[वै] वनं गते कौरवेन्द्रे दुःखशॊकसमाहताः बभूवुः पाण्डवा राजन मातृशॊकेन चार्दिताः ॥ 1 ॥
तथा पौरजनः सर्वः शॊचन्न आस्ते जनाधिपम कुर्वाणाश च कथास तत्र बराह्मणा नृपतिं परति ॥ 2 ॥
कथं नु राजा वृद्धः स वने वसति निर्जने गान्धारी च महाभागा सा च कुन्ती पृथा कथम ॥ 3 ॥
सुखार्हः स हि राजर्षिर न सुखं तन महावनम किम अवस्थः समासाद्य परज्ञा चक्षुर हतात्मजः ॥ 4 ॥
सुदुष्करं कृतवती कुन्तीपुत्रान अपश्यती राज्यश्रियं परित्यज्य वनवासम अरॊचयत ॥ 5 ॥
विदुरः किम अवस्थश च भरातुः शुश्रूषुर आत्मवान स च गावल्गणिर धीमान भर्तृपिण्डानुपालकः ॥ 6 ॥
आकुमारं च पौरास ते चिन्ताशॊकसमाहताः तत्र तत्र कथाश चक्रुः समासाद्य परस्परम ॥ 7 ॥
पाण्डवाश चैव ते सर्वे भृशं शॊकपरायणाः शॊचन्तॊ मातरं वृद्धाम ऊषुर नातिचिरं पुरे ॥ 8 ॥
तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम गान्धारीं च महाभागां विदुरं च महामतिम ॥ 9 ॥
नैषां बभूव संप्रीतिस तान विचिन्तयतां तदा न राज्ये न च नारीषु न वेदाध्ययने तथा ॥ 10 ॥
परं निर्वेदम अगमंश चिन्तयन्तॊ नराधिपम तच च जञातिवधं घॊरं संस्मरन्तः पुनः पुनः ॥ 11 ॥
अभिमन्यॊश च बालस्य विनाशं रणमूर्धनि कर्णस्य च महाबाहॊः संग्रामेष्व अपलायिनः ॥ 12 ॥
तथैव दरौपदेयानाम अन्येषां सुहृदाम अपि वधं संस्मृत्य ते वीरा नातिप्रमनसॊ ऽभवन ॥ 13 ॥
हतप्रवीरां पृथिवीं हतरत्नां च भारत सदैव चिन्तयन्तस ते न निद्राम उपलेभिरे ॥ 14 ॥
दरौपदी हतपुत्रा च सुभद्रा चैव भामिनी नातिप्रीति युते देव्यौ तदास्ताम अप्रहृष्टवत ॥ 15 ॥
वैराट्यास तु सुतं दृष्ट्वा पितरं ते परिक्षितम धारयन्ति सम ते पराणांस तव पूर्वपितामहा ॥ 16 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 28
Reach this point to mark the section finished.
Continue to अध्याय 29