[वै] ततः परासादहर्म्येषु वसुधायां च पार्थिव सत्रीणां च पुरुषाणां च सुमहान निःस्वनॊ ऽभवत ॥ 1 ॥
स राजा राजमार्गेण नृनारी संकुलेन च कथं चिन निर्ययौ धीमान वेपमानः कृताञ्जलिः ॥ 2 ॥
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात विसर्जयाम आस च तं जनौघं स मुहुर मुहुः ॥ 3 ॥
वनं गन्तुं च विदुरॊ राज्ञा सह कृतक्षणः संजयश च महामात्रः सूतॊ गावल्गणिस तथा ॥ 4 ॥
कृपं निवर्तयाम आस युयुत्सुं च महारथम धृतराष्ट्रॊ महीपालः परिदाय युधिष्ठिरे ॥ 5 ॥
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस तदा धृतराष्ट्राभ्यनुज्ञातॊ निवर्तितुम इयेष सः ॥ 6 ॥
सॊ ऽबरवीन मातरं कुन्तीम उपेत्य भरतर्षभ अहं राजानम अन्विष्ये भवती विनिवर्तताम ॥ 7 ॥
वधू परिवृता राज्ञि नगरं गन्तुम अर्हसि राजा यात्व एष धर्मात्मा तपसे धृतनिश्चयः ॥ 8 ॥
इत्य उक्ता धर्मराजेन बाष्पव्याकुललॊचना जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह ॥ 9 ॥
सहदेवे महाराज मा परमादं कृथाः कव चित एष माम अनुरक्तॊ हि राजंस तवां चैव नित्यदा ॥ 10 ॥
कर्णं समरेथाः सततं संग्रामेष्व अपलायिनम अवकीर्णॊ हि स मया वीरॊ दुष्प्रज्ञया तदा ॥ 11 ॥
आयसं हृदयं नूनं मन्दाया मम पुत्रक यत सूर्यजम अपश्यन्त्याः शतधा न विदीर्यते ॥ 12 ॥
एवंगते तु किं शक्यं मया कर्तुम अरिंदम मम दॊषॊ ऽयम अत्यर्थं खयापितॊ यन न सूर्यजः तन्निमित्तं महाबाहॊ दानं दद्यास तवम उत्तमम ॥ 13 ॥
सदैव भरातृभिः सार्धम अग्रजस्यारि मर्दन दरौपद्याश च परिये नित्यं सथातव्यम अरिकर्शन ॥ 14 ॥
भीमसेनार्जुनौ चैव नकुलश च कुरूद्वह समाधेयास तवया वीर तवय्य अद्य कुलधूर गता ॥ 15 ॥
शवश्रू शवशुरयॊः पादाञ शुश्रूषन्ती वने तव अहम गान्धारी सहिता वत्स्ये तापसी मलपङ्किनी ॥ 16 ॥
एवम उक्तः स धर्मात्मा भरातृभिः सहितॊ वशी विषादम अगमत तीव्रं न च किं चिद उवाच ह ॥ 17 ॥
स मुहूर्तम इव धयात्वा धर्मपुत्रॊ युधिष्ठिरः उवाच मातरं दीनश चिन्ताशॊकपरायणः ॥ 18 ॥
किम इदं ते वयवसितं नैवं तवं वक्तुम अर्हसि न तवाम अभ्यनुजानामि परसादं कर्तुम अर्हसि ॥ 19 ॥
वयरॊचयः पुरा हय अस्मान उत्साह्य परियदर्शने विदुराया वचॊभिस तवम अस्मान न तयक्तुम अर्हसि ॥ 20 ॥
निहत्य पृथिवीपालान राज्यं पराप्तम इदं मया तव परज्ञाम उपश्रुत्य वासुदेवान नरर्षभात ॥ 21 ॥
कव सा बुद्धिर इयं चाद्य भवत्या या शरुता मया कषत्रधर्मे सथितिं हय उक्त्वा तस्याश चलितुम इच्छसि ॥ 22 ॥
अस्मान उत्सृज्य राज्यं च सनुषां चेमां यशस्विनीम कथं वत्स्यसि शून्येषु वनेष्व अम्ब परसीद मे ॥ 23 ॥
इति बाष्पकलां वाचं कुन्तीपुत्रस्य शृण्वती जगामैवाश्रु पूर्णाक्षी भीमस ताम इदम अब्रवीत ॥ 24 ॥
यदा राज्यम इदं कुन्ति भॊक्तव्यं पुत्र निर्जितम पराप्तव्या राजधर्माश च तदेयं ते कुतॊ मतिः ॥ 25 ॥
किं वयं कारिताः पूर्वं भवत्या पृथिवी कषयम कस्य हेतॊः परित्यज्य वनं गन्तुम अभीप्ससि ॥ 26 ॥
वनाच चापि किम आनीता भवत्या बालका वयम दुःखशॊकसमाविष्टौ माद्रीपुत्राव इमौ तथा ॥ 27 ॥
परसीद मातर मा गास तवं वनम अद्य यशस्विनि शरियं यौधिष्ठिरीं तावद भुङ्क्ष्व पार्थ बलार्जिताम ॥ 28 ॥
इति सा निश्चितैवाथ वनवास कृतक्षणा लालप्यतां बहुविधं पुत्राणां नाकरॊद वचः ॥ 29 ॥
दरौपदी चान्वयाच छवश्रूं विषण्णवदना तदा वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ 30 ॥
सा पुत्रान रुदतः सर्वान मुहुर मुहुर अवेक्षती जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ 31 ॥
अन्वयुः पाण्डवास तां तु सभृत्यान्तःपुरास तदा ततः परमृज्य साश्रूणि पुत्रान वचनम अब्रवीत ॥ 32 ॥
आश्रमवासिकपर्व · Ashramavasika Parva
अध्याय 22
Reach this point to mark the section finished.
Continue to अध्याय 23