[वै] स तैः सह नरव्याघ्रैर भरातृभिर भरतर्षभ राजा रुचिरपद्माक्षैर आसां चक्रे तदाश्रमे ॥ 1 ॥
तापसैश च महाभागैर नानादेशसमागतैः दरष्टुं कुरुपतेः पुत्रान पाण्डवान पृथुवक्षसः ॥ 2 ॥
ते ऽबरुवञ जञातुम इच्छामः कतमॊ ऽतर युधिष्ठिरः भिमार्जुन यमाश चैव दरौपदी च यशस्विनी ॥ 3 ॥
तान आचख्यौ तदा सूतः सर्वान नामाभिनामतः संजयॊ दरौपदीं चैव सर्वाश चान्याः कुरु सत्रियः ॥ 4 ॥
य एष जाम्बूनदशुद्ध गौर; तनुर महासिंह इव परवृद्धः परचण्ड घॊणः पृथु दीर्घनेत्रस; ताम्रायतास्यः कुरुराज एषः ॥ 5 ॥
अयं पुनर मत्तगजेन्द्र गामी; परतप्तचामीकरशुद्धगौरः पृथ्व आयतांसः पृथु दीर्घबाहुर; वृकॊदरः पश्यत पश्यतैनम ॥ 6 ॥
यस तव एष पार्श्वे ऽसय महाधनुष्माञ; शयामॊ युवा वारणयूथपाभः सिंहॊन्नतांसॊ गजखेल गामी; पद्मायताक्षॊ ऽरजुन एष वीरः ॥ 7 ॥
कुन्ती समीपे पुरुषॊत्तमौ तु; यमाव इमौ विष्णुमहेन्द्र कल्पौ मनुष्यलॊके सकले समॊ ऽसति; ययॊर न रूपे न बले न शीले ॥ 8 ॥
इयं पुनः पद्मदलायताक्षी; मध्यं वयः किं चिद इव सपृशन्ती नीलॊत्पलाभा पुरदेवतेव; कृष्णा सथिता मूर्तिमतीव लक्ष्मीः ॥ 9 ॥
अस्यास तु पार्श्वे कनकॊत्तमाभा; यैषा परभा मूर्तिमतीव गौरी मध्ये सथितैषा भगिनी दविजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य ॥ 10 ॥
इयं सवसा राजचमू पतेस तु; परवृद्धनीलॊत्पल दाम वर्णा पस्पर्ध कृष्णेन नृपः सदा यॊ; वृकॊदरस्यैष परिग्ग्रहॊ ऽगर्यः ॥ 11 ॥
इयं च राज्ञॊ मगधाधिपस्य; सुता जरासंध इति शरुतस्य यवीयसॊ माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी ॥ 12 ॥
इन्दीवरश्याम तनुः सथिता तु; यैषापरासन्न महीतले च भार्या मता माद्रवतीसुतस्य; जयेष्ठस्य सेयं कमलायताक्षी ॥ 13 ॥
इयं तु निष्टप्त सुवर्णगौरी; राज्ञॊ विराटस्य सुता सपुत्रा भार्याभिमन्यॊर निहतॊ रणे यॊ; दरॊणादिभिस तैर विरथॊ रथस्थैः ॥ 14 ॥
एतास तु सीमन्त शिरॊरुहा या; शुक्लॊत्तरीया नरराज पत्न्यः राज्ञॊ ऽसय वृद्धस्य परं शताख्याः; सनुषा विवीरा हतपुत्र नाथाः ॥ 15 ॥
एता यथामुख्यम उदाहृता वॊ; बराह्मण्य भावाद ऋजु बुद्धिसत्त्वाः सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥ 16 ॥
एवं स राजा कुरुवृद्ध वर्यः; समागतस तैर नरदेव पुत्रैः पप्रच्छ सर्वान कुशलं तदानीं; गतेषु सर्वेष्व अथ तापसेषु ॥ 17 ॥
यॊधेषु चाप्य आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम सत्री वृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत ॥ 18 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 32
Reach this point to mark the section finished.
Continue to अध्याय 33