[वै] एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः समरन्तॊ मातरं वीरा बभूवुर भृशदुःखिताः ॥ 1 ॥
ये राजकार्येषु पुरा वयासक्ता नित्यशॊ ऽभवन ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ 2 ॥
आविष्टा इव शॊकेन नाभ्यनन्दन्त किं चन संभाष्यमाणा अपि ते न किं चित परत्यपूजयन ॥ 3 ॥
ते सम वीरा दुराधर्षा गाम्भीर्ये सागरॊपमाः शॊकॊपहतविज्ञाना नष्टसांज्ञा इवाभवन ॥ 4 ॥
अनुस्मरन्तॊ जननीं ततस ते कुरुनन्दनाः कथं नु वृद्धमिथुनं वहत्य अद्य पृथा कृशा ॥ 5 ॥
कथं च स महीपालॊ हतपुत्रॊ निराश्रयः पत्न्या सह वसत्य एकॊ वने शवापद सेविते ॥ 6 ॥
सा च देवी महाभागा गान्धारी हतबान्धवा पतिम अन्धं कथं वृद्धम अन्वेति विजने वने ॥ 7 ॥
एवं तेषां कथयताम औत्सुक्यम अभवत तदा गमने चाभवद बुद्धिर धृतराष्ट्र दिदृक्षया ॥ 8 ॥
सहदेवास तु राजानं परणिपत्येदम अब्रवीत अहॊ मे भवतॊ दृष्टं हृदयंगमनं परति ॥ 9 ॥
न हि तवा गौरवेणाहम अशकं वक्तुम आत्मना गमनं परति राजेन्द्र तद इदं समुपस्थितम ॥ 10 ॥
दिष्ट्या दरक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम ॥ 11 ॥
परासादहर्म्य संवृद्धाम अत्यन्तसुखभागिनीम कदा नु जननीं शरान्तां दरक्ष्यामि भृशदुःखिताम ॥ 12 ॥
अनित्याः खलु मर्त्यानां गतयॊ भरतर्षभ कुन्ती राजसुता यत्र वसत्य असुखिनी वने ॥ 13 ॥
सहदेव वचः शरुत्वा दरौपदी यॊषितां वरा उवाच देवी राजानम अभिपूज्याभिनन्द्य च ॥ 14 ॥
कदा दरक्ष्यामि तां देवीं यदि जीवति सा पृथा जीवन्त्या हय अद्य नः परीतिर भविष्यति नराधिप ॥ 15 ॥
एषा ते ऽसतु मतिर नित्यं धर्मे ते रमतां मनः यॊ ऽदय तवम अस्मान राजेन्द्र शरेयसा यॊजयिष्यसि ॥ 16 ॥
अग्रपादस्थितं चेमं विद्धि राजन वधू जनम काङ्क्षन्तं दर्शनां कुन्त्या गान्धार्याः शवशुरस्य च ॥ 17 ॥
इत्य उक्तः सा नृपॊ देव्या पाञ्चाल्या भरतर्षभ सेनाध्यक्षान समानाय्य सर्वान इदम अथाब्रवीत ॥ 18 ॥
निर्यातयत मे सेनां परभूतरथकुञ्जराम दरक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम ॥ 19 ॥
सत्र्यध्यक्षांश चाब्रवीद राजा यानानि विविधानि मे सज्जीक्रियन्तां सर्वाणि शिबिकाश च सहस्रशः ॥ 20 ॥
शकटापण वेशाश च कॊशशिल्पिन एव च निर्यान्तु कॊपपालाश च कुरुक्षेत्राश्रमं परति ॥ 21 ॥
यश च पौरजनः कश चिद दरष्टुम इच्छति पार्थिवम अनावृतः सुविहितः स च यातु सुरक्षितः ॥ 22 ॥
सूदाः पौरॊगवश चैव सर्वं चैव महानम विविधं भक्ष्यभॊज्यं च शकटैर उह्यतां मम ॥ 23 ॥
परयाणं घुष्यतां चैव शवॊभूत इति माचिरम करियन्तां पथि चाप्य अद्य वेश्मानि विविधानि च ॥ 24 ॥
एवम आज्ञाप्य राजा स भरातृभिः सह पाण्डवः शवॊभूते निर्ययौ राजा सस्त्री बाल पुरस्कृतः ॥ 25 ॥
स बहिर दिवसान एवं जनौघं परिपालयन नयवसन नृपतिः पञ्च ततॊ ऽगच्छद वनं परति ॥ 26 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30