धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 31

  1. [वै] ततस ते पाण्डवा दूराद अवतीर्य पदातयः अभिजग्मुर नरपतेर आश्रमं विनयानताः ॥ 1 ॥

  2. स च पौरजनः सर्वॊ ये च राष्ट्रनिवासिनः सत्रियश च कुरुमुख्यानां पद्भिर एवान्वयुस तदा ॥ 2 ॥

  3. आश्रमं ते ततॊ जग्मुर धृतराष्ट्रस्य पाण्डवाः शून्यं मृगगणाकीर्णं कदली वनशॊभितम ॥ 3 ॥

  4. ततस तत्र समाजग्मुस तापसा विविधव्रताः पाण्डवान आगतान दरष्टुं कौतूहलसमन्विताः ॥ 4 ॥

  5. तान अपृच्छत ततॊ राजा कवासौ कौरव वंशभृत पिता जयेष्ठॊ गतॊ ऽसमाकम इति बाष्पपरिप्लुतः ॥ 5 ॥

  6. तम ऊचुस ते ततॊ वाक्यं यमुनाम अवगाहितुम पुष्पाणाम उदकुम्भस्य चार्थे गत इति परभॊ ॥ 6 ॥

  7. तैर आख्यातेन मार्गेण ततस ते परययुस तदा ददृशुश चाविदूरे तान सर्वान अथ पदातयः ॥ 7 ॥

  8. ततस ते सत्वरा जग्मुः पितुर दर्शनकाङ्क्षिणः सहदेवस तु वेगेन पराधाव्वद येन सा पृथा ॥ 8 ॥

  9. सस्वनं पररुदन धीमान मातुः पादाव उपस्पृशन सा च बाष्पाविल मुखी परददर्श परियं सुतम ॥ 9 ॥

  10. बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम गान्धार्याः कथयाम आस सहदेवम उपस्थितम ॥ 10 ॥

  11. अनन्तरं च राजानं भीमसेनम अथार्जुनम नकुलं च पृथा दृष्ट्वा तवरमाणॊपचक्रमे ॥ 11 ॥

  12. सा हय अग्रे ऽगच्छत तयॊर दम्पत्यॊर हतपुत्रयॊः कर्षन्ती तौ ततस ते तां दृष्ट्वा संन्यपतन भुवि ॥ 12 ॥

  13. तान राजा सवरयॊगेन सपर्शेन च महामनाः परत्यभिज्ञाय मेधावी समाश्वासायत परभुः ॥ 13 ॥

  14. ततस ते बाष्पम उत्सृज्य गान्धारी सहितं नृपम उपतस्थुर महात्मानॊ मतरं च यथाविधि ॥ 14 ॥

  15. सर्वेषां तॊयकलशाञ जघृहुस ते सवयं तदा पाण्डवा लब्धसंज्ञास ते मात्रा चाश्वासिताः पुनः ॥ 15 ॥

  16. ततॊ नार्यॊ नृसिंहानां स च यॊधजनस तदा पौरजानपदाश चैव ददृशुस तं नराधिपम ॥ 16 ॥

  17. निवेदयाम आस तदा जनं तं नामगॊत्रतः युधिष्ठिरॊ नरपतिः स चैनान परत्यपूजयत ॥ 17 ॥

  18. स तैः परिवृतॊ मेने हर्षबाष्पाविलेक्षणः राजात्मानं गृहगतं पुरेव गजसाह्वये ॥ 18 ॥

  19. अभिवादितॊ वधूभिश च कृष्णाद्याभिः स पार्थिवः गान्धार्या सहितॊ धीमान कुन्त्या च परत्यनन्दत ॥ 19 ॥

  20. ततश चाश्रमम आगच्छत सिद्धचारणसेवितम दिदृक्षुभिः समाकीर्णं नभस तारागणैर इव ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 32

Previous: अध्याय 30