ॥
कच्चिद धृदि न ते शॊकॊ राजान पुत्र विनाशजः कच्च चिज जञानानि सर्वाणि परसन्नानि तवानघ ॥ 3 ॥
कच चिद बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम कच्च चिद वधूश च गान्धारी न शॊकेनाभिभूयते ॥ 4 ॥
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी आगमापाय तत्त्वज्ञा कच चिद एषा न शॊचति ॥ 5 ॥
कच चित कुन्ती च राजंस तवां शुश्रूषुर अनहंकृता या परित्यज्य राज्यं सवं गुरुशुश्रूषणे रता ॥ 6 ॥
कच चिद धर्मसुतॊ राजा तवया परीत्याभिनन्दितः भीमार्जुनयमाश चैव कच चिद एते ऽपि सान्त्विताः ॥ 7 ॥
कच चिन नन्दसि दृष्ट्वैतान कच चित ते निर्मलं मनः कच चिद विशुद्धभावॊ ऽसि जातज्ञानॊ नराधिप ॥ 8 ॥
एतद धि तरितयं शरेष्ठं सर्वभूतेषु भारत निर्वैरता महाराज सत्यम अद्रॊह एव च ॥ 9 ॥
कच चित ते नानुतापॊ ऽसति वनवासेन भारत सवदते वन्यम अन्नं वा मुनिवासांसि वा विभॊ ॥ 10 ॥
विदितं चापि मे राजन विदुरस्य महात्मनः गमनं विधिना येन धर्मस्य सुमहात्मनः ॥ 11 ॥
माण्डव्य शापाद धि स वै धर्मॊ विदुरतां गतः महाबुद्धिर महायॊगी महात्मा सुमहामनाः ॥ 12 ॥
बृहस्पतिर वा देवेषु शुक्रॊ वाप्य असुरेषु यः न तथा बुद्धिसंपन्नॊ यथा स पुरुषर्षभः ॥ 13 ॥
तपॊबलव्ययं कृत्वा सुमहच चिरसंभृतम माण्डव्येनर्षिणा धर्मॊ हय अभिभूतः सनातनः ॥ 14 ॥
नियॊगाद बरह्मणः पूर्वं मया सवेन बलेन च वैचित्र वीर्यके कषेत्रे जातः स सुमहामतिः ॥ 15 ॥
भराता तव महाराज देवदेवः सनातनः धारणाच छरेयसॊ धयानाद यं धर्मं कवयॊ विदुः ॥ 16 ॥
सत्येन संवर्धयति दमेन नियमेन च अहिंसया च दानेन तपसा च सनातनः ॥ 17 ॥
येन यॊगबलाज जातः कुरुराजॊ युधिष्ठिरः धर्म इत्य एष नृपते पराज्ञेनामित बुद्धिना ॥ 18 ॥
यथा हय अग्निर यथा वायुर यथापः पृथिवी यथा यथाकाशं तथा धर्म इह चामुत्र च सथितः ॥ 19 ॥
सर्वगश चैव कौरव्य सर्वं वयाप्य चराचरम दृश्यते देवदेवः स सिद्धैर निर्दग्धकिल्बिषैः ॥ 20 ॥
यॊ हि धर्मः स विदुरॊ विदुरॊ यः स पाण्डवः स एष राजन वश्यस ते पाण्डवः परेष्यवत सथितः ॥ 21 ॥
परविष्टः स सवम आत्मानं भराता ते बुद्धिसत्तमः दिष्ट्या महात्मा कौन्तेयं महायॊगबलान्वितः ॥ 22 ॥
तवां चापि शरेयसा यॊक्ष्ये नचिराद भरतर्षभ संशयच छेदनार्थं हि पराप्तं मां विद्धि पुत्रक ॥ 23 ॥
न कृतं यत पुरा कैश चित कर्म लॊके महर्षिभिः आश्चर्यभूतं तपसः फलं संदर्शयामि वः ॥ 24 ॥
किम इच्छसि महीपाल मत्तः पराप्तुम अमानुषम दरष्टुं सप्रष्टुम अथ शरॊतुं वद कर्तास्मि तत तथा ॥ 25 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 35
Reach this point to mark the section finished.
Continue to अध्याय 36