[वै] एवं संपूजितॊ राजा पाण्डवैर अम्बिका सुतः विजहार यथापूर्वम ऋषिभिः पर्युपासितः ॥ 1 ॥
बरह्म देयाग्र हारांश च परददौ स कुरूद्वहः तच च कुन्तीसुतॊ राजा सर्वम एवान्वमॊदत ॥ 2 ॥
आनृशंस्य परॊ राजा परीयमाणॊ युधिष्ठिरः उवाच स तदा भरातॄन अमात्यांश च महीपतिः ॥ 3 ॥
मया चैव भवद्भिश च मान्य एष नराधिपः निदेशे धृतराष्ट्रस्य यः सथास्यति स मे सुहृत विपरीतश च मे शत्रुर निरस्यश च भवेन नरः ॥ 4 ॥
परिदृष्टेषु चाहःसु पुत्राणां शराद्धकर्मणि ददातु राजा सर्वेषां यावद अस्य चिकीर्षितम ॥ 5 ॥
ततः स राजा कौरव्यॊ धृतराष्ट्रॊ महामनाः बराह्मणेभ्यॊ महार्हेभ्यॊ ददौ वित्तान्य अनेकशः ॥ 6 ॥
धर्मराजश च भीमश च सव्यसाची यमाव अपि तत सर्वम अन्ववर्तन्त धृतराष्ट्र वयपेक्षया ॥ 7 ॥
कथं नु राजा वृद्धः सन पुत्रशॊकसमाहतः शॊकम अस्मत कृतं पराप्य न मरियेतेति चिन्त्यते ॥ 8 ॥
यावद धि कुरुमुख्यस्य जीवत पुत्रस्य वै सुखम बभूव तद अवाप्नॊतु भॊगांश चेति वयवस्थिताः ॥ 9 ॥
ततस ते सहिताः सर्वे भरातरः पञ्च पाण्डवाः तथा शीलाः समातस्थुर धृतराष्ट्रस्य शासने ॥ 10 ॥
धृतराष्ट्रश च तान वीरान विनीतान विनये सथितान शिष्यवृत्तौ सथितान नित्यं गुरुवत पर्यपश्यत ॥ 11 ॥
गान्धारी चैव पुत्राणां विविधैः शराद्धकर्मभिः आनृष्यम अगमत कामान विप्रेभ्यः परतिपाद्य वै ॥ 12 ॥
एवं धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः भरातृभिः सहितॊ धीमान पूजयाम आस तं नृपम ॥ 13 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3