धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 23

  1. [कुन्ती] एवम एतन महाबाहॊ यथा वदसि पाण्डव कृतम उद्धर्षणं पूर्वं मया वः सीदतां नृप ॥ 1 ॥

  2. दयूतापहृत राज्यानां पतितानां सुखाद अपि जञातिभिः परिभूतानां कृतम उद्धर्षणं मया ॥ 2 ॥

  3. कथं पाण्डॊर न नश्येत संततिः पुरुषर्षभाः यशश च वॊ न नश्येत इति चॊद्धर्षणं कृतम ॥ 3 ॥

  4. यूयम इन्द्रसमाः सर्वे देवतुल्यपराक्रमाः मा परेषां मुखप्रेक्षाः सथेत्य एवं तत कृतं मया ॥ 4 ॥

  5. कथं धर्मभृतां शरेष्ठॊ राजा तवं वासवॊपमः पुनर वने न दुःखी सया इति चॊद्धर्षणं कृतम ॥ 5 ॥

  6. नागायुत समप्राणः खयातिविक्रमपौरुषः नायं भीमॊ ऽतययं गच्छेद इति चॊद्धर्षणं कृतम ॥ 6 ॥

  7. भीमसेनाद अवरजस तथायं वासवॊपमः विजयॊ नावसीदेत इति चॊद्धर्षणं कृतम ॥ 7 ॥

  8. नकुलः सहदेवश च तथेमौ गुरुवर्तिनौ कषुधा कथं न सीदेताम इति चॊद्धर्षणं कृतम ॥ 8 ॥

  9. इयं च बृहती शयामा शरीमत्य आयतलॊचना वृथा सभा तले कलिष्टा मा भूद इति च तत कृतम ॥ 9 ॥

  10. परेक्षन्त्या मे तदा हीमां वेपन्तिं कदलीम इव सत्री धर्मिणीम अनिन्द्याङ्गीं तथा दयूतपराजिताम ॥ 10 ॥

  11. दुःशासनॊ यदा मौढ्याद दासीवत पर्यकर्षत तदैव विदितं मह्यं पराभूतम इदं कुलम ॥ 11 ॥

  12. विषण्णाः कुरवश चैव तदा मे शवशुरादयः यथैषा नाथम इच्छन्ती वयलपत कुररी यथा ॥ 12 ॥

  13. केशपक्षे परामृष्टा पापेन हतबुद्धिना यदा दुःशासनेनेषा तदा मुह्याम्य अहं नृप ॥ 13 ॥

  14. युष्मत्तेजॊ विवृद्ध्य अर्थं मया हय उद्धर्षणं कृतम तदानीं विदुरा वाक्यैर इति तद वित्तपुत्रकाः ॥ 14 ॥

  15. कथं न राजवंशॊ ऽयं नश्येत पराप्य सुतान मम पाण्डॊर इति मया पुत्र तस्माद उद्धर्षणं कृतम ॥ 15 ॥

  16. न तस्य पुत्रः पौत्रौ वा कृत एव स पार्थिव लभते सुकृताँल लॊकान यस्माद वंशः परणश्यति ॥ 16 ॥

  17. भुक्तं राज्यफलं पुत्रा भर्तुर मे विपुलं पुरा महादानानि दत्तानि पीतः सॊमॊ यथाविधि ॥ 17 ॥

  18. साहं नात्म फलार्थं वै वासुदेवम अचूचुदम विदुरायाः परलापैस तैः पलावनार्थ तु तत कृतम ॥ 18 ॥

  19. नाहं राज्यफलं पुत्र कामये पुत्र निर्जितम पतिलॊकान अहं पुण्यान कामये तपसा विभॊ ॥ 19 ॥

  20. शवश्रू शवशुरयॊः कृत्वा शुश्रूषां वनवासिनॊः तपसा शॊषयिष्यामि युधिष्ठिर कलेवरम ॥ 20 ॥

  21. निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह धर्मे ते धीयतां बुद्धिर मनस ते महद अस्तु च ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 24

Previous: अध्याय 22