[वै] आज्ञापयाम आस ततः सेनां भरतसत्तमः अर्जुन परमुखैर गुप्तां लॊकपालॊपमैर नरैः ॥ 1 ॥
यॊगॊ यॊग इति परीत्या ततः शब्दॊ महान अभूत करॊशतां सादिनां तत्र युज्यतां युज्यताम इति ॥ 2 ॥
के चिद यानैर नरा जग्मुः के चिद अश्वैर मनॊजवैः रथैश च नगराकारैः परदीप्तज्वलनॊपमैः ॥ 3 ॥
गजेन्द्रैश च तथैवान्ये के चिद उष्ट्रैर नराधिप पदातिनस तथैवान्ये नखरप्रासयॊधिनः ॥ 4 ॥
पौरजानपदाश चैव यानैर बहुविधैस तथा अन्वयुः कुरुराजानं धृतराष्ट्र दिदृक्षया ॥ 5 ॥
स चापि राजवचनाम आचार्यॊ गौतमः कृपः सेनाम आदाय सेनानी परययाव आश्रमं परति ॥ 6 ॥
ततॊ दविजैर वृतः शरीमान कुरुराजॊ युधिष्ठिरः संस्तूयमानॊ बहुभिः सूतमागधबन्दिभिः ॥ 7 ॥
पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि रथानीकेन महता निर्ययौ कुरुनन्दनः ॥ 8 ॥
गजैश चाचलसंकाशैर भीमकर्मा वृकॊदरः सज्जयन्त्रायुधॊपेतैः परययौ मारुतात्मजः ॥ 9 ॥
माद्रीपुत्राव अपि तथा हयारॊहैः सुसंवृतौ जग्मतुः परीतिजननौ संनद्ध कवचध्वजौ ॥ 10 ॥
अर्जुनश च महातेजा रथेनादित्यवर्चसा वशीश्वेतैर हयैर दिव्यैर युक्तेनान्वगमन नृपम ॥ 11 ॥
दरौपदी परमुखाश चापि सत्री संग्घाः शिबिका गताः सत्र्यध्यक्षयुक्ताः परययुर विसृजन्तॊ ऽमितं वसु ॥ 12 ॥
समृद्धनरनागाश्वं वेणुवीणा निनादितम शुशुभे पाण्डवं सैन्यं तत तदा भरतर्षभ ॥ 13 ॥
नदीतीरेषु रम्येषु सरत्सु च विशां पते वासान कृत्वा करमेणाथ जग्मुस ते कुरुपुंगवाः ॥ 14 ॥
युयुत्सुश च महातेजा धौम्यश चैव पुरॊहितः युधिष्ठिरस्य वचनात पुरगुप्तिं परचक्रतुः ॥ 15 ॥
ततॊ युधिष्ठिरॊ राजा कुरुक्षेत्रम अवातरत करमेणॊत्तीर्य यमुनां नदीं परमपावनीम ॥ 16 ॥
स ददर्शाश्रमं दूराद राजर्षेस तस्य धीमतः शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ 17 ॥
ततः परमुदितः सर्वॊ जनस तद वनम अञ्जसा विवेश सुमहानादैर आपूर्य भरतर्षभ ॥ 18 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 30
Reach this point to mark the section finished.
Continue to अध्याय 31