धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 26

  1. [वै] ततस तस्मिन मुनिश्रेष्ठा राजानं दरष्टुम अभ्ययुः नारदः पर्वतश चैव देवलश च महातपाः ॥ 1 ॥

  2. दवैपायनः सशिष्यश च सिद्धाश चान्ये मनीषिणः शतयूपश च राजर्षिर वृद्धः परमधार्मिकः ॥ 2 ॥

  3. तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ते चापि तुतुषुस तस्यास तापसाः परिचर्यया ॥ 3 ॥

  4. तत्र धर्म्याः कथास तात चक्रुस ते परमर्षयः रमयन्तॊ महात्मानं धृतराष्ट्रं जनाधिपम ॥ 4 ॥

  5. कथान्तरे तु कस्मिंश चिद देवर्षिर नारदस तदा कथाम इमाम अकथयत सर्वप्रत्यक्षदर्शिवान ॥ 5 ॥

  6. पुरा परजापतिसमॊ राजासीद अकुतॊभयः सहस्रचित्य इत्य उक्तः शतयूप पितामहः ॥ 6 ॥

  7. सा पुत्रे राज्यम आसज्य जयेष्ठे परमधार्मिके सहस्रचित्यॊ धर्मात्मा परविवेश वनं नृपः ॥ 7 ॥

  8. स गत्वा तपसः पारं दीप्तस्य स नराधिपः पुरंदरस्य संस्थानं परतिपेदे महामनाः ॥ 8 ॥

  9. दृष्टपूर्वः स बहुशॊ राजन संपतता मया महेन्द्र सदने राजा तपसा दग्धकिल्बिषः ॥ 9 ॥

  10. तथा शैलालयॊ राजा भगदत्तपितामहाः तपॊबलेनैव नृपॊ महेन्द्र सदनं गतः ॥ 10 ॥

  11. तथा पृषध्रॊ नामासीद राजा वज्रधरॊपमः स चापि तपसा लेभे नाकपृष्ठम इतॊ नृपः ॥ 11 ॥

  12. अस्मिन्न अरण्ये नृपते मान्धातुर अपि चात्मजः पुरु कुत्सॊ नृपः सिद्धिं महतीं समवाप्तवान ॥ 12 ॥

  13. भार्या सामभवद यस्य नर्मदा सरितां वरा सॊ ऽसमिन्न अरण्ये नृपतिस तपस तप्त्वा दिवं गतः ॥ 13 ॥

  14. शशलॊमा च नामासीद राजा परमधार्मिकः स चाप्य अस्मिन वने तप्त्वा तपॊ दिवम अवाप्तवान ॥ 14 ॥

  15. दवैपायन परसादाच च तवम अपीदं तपॊवनम राजन्न अवाप्य दुष्प्रापां सिद्धिम अग्र्यां गमिष्यसि ॥ 15 ॥

  16. तवं चापि राजशार्दूल तपसॊ ऽनते शरिया वृतः गान्धारी साहितॊ गन्ता गतिं तेषां महात्मनाम ॥ 16 ॥

  17. पाण्डुः समरतिनित्यं च बलहन्तुः समीपतः तवां सदैव महीपाल स तवां शरेयसि यॊक्ष्यति ॥ 17 ॥

  18. तव शुश्रूषया चैव गान्धार्याश च यशस्विनी भर्तुः सालॊकतां कुन्ती गमिष्यति वधूस तव ॥ 18 ॥

  19. युधिष्ठिरस्य जननी स हि धार्मः सनातनः वयम एतत परपश्यामॊ नृपते दिव्यचक्षुषा ॥ 19 ॥

  20. परवेक्ष्यति महात्मानं विदुरश च युधिष्ठिरम संजयस तवद अनुध्यानात पूतः सवर्गम अवाप्स्यति ॥ 20 ॥

  21. एतच छरुत्वा कौरवेन्द्रॊ महात्मा; सहैव पत्न्या परीतिमान परत्यगृह्णात विद्वान वाक्यं नारदस्या परशस्य; चक्रे पूजां चातुलां नारदाय ॥ 21 ॥

  22. तथा सर्वे नारदं विप्रसंघाः; संपूजयाम आसुर अतीव राजन राज्ञः परीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास तदानीम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25