[वै] ततॊ भागी रथी तीरे मेध्ये पुण्यजनॊचिते निवासम अकरॊद राजा विदुरस्या मते सथिताः ॥ 1 ॥
तत्रैनं पर्युपातिष्ठन बराह्मणा राष्ट्रवासिनः कषत्रविट शूद्र संघाश च बहवॊ भरतर्षभ ॥ 2 ॥
स तैः परिवृतॊ राजा कथाभिर अभिनन्द्य तान अनुजज्ञे सशिष्यान वै विधिवत परतिपूज्य च ॥ 3 ॥
सायाह्ने स महीपालस ततॊ गङ्गाम उपेत्य ह चकार विधिवच छौचं गान्धारी च यशस्विनी ॥ 4 ॥
तथैवान्ये पृथक सर्वे तीर्थेष्व आप्लुत्य भारत चक्रुः सर्वाः करियास तत्र पुरुषा विदुरादयः ॥ 5 ॥
कृतशौचं ततॊ वृद्धं शवशुरं कुन्तिभॊजजा गान्धारीं च पृथा राजन गङ्गातीरम उपानयत ॥ 6 ॥
राज्ञस तु याजकैस तत्र कृतॊ वेदी परिस्तरः जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः ॥ 7 ॥
ततॊ भागी रथी तीरात कुरु कषेत्रं जगाम सः सानुगॊ नृपतिर विद्वान नियतः संयतेन्द्रियः ॥ 8 ॥
तत्राश्रमपदं धीमान अभिगम्य स पार्थिवः आससादाथ राजर्षिः शतयूपं मनीषिणम ॥ 9 ॥
स हि राजा महान आसीत केकयेषु परंतपः सपुत्रं मनुजैश्वर्ये निवेश्य वनम आविशत ॥ 10 ॥
तेनासौ सहितॊ राजा ययौ वयासाश्रमं तदा तत्रैनं विधिवद राजन परत्यगृह्णात कुरूद्वहम ॥ 11 ॥
स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः शतयूपाश्रमे तस्मिन निवासम अकरॊत तदा ॥ 12 ॥
तस्मै सर्वं विधिं राजन राजाचख्यौ महामतिः आरण्यकं महाराज वयासास्यानुमते तदा ॥ 13 ॥
एवं स तपसा राजा धृतराष्ट्रॊ महामनाः यॊजयाम आस चात्मानं तांश चाप्य अनुचरांस तदा ॥ 14 ॥
तथैव देवी गान्धारी वल्कलाजिनवासिनी कुन्त्या सह महाराज समानव्रतचारिणी ॥ 15 ॥
कर्मणा मनसा वाचा चक्षुषा चापि ते नृप संनियम्येन्द्रियग्रामम आस्थिताः परमं तपः ॥ 16 ॥
तवग अस्थि भूतः परिशुष्कमांसॊ; जटाजिनी वल्कलसंवृताङ्गः स पार्थिवस तत्र तपश चकार; महर्षिवत तीव्रम अपेतदॊषः ॥ 17 ॥
कषत्ता च धर्मार्थविद अग्र्यबुद्धिः; ससंजयस तं नृपतिं सदारम उपाचरद घॊरतपॊ जितात्मा; तदा कृशॊ वल्कलचीरवासाः ॥ 18 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 25
Reach this point to mark the section finished.
Continue to अध्याय 26